ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ ५।६५।१ ॥
तत इति ॥ ५।६५।१ ॥
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ ५।६५।२ ॥
प्रवृत्तिं वार्ताभ् ॥ ५।६५।२ ॥
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ।
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ॥ ५।६५।३ ॥
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ ५।६५।४ ॥
क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ५।६५।५ ॥
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ५।६५।६ ॥
रोधं निरोधम् । यश्चायं समयः कृः, मासद्वयादूर्ध्वं हनिष्यामीति यः सङ्केतो रावणेन कृत इत्यर्थः । मासशब्दः पक्षपर इत्युक्तं प्राक् । तमिति शेषः ॥ ५।६५।३६ ॥
श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥ ५।६५।७ ॥
श्रुत्वा त्वित्यादि । प्रणामश्च सीतायाः स्मरणकृत इति बोध्यम् । सीताया दर्शनं यथेति । येन प्रकारेण सीतादर्शनं जातं तेन प्रकारेणोवाचेत्यन्वयः ॥ ५।६५।७ ॥
समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥ ५।६५।८ ॥
दिदृक्षया न तु श्रोतुमिच्छया मार्गमाण इत्यर्थः ॥ ५।६५।८ ॥
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ५।६५।९ ॥
तत्र लङ्घने कृते सति ॥ ५।६५।९ ॥
तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ ५।६५।१० ॥
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ५।६५।११ ॥
हे राम रामा सीता त्वयि मनोरथं स्वाभिलाषम् संन्यस्य जीवन्ती, त्वदभिलाषेण धृतजीवितेत्यर्थः ॥ ५।६५।१०,११ ॥
दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ॥ ५।६५।१२ ॥
दुःखमित्यर्धम् । आसाद्यते आसीदिति । आर्षो यत् ॥ ५।६५।१२ ॥
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ ५।६५।१३ ॥
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ॥ ५।६५।१४ ॥
इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।
सा मया नरशार्दूल विश्वासमुपपादिता ॥ ५।६५।१५ ॥
एकवेणीधरा त्रिधाविभागं विना बद्धः केशपाशः एकवेणीत्युच्यते । अधःशय्या स्थण्डिलशायिनी । मर्तव्ये मरणे कृतनिश्चया ॥ ५।६५।१३१५ ॥
ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ ५।६५।१६ ॥
सर्वमर्थं च दर्शिता सुग्रीवसख्यप्रभृतिसर्वमर्थं च बोधिता ॥ ५।६५।१६ ॥
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ ५।६५।१७ ॥
एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ ५।६५।१८ ॥
समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वयि भक्तिश्च, वर्तत इति शेषः । तपसा अनशनेन ॥ ५।६५।१७,१८ ॥
अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ ५।६५।१९ ॥
अभिज्ञानं चिह्नभूतं वाक्यम्, तवान्तिके पूर्वं यथा येन प्रकारेण जातं तथा दत्तमित्यर्थः । तदेव दर्शयति चित्रकूट इति, सदस्यवक्तव्यत्वात् सूचनोक्तिः ॥ ५।६५।१९ ॥
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद् दृष्टमिति मामाह जानकी ॥ ५।६५।२० ॥
अखिलेनेति । रावणागमनादिकमित्यर्थः ॥ ५।६५।२० ॥
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ ५।६५।२१ ॥
अयं चास्मा इत्यादि । सुग्रीवस्योपश्रृण्वतः सुग्रीवे समीपे श्रृण्वति सति । एवम् एष चूडामणिरित्यारभ्य रक्षसां वशमागतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति मयोक्तवचनानि । ब्रुवता त्वया ॥ ५।६५।२१ ॥
एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ ५।६५।२२ ॥
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ॥ ५।६५।२३ ॥
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।
जीवितं धारयिष्यामि मासं दशरथात्मज ।
ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ॥ ५।६५।२४ ॥
अयं मणिरित्यर्थः । प्रदातव्यः ॥ ५।६५।२२२४ ॥
इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥ ५।६५।२५ ॥
मृगीवोत्फुल्ललोचना, त्रासातिशयादिति भावः ॥ ५।६५।२५ ॥
एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ॥ ५।६५।२६ ॥
सन्तीर्यते ऽनेनेति सन्तारः सेतुः ॥ ५।६५।२६ ॥
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ॥ ५।६५।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ५।६५ ॥
ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । समुद्रतरणे सुरसानिरसनादिकम् अक्षवधलङ्कादहनादिकं सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसन्निधावात्मश्लाघायां पर्यवस्येदिति नोक्तमिति ध्योयम् । स्ववृत्तान्तं सर्वमाख्यातवानिति सामान्येन वक्तुं युक्तत्वे ऽप्यङ्गदसन्निधौ प्रपञ्चनं गोप्यविशेषगोपनार्थम् । अत्र त्वप्रपञ्चनम् अकथनीयाकथनार्थं चेति ज्ञेयम् । अस्मिन्सर्गे सार्धसप्तविंशतिश्लोकाः ॥ ५।६५।२७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ५।६५ ॥