ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ ५।६१।१ ॥
तत इत्यादि ॥ ५।६१।१ ॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ ५।६१।२ ॥
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ ५।६१।३ ॥
प्रीतिमन्त इत्यादि ॥ ५।६१।२,३ ॥
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ५।६१।४ ॥
सभाज्यमानं संपूज्यमानम् । वहन्त इव दृष्टिभिरिति । प्रीतिपूर्वकानिमिषदर्शनाद्दृष्टिष्वारोप्य नयन्त इवेत्युत्प्रेक्षा ॥ ५।६१।४ ॥
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५।६१।५ ॥
अर्थनिर्वृत्तिम् अर्थसिद्धिम् । समाधाय निश्चित्य सङ्कल्प्य वा । समृद्धार्थाः सिद्धकार्याः । कर्मसिद्धिभिः कार्यसिद्धिभिः उन्नताः इतरेभ्य उत्कृष्टाः ॥ ५।६१।५ ॥
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ ५।६१।६ ॥
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥ ५।६१।७ ॥
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ५।६१।८ ॥
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ५।६१।९ ॥
रामप्रतीकारे रामप्रत्युपकारे । पुप्लुवुरिति पुर्वेण सम्बन्धः ॥ ५।६१।६९ ॥
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥ ५।६१।१० ॥
परमोत्कटाः परमोत्सुकाः ॥ ५।६१।१० ॥
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ५।६१।११ ॥
मधुपिङ्गलाः मधुवत् पिङ्गलवर्णाः वानराः ॥ ५।६१।११ ॥
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ ५।६१।१२ ॥
अनुमान्य अनुमतिं कारयित्वा । निसर्गं विसर्जनम्, अनुमतिमिति यावत् ॥ ५।६१।१२ ॥
ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तो ऽभवंस्ततः ॥ ५।६१।१३ ॥
ततश्चेति । पूर्वमेव सीतादर्शनात् प्रहृष्टाः ततः मधुवनभङ्गे अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ॥ ५।६१।१३ ॥
गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥ ५।६१।१४ ॥
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ ५।६१।१५ ॥
द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ॥ ५।६१।१६ ॥
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ॥ ५।६१।१७ ॥
मधुवनभङ्गाभ्यनुज्ञानकृतं वानरहर्षविकारमेव वर्णयति सर्गशेषेण– गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित् ॥ इति पाठः । प्रणमन्ति अवाक्छिरसः पतन्ति । पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति ॥ ५।६१।१४१७ ॥
समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ ५।६१।१८ ॥
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ ५।६१।१९ ॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ ५।६१।२० ॥
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।
समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ॥ ५।६१।२१ ॥
स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ ५।६१।२२ ॥
समाकुलमिति । मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टम् ॥ ५।६१।१८२२ ॥
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।
मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥ ५।६१।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ५।६१ ॥
नखैरिति । निर्विषयं निर्गतमधुमूलादिभोग्यवस्तुकं चक्रुरित्यर्थः ॥ ५।६१।२३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ५।६१ ॥