ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ ५।६३।१ ॥
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ ५।६३।२ ॥
[किं सम्भ्रमाद्धितं कृत्स्रं ब्रूहि यद्वक्तुमर्हसि ।
कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ ]
स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ॥ ५।६३।३ ॥
तत इत्यादि । उद्विग्नहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ॥ ५।६३।१३ ॥
नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥ ५।६३।४ ॥
नैवेति । न निसृष्टपूर्वं यथेच्छभोगाय न दत्तपूर्वम् । वानरैः अङ्गदप्रमुखैः । अन्यथा सुग्रीववाक्ये अङ्गदानुवादविरोधात् । भक्षितमिति वनैकदेशमधुपटलविषयम् ॥ ५।६३।४ ॥
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।
मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥ ५।६३।५ ॥
एभिरिति । अचिन्तयित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणम् । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्षयन्ति भक्षवत्कुर्वन्तीत्यर्थः ॥ ५।६३।५ ॥
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।
निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ॥ ५।६३।६ ॥
शिष्टम् अवशिष्टं मधुपटलम् । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ॥ ५।६३।६ ॥
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।
वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ॥ ५।६३।७ ॥
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥ ५।६३।८ ॥
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ ५।६३।९ ॥
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ ५।६३।१० ॥
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ५।६३।११ ॥
किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ ५।६३।१२ ॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ ५।६३।१३ ॥
हिशब्दः पादपूरणे । सम्प्रधर्षणचिह्नस्य दृश्यमानत्वाभिप्रायेण प्रसिद्धिपरो वा ॥ ५।६३।७१३ ॥
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ ५।६३।१४ ॥
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ॥ ५।६३।१५ ॥
आर्येत्यादि । अङ्गदप्रमुखैरिति अत्र विशिष्यानुवादाद्दधिमुखवाक्ये वानरपुङ्गवैरित्यत्रापि विशेषपरत्वं बोध्यम् ॥ ५।६३।१४,१५ ॥
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।
आगतैश्च प्रमथितं यथा मधुवनं हि तैः ॥ ५।६३।१६ ॥
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ ५।६३।१७ ॥
वनं प्रमथितं भग्नम् । धर्षितम् आक्रान्तम् । मधु च भक्षितम् । यथा येन कारणेन । एषामकृतकृत्यानामीदृश उपक्रमो न स्यादिति मन्य इति योजना ॥ ५।६३।१६,१७ ॥
वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ।
न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ॥ ५।६३।१८ ॥
कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ॥ ५।६३।१९ ॥
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ ५।६३।२० ॥
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।
वारयन्तश्च सहितास्तथा जानुभिराहताः ॥ ५।६३।२१ ॥
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ ५।६३।२२ ॥
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।
अभिगम्य तथा सव ? पिबन्ति मधु वानराः ॥ ५।६३।२३ ॥
कृतकृत्यत्वं विशेषयति वनमित्यादिना ॥ ५।६३।१८२३ ॥
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ ५।६३।२४ ॥
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥ ५।६३।२५ ॥
न चेति । वनमिति । मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्तवरं दिव्यमित्यनेन ऋक्षरजसे ब्रह्मणा दत्तमित्यवगम्यते ॥ ५।६३।२४,२५ ॥
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ ५।६३।२६ ॥
प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ ५।६३।२७ ॥
श्रुत्वेति । द्वितीयसुग्रीवशब्दस्य शोभनग्रीव इत्यवयवार्थो विवक्षितः । क्रियाभेदेनापुनरुक्तिर्वा ॥ ५।६३।२६,२७ ॥
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ ५।६३।२८ ॥
इच्छामीति । हनुमत्प्रधानान् हनुमत्प्रमुखान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासम् । तेभ्यः श्रोतुमिच्छामीत्यन्वयः ॥ ५।६३।२८ ॥
प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ॥ ५।६३।२९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः ॥ ५।६३ ॥
अथ प्रत्युपकारार्थं सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं ननन्देत्याह प्रीतिस्फीताक्षाविति । प्रीत्या सन्तोषेण । संप्रहृष्टौ, रोमस्विति शेषः । हृषितरोमाणावित्यर्थः । “हृषेर्लोमसु” इति विकल्पादिडभावः । एवम् अङ्गैः संहृष्टैरित्यत्रापि द्रष्टव्यम् । कर्मसिद्धिं बाह्वोरासन्नां हस्तप्राप्ताम्, । विदित्वा निश्चित्येत्यर्थः । जागतं वैश्वदेवीवृत्तम् । “पञ्चश्वैश्छिन्ना वैश्वदेवी ममौ यौ " इति लक्षणात् । अस्मिन्सर्गे एकोनत्रिंशच्छ्लोकाः ॥ ५।६३।२९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ५।६३ ॥