०६२ दधिमुखेन किष्किन्धानिवर्तनम्

तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।

अव्यग्रमनसो यूयं मधु सेवत वानराः ।

अहमावारयिष्यामि युष्माकं परिपन्थिनः ॥ ५।६२।१ ॥

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥ ५।६२।२ ॥

तानित्यादि । तान् दधिमुखकलहव्याकुलितान् । अन्ये तु तानुवाचेत्यादिना पूर्वसर्गोक्तं संक्षोपेणानूद्य उपरि गच्छतीत्याचक्षते । अपरे तु सर्गमुखे केचिच्छ्लोकाः पतिताः इत्याहुः ॥ ५।६२।१,२ ॥

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।

अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ५।६२।३ ॥

अङ्गेति सम्बोधने निपातः ॥ ५।६२।३ ॥

अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ ५।६२।४ ॥

अङ्गदस्य स्वामिनः मुखाद्वचनं हनुमदुक्तं श्रुत्वा ॥ ५।६२।४ ॥

पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।

जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ॥ ५।६२।५ ॥

जग्मुर्मधुवनमिति प्रदेशभेदविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां हनुमदङ्गदाभ्यां पुनरनुज्ञापनेन पुनर्जग्मुरित्यर्थः ॥ ५।६३।५ ॥

ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ ५।६२।६ ॥

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।

पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥ ५।६२।७ ॥

वीर्यतः बलात् । अतिसर्गादङ्गदाभ्यनुज्ञानात् । दृष्ट्वा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना । वनपालानाक्रम्य आक्षिप्य ॥ ५।६२।६,७ ॥

उत्पत्य च ततः सर्वे वनपालान् समागतान् ।

ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ॥ ५।६२।८ ॥

सक्तान् वनपालने रतान् ॥ ५।६२।८ ॥

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।

पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ॥ ५।६२।९ ॥

मधूनि मधुपटलानि । द्रोणमात्राणि द्रोणप्रमाणानि आढकप्रमाणानि । निघ्नन्ति स्म पीतावशिष्टानि मधुपटलानि भिन्दन्ति स्म ॥ ५।६२।९ ॥

केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।

मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ॥ ५।६२।१० ॥

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।

अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ ५।६२।११ ॥

अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन सिक्थकेन । “मधूच्छिष्टं तु सिक्थकम्” इत्यमरः । उत्कटाः मत्ताः ॥ ५।६२।१०,११ ॥

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।

क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ॥ ५।६२।१२ ॥

हृष्टवत् हर्षयुक्तमिति क्रियाविशेषणम् । हृष्टार्हमिति वार्थः । क्षिपन्ति उत्क्षिप्य पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ॥ ५।६२।१२ ॥

केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।

हरयो मधुना मत्ताः केचित् सुप्ता महीतले ॥ ५।६२।१३ ॥

क्ष्वेलां सिंहनादम् । “क्ष्वेला तु सिंहनादः स्यात्” इत्यमरः । कूजन्ति पक्षिवच्छब्दायन्ते ॥ ५।६२।१३ ॥

कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।

कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ॥ ५।६२।१४ ॥

ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।

ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ ५।६२।१५ ॥

अन्ये अवाच्यं किंचिद्ग्राम्यं कर्म कृत्वा हसन्ति । इतरत् तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिदन्यत् ग्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरद्रुव्यन्ति एवं करिष्यामिति सङ्कल्पयन्तीत्यर्थः ॥ ५।६२।१४,१५ ॥

जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।

अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ॥ ५।६२।१६ ॥

हनूमता दत्तवरैर्हतं मधुवनं बलात् ।

वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ ५।६२।१७ ॥

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।

हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ॥ ५।६२।१८ ॥

जानुभिः प्रकृष्टाः । जानून्यवलम्ब्य कृष्टा इत्यर्थः । देवमार्गम् अपानद्रारम् । देवशब्दो वायुवाची । उपनिषदि वायुलोके देवलोकशब्दप्रयोगात् । दर्शिताः दर्शनं कारिताः । दृशेरुपसङ्ख्यानादणिकर्तुः कर्मत्वम् । “ण्यन्तात्कर्तुश्च कर्मणः " इति तस्यै वाभिधेयत्वं च ॥ ५।६२।१६१८ ॥

इहागच्छत गच्छामो वानरान् बलदर्पितान् ।

बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ ५।६२।१९ ॥

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।

पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ ५।६२।२० ॥

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।

समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ॥ ५।६२।२१ ॥

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।

गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ॥ ५।६२।२२ ॥

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।

त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ ५।६२।२३ ॥

वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।

अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ ५।६२।२४ ॥

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।

अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥ ५।६२।२५ ॥

तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।

आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ॥ ५।६२।२६ ॥

मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।

अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥ ५।६२।२७ ॥

स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।

मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ॥ ५।६२।२८ ॥

स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।

वानरान् वारयामास दण्डेन मधुमोहितान् ॥ ५।६२।२९ ॥

स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।

उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ॥ ५।६२।३० ॥

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।

सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ ५।६२।३१ ॥

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।

अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ ५।६२।३२ ॥

इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।

पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ ५।६२।३३ ॥

गच्छाम इति तैः साहित्येन बहुवचनम् । आत्मनि बहुवचनं वा ॥ ५।६२।१९३३ ॥

स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।

घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ५।६२।३४ ॥

गतायुष इत्यधिक्षेपवचनम् ॥ ५।६२।३४ ॥

वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।

अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ५।६२।३५ ॥

एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।

जगाम सहसोत्पत्य वनपालैः समन्वितः ॥ ५।६२।३६ ॥

वध्या ह्येत इति । अमर्षप्रभवः अक्षमाजन्यः । रोषस्य तज्जन्यत्वं च यो यस्मै न सहते तस्मै क्रुद्ध्यतीति प्रसिद्धम् ॥ ५।६२।३५,३६ ॥

निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।

सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ ५।६२।३७ ॥

निमेषान्तरेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । वनालयः वानरः ॥ ५।६२।३७ ॥

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।

समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ५।६२।३८ ॥

सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।

हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ ५।६२।३९ ॥

रामं चेति । समप्रतिष्ठां समतलाम् । जगतीं भूमिम् ॥ ५।६२।३८,३९ ॥

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।

सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ५।६२।४० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥ ५।६२ ॥

अस्मिन्सर्गे चत्वारिंशच्छ्लोकाः ॥ ५।६२।४० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलके सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ५।६२ ॥