०५८ हनुमज्जाम्बवत्संवादः

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।

हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ ५।५८।१ ॥

ततस्तस्येत्यादि ॥ ५।५८।१ ॥

तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।

जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ ५।५८।२ ॥

तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ॥ ५।५८।२ ॥

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।

तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ ५।५८।३ ॥

कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीद्दग्व्यापारः ॥ ५।५८।३ ॥

तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।

श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ५।५८।४ ॥

तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ॥ ५।५८।४ ॥

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।

रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ ५।५८।५ ॥

स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।

प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ५।५८।६ ॥

यश्चेति । तत्र रामसन्निधौ यो ऽर्थो वक्तव्यः वक्तुमर्हः यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ॥ ५।५८।५,६ ॥

प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।

उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ॥ ५।५८।७ ॥

प्रत्यक्षमेवेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । पारं, गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ॥ ५।५८।७ ॥

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।

काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ५।५८।८ ॥

गच्छत इत्यादि । विघ्नरूपमिव, वस्तुतो न तथेति भावः । पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विघ्नरूपमिवाभवत् तत् पश्यामीति योजना ॥ ५।५८।८ ॥

स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ५।५८।९ ॥

स्थितमिति । मेने इति लिट्युत्तमपुरुषैकवचनं परोक्षत्वाद्य भावेपि च्छान्दसम् । अमनिषीत्यर्थः ॥ ५।५८।९ ॥

उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।

कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ॥ ५।५८।१० ॥

प्रहतं च मया तस्य लांगूलेन महागिरेः ।

शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ ५।५८।११ ॥

व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।

पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ॥ ५।५८।१२ ॥

उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्यो ऽयमित्यादिना ॥ ५।५८।१०१२ ॥

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।

मैनाकमिति विख्यातं निवसन्तं महोदधौ ॥ ५।५८।१३ ॥

पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ ५।५८।१३ ॥

पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥ ५।५८।१४ ॥

श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।

चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ॥ ५।५८।१५ ॥

छन्दतः यथेच्छम् ॥ ५।५८।१४,१५ ॥

अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।

मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ॥ ५।५८।१६ ॥

मोक्षणप्रकारमाह प्रक्षिप्तो ऽस्मि महार्णव इति ॥ ५।५८।१६ ॥

रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।

रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ ५।५८।१७ ॥

साह्ये साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ॥ ५।५८।१७ ॥

एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।

कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ ५।५८।१८ ॥

उद्यतम् उद्युक्तम् ॥ ५।५८।१८ ॥

तेन चाहमनुज्ञातो मैनाकेन महात्मना ।

स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।

शरीरेण महाशैलः शैलेन च महोदधौ ॥ ५।५८।१९ ॥

उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।

ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ ५।५८।२० ॥

ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।

समुद्रमध्ये सा देवी वचनं मामभाषत ॥ ५।५८।२१ ॥

मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।

अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ ५।५८।२२ ॥

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।

विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ ५।५८।२३ ॥

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ ५।५८।२४ ॥

तस्य सीता हृता भार्या रावणेन दुरात्मना ।

तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ॥ ५।५८।२५ ॥

अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । ऽस वै दत्तवरः शैलो बभूवावस्थितस्तथाऽ इति प्रथमसर्गोक्तेः । प्रतिप्रयाणे च ऽपर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्ऽ इत्युक्तम् । ऽहिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलिऽ इति रामेण चोक्तम् ॥ ५।५८।१९२५ ॥

कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ ५।५८।२६ ॥

आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ॥ ५।५८।२७ ॥

एवमुक्ता मया सा तु सुरसा कामरूपिणी ।

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ ५।५८।२८ ॥

कर्तुमिति । विषये सती स्वराज्ये वसन्ती ॥ ५।५८।२६२८ ॥

एवमुक्तः सुरसया दशयोजनमायतः ।

ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।

मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ ५।५८।२९ ॥

एवमुक्त इति । तत इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारो ऽभवमित्यर्थः । एवमेवार्थः, प्रथमसर्गोक्तशतयोजनविस्तारस्तु विरुद्धः । तद्ग्रन्थः कल्पितश्चेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ॥ ५।५८।२९ ॥

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।

तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ ५।५८।३० ॥

अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।

अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ ५।५८।३१ ॥

तद्दृष्ट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ॥ ५।५८।३०,३१ ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानय च वैदेहीं राघवेण महात्मना ।

सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ॥ ५।५८।३२ ॥

अर्थसिद्धयै इति । समानय संयोजय ॥ ५।५८।३२ ॥

ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ५।५८।३३ ॥

ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।

छाया मे निगृहीता च न च पश्यामि किंचन ॥ ५।५८।३४ ॥

सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।

न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ॥ ५।५८।३५ ॥

ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।

ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ५।५८।३६ ॥

ततो ऽहमिति । साधु साध्वीति दीर्घश्छान्दसः ॥ ५।५८।३३३६ ॥

अधोभागे न मे दृष्टिः शोचता पातिता मया ।

ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ ५।५८।३७ ॥

अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ॥ ५।५८।३७ ॥

प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।

अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ५।५८।३८ ॥

क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।

भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ५।५८।३९ ॥

अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ॥ ५।५८।३८,३९ ॥

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।

आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ ५।५८।४० ॥

तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । मयि वृद्धे साप्यवर्धिष्टेत्यर्थः ॥ ५।५८।४० ॥

न च मां साधु बुबुधे मम वा निकृतं कृतम् ॥ ५।५८।४१ ॥

अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृतिं वा न बुबुधे ॥ ५।५८।४१ ॥

ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।

तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ५।५८।४२ ॥

निकृतिमेव दर्शयति ततो ऽहमिति ॥ ५।५८।४२ ॥

सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।

मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ ५।५८।४३ ॥

विसृष्टभुजा विसृष्टसन्धिकभुजा ॥ ५।५८।४३ ॥

श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।

राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ ५।५८।४४ ॥

श्रृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ॥ ५।५८।४४ ॥

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।

गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥ ५।५८।४५ ॥

दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।

अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।

प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ॥ ५।५८।४६ ॥

तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।

अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥ ५।५८।४७ ॥

जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥ ५।५८।४८ ॥

कृत्यमात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः ॥ ५।५८।४५४८ ॥

प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।

अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥ ५।५८।४९ ॥

यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ॥ ५।५८।५० ॥

भीतयेत्यादि । भीतया तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ५।५८।४९,५० ॥

तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।

रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ ५।५८।५१ ॥

ततः सीतामपश्यंस्तु रावणस्य निवेशने ।

शोकसागरमासाद्य न पारमुपलक्षये ॥ ५।५८।५२ ॥

सर्वरात्रं सर्वां रात्रिम् । “अहःसर्व” इत्यादिना समासान्तो ऽच् । अत्यन्तसंयोगे द्वितीया । तत्र लङ्कायाम् । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतः सन् सुमध्यमां नापश्यम् ॥ ५।५८।५१,५२ ॥

शोचता च मया दृष्टं प्राकारेण समावृतम् ।

काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ ५।५८।५३ ॥

विकृष्टेन विप्रकृष्टेन अतिदीर्घेणेति यावत् ॥ ५।५८।५३ ॥

स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥ ५।५८।५४ ॥

बहुपादपम् अनेकपादपप्रमाणमिति प्राकारविशेषणम् ॥ ५।५८।५४ ॥

अशोकवनिकामध्ये शिंशुपापादपो महान् ।

तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥ ५।५८।५५ ॥

शिंशुपा पादपः, अस्तीति शेषः ॥ ५।५८।५५ ॥

अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।

श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ ५।५८।५६ ॥

तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।

शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ॥ ५।५८।५७ ॥

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।

मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥ ५।५८।५८ ॥

शिंशुपावृक्षात् शिंशुपावृक्षस्य । श्यामां यौवनमध्यस्थाम् । तदेकवासस्संवीतां येन वाससा हृता तेनैकवाससा संवीताम् । यद्वा तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीताम्, वेषान्तरनिस्स्पृहामित्यर्थः । मानसिकत्वकायिकत्वभेदेन शोकसन्तापयोर्भेदः ॥ ५।५८।५६५८ ॥

सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।

एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५।५८।५९ ॥

भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥ ५।५८।६० ॥

सामयेति । आमयः खेदः तेन सह वर्तत इति सामया । मर्तव्ये मरणे । “कृत्यल्युटो बहुलम्” इति साधुः ॥ ५।५८।५९,६० ॥

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।

तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ ५।५८।६१ ॥

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।

शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ५।५८।६२ ॥

पश्यन् परामृशन् ॥ ५।५८।६१,६२ ॥

ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।

अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ ५।५८।६३ ॥

ततो रावणदाराश्च रावणश्च महाबलः ।

तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ॥ ५।५८।६४ ॥

तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।

सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ५।५८।६५ ॥

गहने पर्णगूढप्रदेशे । ऽपर्णघने निलीनःऽ इत्यधस्तादप्युक्तेः ॥ ५।५८।६३६५ ॥

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।

त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ५।५८।६६ ॥

परमोद्विग्नाम् अतीवोद्भ्रान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् । त्राणमित्यनुषज्यते ॥ ५।५८।६६ ॥

तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।

अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ ५।५८।६७ ॥

अवाक्छिराः अवनतमूर्द्धा । प्रपतितः, भूमाविति शेषः ॥ ५।५८।६७ ॥

यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।

द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ ५।५८।६८ ॥

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।

उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ५।५८।६९ ॥

राक्षसाधम रामस्य भार्यममिततेजसः ।

इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।

अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ५।५८।७० ॥

द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ॥ ५।५८।६८७० ॥

किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।

अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ५।५८।७१ ॥

न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।

यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ॥ ५।५८।७२ ॥

किंचिद्वीर्यं कुत इत्यत्राह यो मामिति । भर्तुरसन्निधौ तेन भर्त्रा अदृष्टः सन् यो मामपहृत्यागतः तस्य तव किंचिद्वीर्यमिति योज्यम् ॥ ५।५८।७१,७२ ॥

जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।

जज्वाल सहसा कोपच्चितास्थ इव पावकः ॥ ५।५८।७३ ॥

जानक्येति । घोरत्वसिद्धये चितास्थ इत्युक्तम् ॥ ५।५८।७३ ॥

विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।

मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ॥ ५।५८।७४ ॥

आरब्धः, रावण इति शेषः । हा हा कृतं हा हेत्येतत्कृतम् ॥ ५।५८।७४ ॥

स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।

वरा मण्डोदरी नाम तया स प्रतिषेधितः ॥ ५।५८।७५ ॥

उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।

सीतया तव किं कार्यं महेन्द्रसमविक्रम ॥ ५।५८।७६ ॥

[मया सह रमस्वाद्य मद्विशिष्टा न जानकी ।]

देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।

सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥ ५।५८।७७ ॥

समुत्पत्य, रावणसमीपं गतेति शेषः । मण्डोदरी मण्डनभूतोदरी । “मडि भूषायाम्” इत्यस्माद्धातोः पचाद्यच् । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटुनिर्भाग्या मन्दाः” इत्यमरः । सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः । ननु पूर्वं धान्यमालिन्या प्रतिषिद्ध इत्युक्तम् , संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरिज्ञानं च हनुमतस्तदीयव्यवहारात् ॥ ५।५८।७५७७ ॥

ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ॥ ५।५८।७८ ॥

ताभिः देवकन्याभिः । अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ॥ ५।५८।७८ ॥

याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।

सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ ५।५८।७९ ॥

क्रूरैः क्रूरशब्दैः । सुदारुणैः अर्थतोपि क्रूरैः ॥ ५।५८।७९ ॥

तृणवद्भाषितं तासां गणयामास जानकी ।

गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥ ५।५८।८० ॥

तृणवत् गणयामासेत्यन्वयः ॥ ५।५८।८० ॥

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।

रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ ५।५८।८१ ॥

वृथागर्जितनिश्चेष्टाः वृथगर्जितेन निर्व्यापाराः ॥ ५।५८।८१ ॥

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।

परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ ५।५८।८२ ॥

ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेषः । परिक्षिप्य परिवार्य ॥ ५।५८।८२ ॥

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।

विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ५।५८।८३ ॥

तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।

आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ ५।५८।८४ ॥

जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ ५।५८।८५ ॥

रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ५।५८।८६ ॥

सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ॥ ५।५८।८३८६ ॥

अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।

अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ५।५८।८७ ॥

यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।

सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ ५।५८।८८ ॥

अलं शक्ता । “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्” इत्यमरः । परित्रातुम्, एषेति शेषः ॥ ५।५८।८७,८८ ॥

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ ५।५८।८९ ॥

अपराधिजनप्राणत्राणे हेतुमाह प्रणिपातेति ॥ ५।५८।८९ ॥

ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।

अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ॥ ५।५८।९० ॥

ततः त्रिजटावाक्यानन्तरम् । भर्तुर्विजयहर्षिता त्रिजटाकथितस्वप्नसूचितरामविजयहर्षिता । तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ॥ ५।५८।९० ॥

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।

चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥ ५।५८।९१ ॥

न च मे निर्वृतम् किन्तु दुःखितमित्यर्थः ॥ ५।५८।९१ ॥

सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।

इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ ५।५८।९२ ॥

श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ॥ ५।५८।९३ ॥

कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।

का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ५।५८।९४ ॥

तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।

सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ ५।५८।९५ ॥

तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।

भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ५।५८।९६ ॥

इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।

अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ ५।५८।९७ ॥

तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।

रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ ५।५८।९८ ॥

एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।

आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ५।५८।९९ ॥

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।

राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ ५।५८।१०० ॥

अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।

मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ ५।५८।१०१ ॥

विधिः उपायः ॥ ५।५८।९२१०१ ॥

इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।

प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ ५।५८।१०२ ॥

इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ ५।५८।१०२ ॥

ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।

प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ ५।५८।१०३ ॥

उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।

हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ ५।५८।१०४ ॥

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।

सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ ५।५८।१०५ ॥

परिक्रामं पर्यक्रामम् । इहाभ्युद्गतमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ॥ ५।५८।१०३१०५ ॥

