तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ ५।६०।१ ॥
तस्येत्यादि ॥ ५।६०।१ ॥
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥ ५।६०।२ ॥
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ५।६०।३ ॥
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ५।६०।४ ॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५।६०।५ ॥
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ५।६०।६ ॥
अयुक्तं त्विति । वानरा इति सम्बोधनम् ॥ ५।६०।२६ ॥
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ॥ ५।६०।७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः ॥ ५।६० ॥
अथ जाम्बवानङ्गदवाक्यं बहुमन्यमानस्सुहृद्भावेन प्रतिषेधति न तावदिति । अक्षमा अयुक्ता न किन्तु युक्तैवेत्यर्थः । यद्यपि सम्यगुक्तं समर्थैश्चापि रामाज्ञानुसारेण कर्तव्यम् न स्वातन्त्र्येणेत्यर्थः । अस्मिन् सर्गे सार्धषट्श्लोकाः ॥ ५।६०।७ ॥
इति श्रीगोविन्दराविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ५।६० ॥