एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ ५।६७।१ ॥
इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ ५।६७।२ ॥
एवमित्यादि ॥ ५।६७।१,२ ॥
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ५।६७।३ ॥
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ ५।६७।४ ॥
पुनः पुनरुपागम्य विरराद भृशं किल ।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥ ५।६७।५ ॥
वायसेन च तेनैव सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥ ५।६७।६ ॥
पूर्वं सङ्कुचितं विस्तृणीते सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥ ५।६७।३६ ॥
तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ५।६७।७ ॥
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ५।६७।८ ॥
निरीक्षमाणः सहसा वायसं समवैक्षथाः ।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ५।६७।९ ॥
सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ ५।६७।१० ॥
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥ ५।६७।११ ॥
स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ ५।६७।१२ ॥
क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ॥ ५।६७।१३ ॥
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।
त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ॥ ५।६७।१४ ॥
पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ॥ ५।६७।१५ ॥
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ॥ ५।६७।१६ ॥
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥ ५।६७।१७ ॥
राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ॥ ५।६७।१८ ॥
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ ५।६७।१९ ॥
तां त्वित्यादि । दारितां विदारिताम् ॥ ५।६७।७१९ ॥
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।
न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ॥ ५।६७।२० ॥
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥ ५।६७।२१ ॥
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।
स किमर्थं नरवरो न मां रक्षति राघवः ॥ ५।६७।२२ ॥
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ ५।६७।२३ ॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ॥ ५।६७।२४ ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ॥ ५।६७।२५ ॥
प्रतिसमासितुं प्रतिमुखं स्थातुम् ॥ ५।६७।२०२५ ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ ५।६७।२६ ॥
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।
इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ ५।६७।२७ ॥
तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ ५।६७।२८ ॥
त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ॥ ५।६७।२६२८ ॥
हत्वा च समरे रौद्र रावण सहबान्धवम् ।
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ॥ ५।६७।२९ ॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ॥ ५।६७।३० ॥
नयते नेष्यते । वर्तमानसामीप्ये वर्तमानवत् प्रयोगः ॥ ५।६७।२९,३० ॥
सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ॥ ५।६७।३१ ॥
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।
शिरसा तां प्रणम्यार्यामहमागमने त्वरे ॥ ५।६७।३२ ॥
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।
विवर्धमानं च हि मामुवाच जनकात्मजा ॥ ५।६७।३३ ॥
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ॥ ५।६७।३४ ॥
हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ॥ ५।६७।३५ ॥
यथा च स महाबाहुर्मां तारयति राघवः ।
असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ५।६७।३६ ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ॥ ५।६७।३७ ॥
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ ५।६७।३८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ५।६७ ॥
सा ऽभिवीक्ष्य दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय वक्ष्यन्तीति भयेन । वेण्यामुद्ग्रथ्यत इति वेण्युद्ग्रथनम्, वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति । वस्त्राञ्चलेन ग्रथितं मणिं मुक्त्वा ततः ददावित्यर्थः । अस्मिन् सर्गे सार्धसप्तत्रिंशच्छ्लोकाः ॥ ५।६७।३१३८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने
सुन्दरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ५।६७ ॥