०६६ राम-हनुमत्संवादः

एवमुक्तो हनुमता रामो दशरथात्मजः ।

तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ ५।६६।१ ॥

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।

नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ ५।६६।२ ॥

एवमित्यादि ॥ ५।६६।१,२ ॥

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।

तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ ५।६६।३ ॥

यथा वत्सला वत्से स्नेहवती धेनुः । वत्सस्य स्नेहाद्वत्सविषयकस्नेहात् । स्रवत्येव द्रवत्येव । तथा मणिरत्नस्य मणिश्रेष्ठस्य दर्शनान्मम हृदयं द्रवति ॥ ५।६६।३ ॥

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।

वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ५।६६।४ ॥

मणेरागतिमाहमणिरत्नमिति । मे श्वशुरेण जनकेन । वधूकाले वधूप्रतिग्रहकाले, विवाहकाल इत्यर्थः । यथा शोभते तथा बद्धमित्यन्वयः ॥ ५।६६।४ ॥

अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।

यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५।६६।५ ॥

जनकेनापि कुतस्तल्लब्धम् ? तत्राह अयं हीति ॥ ५।६६।५ ॥

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।

अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥ ५।६६।६ ॥

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।

अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ५।६६।७ ॥

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।

पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ॥ ५।६६।८ ॥

ऽमणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यतिऽ इति सीतयोक्तप्रकारेण स्मरति इममिति । इमं दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य । दर्शनमद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ध्नि बद्धत्वादिति भावः । इह वैदेहग्रहणं सीताजनन्या अप्युपलक्षणम् । सीतावाक्ये ऽवीरो जनन्या मम चऽ इत्युक्तेः । तत्र त्रयाणां संस्मरिष्यतीति त्रयग्रहणं बहुमात्रोपलक्षणम् । इह वैदेहस्यापि स्मरणोक्तेः ॥ ५।६६।६८ ॥

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।

मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥ ५।६६।९ ॥

चिरं जीवति वैदेही यदि मासं धरिष्यति ।

क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ ५।६६।१० ॥

नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।

न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ५।६६।११ ॥

इतस्त्विति । आगतं मणिमित्यन्वयः ॥ ५।६६।९११ ॥

कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।

भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ ५।६६।१२ ॥

शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।

आवृतं वदनं तस्या न विराजति राक्षसैः ॥ ५।६६।१३ ॥

भीरुभीरुः अत्यन्तभीरुः ॥ ५।६६।१२,१३ ॥

किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।

एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ ५।६६।१४ ॥

तत्त्वतः, सङ्कोचेन न किंचित् गोपनीयमिति भावः ॥ ५।६६।१४ ॥

मधुरा मधुरालापा किमाह मम भामिनी ।

मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥

[दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी ] ॥ ५।६६।१५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥ ५।६६ ॥

मधुरा सुन्दरी । मधुरालापा, येन तद्वचनानुवादेपि भवद्वचनं मधुरं भवतीत्यर्थः ॥ ५।६६।१५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ५।६६ ॥