०६४ रामेण सीतान्वेषणश्लाघनम्

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।

राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ ५।६४।१ ॥

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।

वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥ ५।६४।२ ॥

स यथैवागतः पूर्वं तथैव त्वरितं गतः ।

निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ५।६४।३ ॥

सुग्रीवेणेत्यादि । सहितैः स्नेहातिरेकेणान्योन्यं युक्तै । वानरैः सहितैरिति पाठः ॥ ५।६४।१३ ॥

स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।

विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ॥ ५।६४।४ ॥

विमदानित्यत्र हेतुमाह मेहमानामिति । मेहमानान् मेहयतः, मूत्रयत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति गम्यते । अत एव विमदत्वम् । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चात्र अनुपानत्वेन पीतानि । तदाह बाहटः “अनुपानं हिमं वारि यवगोधूमयोर्हितम् । दध्नि मद्ये बिसे क्षौद्रे कोष्णं पिष्टमयेषु च ॥ " इति ॥ ५।६४।४ ॥

स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।

उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५।६४।५ ॥

स तानिति । करपुटाञ्जलिं करतलयोरञ्जलिम्, सम्यक् संयुक्तकरतलाञ्जलिमित्यर्थः ॥ ५।६४।५ ॥

सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।

अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ ५।६४।६ ॥

एभिः वानरैः अभिवारितः अभिवारितो ऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त इति पूजायां बहुवचनम् । न च हनुमदादिकमादाय बहुवचनम्, उत्तरश्लोके ऽपि युवराजस्त्वमित्युक्तेः । अज्ञानात् क्रोधात्, अज्ञानप्रयुक्तक्रोधादित्यर्थः । अभिवारितमिति

पाठे लिङ्गव्यत्यय आर्षः । केचित्तु अज्ञानात् क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परिवारितं परिवारणं प्रति रोषो न कर्तव्य इति योजयन्ति ॥ ५।६४।६ ॥

युवराजस्त्वमीशश्च वनस्यास्य महाबल ।

मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥ ५।६४।७ ॥

क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याशङ्क्य क्रोधस्याज्ञानकृतत्वादित्याह युवराज इति । दोषः निवारणरूपापराधः ॥ ५।६४।७ ॥

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।

इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ ५।६४।८ ॥

स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।

प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ ५।६४।९ ॥

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।

शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ ५।६४।१० ॥

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।

अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ ५।६४।११ ॥

आख्यात हीति । उपयातम् आगमनम् ॥ ५।६४।८११ ॥

शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।

तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥ ५।६४।१२ ॥

शङ्क इति । अयं वृत्तान्तः अस्मदागमनवृत्तान्तः ॥ ५।६४।१२ ॥

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।

किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ ५।६४।१३ ॥

किं शेषं न किंचिदपि शिष्टमित्यर्थः । किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेव शेषमित्यर्थः । किं शेषं गमनं तच्च सुग्रीवो यत्र मे गुरुः इति पाठे अस्माकं गमनं किंशेषं किंचिच्छेषम् । तच्च गमनशेषं च सुग्रीवो यत्र तत्र गमनमिति संबन्धः ॥ ५।६४।१३ ॥

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।

तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ ५।६४।१४ ॥

विनयपूर्वकं सर्वसंमेलनं समर्थयते सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामीत्यर्थः । कर्तव्ये कार्ये । भवद्भिः अहं परवान्, भवद्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते गमिष्यामः स्थातव्यमित्युक्ते स्थास्यामः इत्यर्थः ॥ ५।६४।१४ ॥

नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।

अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ ५।६४।१५ ॥

ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।

प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ ५।६४।१६ ॥

युवराजत्वात् भवानेव कर्तव्याकर्तव्यनियन्तेत्यत आह नाज्ञापयितुमिति । ईशः स्वतन्त्रः । कृतकर्माणः कृतोपकाराः यूयं मया धर्षयितुम् अनादर्तुम्, परतन्त्रीकर्तुमिति यावत् । अयुक्तम् अयुक्ता इत्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमान्नपुंसकैकत्वनिर्देश इत्यप्याहुः ॥ ५।६४।१५,१६ ॥

एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।

ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ॥ ५।६४।१७ ॥

अहमित मन्यते गर्विष्ठो भवतीति यावत् ॥ ५।६४।१७ ॥

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।

सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ ५।६४।१८ ॥

सन्नतिः विनयः ॥ ५।६४।१८ ॥

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।

स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ ५।६४।१९ ॥

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।

क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ ५।६४।२० ॥

कृतक्षणाः कृतावसराः, अवसरप्रतीक्षा इति यावत् ॥ ५।६४।१९,२० ॥

एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।

बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ ५।६४।२१ ॥

बाढमित्यङ्गीकारे । इतिशब्दः काकाक्षिन्यायेन पूर्वापरयोरन्वेति । एवं तेषां वदतां तेषु वदत्सु अङ्गदः बाढमिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात ॥ ५।६४।२१ ॥

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।

कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥ ५।६४।२२ ॥

निराकाशं निरवकाशम् ॥ ५।६४।२२ ॥

[अङ्गदं पुरतः कृत्वा हनुमन्तं च वानरम् ।]

ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।

विनदन्तो महानादं घना वातेरिता यथा ॥ ५।६४।२३ ॥

अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।

उवाच शोकोपहतं रामं कमललोचनम् ॥ ५।६४।२४ ॥

समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।

नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ ५।६४।२५ ॥

ते ऽम्बरमिति । अत्र जग्मुरित्यध्याहार्यम् ॥ ५।६४।२३२५ ॥

न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।

युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ॥ ५।६४।२६ ॥

विनिपातिते विघ्निते ॥ ५।६४।२६ ॥

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।

भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ॥ ५।६४।२७ ॥

अकृतकृत्यानाम् अकृतकार्याणाम् । ईदृशः मधुवनभङ्गरूपः । उपक्रमः उद्योगः । यदि स्यात्तदा ऽङ्गदो दीनवदनत्वादिविशिष्टो भवेत् ॥ ५।६४।२७ ॥

पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।

न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ ५।६४।२८ ॥

पितृपैतामहमिति । पिता चासौ पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे दत्तं पितृपैतामहम् । प्लवगेश्वरः अङ्गदः ॥ ५।६४।२८ ॥

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।

दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ ५।६४।२९ ॥

न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।

हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।

व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ॥ ५।६४।३० ॥

कौसल्येति । हे राम कौसल्या सुप्रजाः सुप्रजावती । “नित्यमसिच् प्रजामेधयोः” इत्यसिच्प्रत्ययः । एवं देव्यवस्थानज्ञानेन भवतस्सत्तालाभादिदानीं कौसल्या सुप्रजावती, अभूदिति शेषः ॥ ५।६४।२९,३० ॥

जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।

हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ ५।६४।३१ ॥

मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥ ५।६४।३२ ॥

यत्र कार्ये । नेता मन्त्री । बलेश्वरः सेनापतिः । अधिष्ठाता संरक्षक इत्यर्थः । तस्य कार्यस्य । गतिः सिद्धिः । अन्यथा विपरीता न भवेत् । संप्रति चिन्तासंयुक्तो मा भूः ॥ ५।६४।३१,३२ ॥

ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।

हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।

किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ५।६४।३३ ॥

सिद्धिं कथयतामिव । उत्साहेनेति शेषः ॥ ५।६४।३३ ॥

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।

आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ॥ ५।६४।३४ ॥

आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।

अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ५।६४।३५ ॥

आयताञ्जितलाङ्गूलः आयतः दीर्घीकृतः अञ्चितः माल्यवच्छृङ्गे समास्थापितः ॥ ५।६४।३४,३५ ॥

ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।

निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ ५।६४।३६ ॥

प्रहृष्टाः सञ्जातपुलकाः ॥ ५।६४।३६ ॥

हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।

नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ५।६४।३७ ॥

[दृष्टा देवीति हनुमद्वदनादमृतोपमम् ।

आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥ ]

निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।

लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ॥ ५।६४।३८ ॥

प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।

बहुमानेन महता हनुमन्तमवैक्षत ॥ ५।६४।३९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमित्सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥ ५।६४ ॥

नियतामिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्यम् नियतत्वेपि क्षतत्वे च तथा । ततः आवश्यकमुभयं संग्रहेण दर्शयति । अस्मिन्सर्गे सार्धैकोनचत्वारिंशच्छ्लोकाः ॥ ५।६४।३७३९ ॥

इति श्रीगेविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ५।६४ ॥