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।

न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ॥ ५।५८।१०६ ॥

एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयातामित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवमीत्यर्थः । न मां द्रक्ष्यति मासद्वयाभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् । मासशब्दो ऽत्र पक्षपरः । “पक्षा वै मासाः” इति श्रुतेः ॥ ५।५८।१०६ ॥

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।

उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ ५।५८।१०७ ॥

ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।

युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ ५।५८।१०८ ॥

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।

प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ ५।५८।१०९ ॥

मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।

ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ५।५८।११० ॥

राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।

वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ ५।५८।१११ ॥

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।

वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ॥ ५।५८।११२ ॥

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।

राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥ ५।५८।११३ ॥

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।

मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ॥ ५।५८।११४ ॥

तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।

निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ ५।५८।११५ ॥

उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः ॥ ५।५८।१०७११५ ॥

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।

तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।

ललामभूतो लङ्कायाः स वै विध्वंसितो मया ॥ ५।५८।११६ ॥

ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।

राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ॥ ५।५८।११७ ॥

तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।

परिघेणातिघोरेण सूदयामि सहानुगम् ॥ ५।५८।११८ ॥

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ॥ ५।५८।११९ ॥

ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविषयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः अलङ्कारभूतः ॥ ५।५८।११६११९ ॥

पदातिबलसम्पन्नान् प्रेषयामास रावणः ।

परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ ५।५८।१२० ॥

मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।

पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ॥ ५।५८।१२१ ॥

तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।

ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ ५।५८।१२२ ॥

बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।

तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ ५।५८।१२३ ॥

सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।

चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।

तमक्षमागतं भग्नं निशम्य स दशाननः ॥ ५।५८।१२४ ॥

तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ ५।५८।१२५ ॥

तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ ५।५८।१२६ ॥

महतापि महाबाहुः प्रत्ययेन महाबलः ।

प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ॥ ५।५८।१२७ ॥

सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।

ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ॥ ५।५८।१२८ ॥

रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।

रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ ५।५८।१२९ ॥

दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।

पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ ५।५८।१३० ॥

तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ ५।५८।१३१ ॥

पदातिबलसम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ॥ ५।५८।१२०१३१ ॥

अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।

मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ ५।५८।१३२ ॥

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।

सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ ५।५८।१३३ ॥

अस्याहमित्यादि । अस्याः सीतायाः । विसन्धिरार्षः ॥ ५।५८।१३२,१३३ ॥

सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।

धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ ५।५८।१३४ ॥

वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।

राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ ५।५८।१३५ ॥

तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।

तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ ५।५८।१३६ ॥

मया च कथितं तस्मै वालिनश्च वधं प्रति ।

तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ ५।५८।१३७ ॥

कारकम् अर्थसाहित्यात्पथ्यम् इहोपकारकं चेत्यर्थः ॥ ५।५८।१३४१३७ ॥

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।

चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ ५।५८।१३८ ॥

तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।

वानराणां महाराजः कृतः स प्लवता प्रभुः ॥ ५।५८।१३९ ॥

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।

तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।

क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ ५।५८।१४० ॥

यावन्न हरयो वीरा विधमन्ति बलं तव ॥ ५।५८।१४१ ॥

वानराणां प्रभावो हि न केन विदितः पुरा ।

देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ ५।५८।१४२ ॥

सुग्रीवश्चेत्यादिना सुग्रीवोक्तं कियदनूद्य संप्रति शेषं स्वयं वक्ता सन्नाह वालिनेति ॥ ५।५८।१३८१४२ ॥

इति वानरराजस्त्वामाहेत्यभिहितो मया ।

मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ ५।५८।१४३ ॥

तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।

मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ ५।५८।१४४ ॥

ततो विभीषणो नाम तस्य भ्राता महामतिः ।

तेन राक्षसराजो ऽसौ याचितो मम कारणात् ॥ ५।५८।१४५ ॥

इदं वचस्सुग्रीवोक्तमेव मयोक्तमित्याह इतीति ॥ ५।५८।१४३१४५ ॥

नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।

राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ ५।५८।१४६ ॥

नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ॥ ५।५८।१४६ ॥

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।

दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ ५।५८।१४७ ॥

सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।

विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ॥ ५।५८।१४८ ॥

विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।

राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ॥ ५।५८।१४९ ॥

ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।

वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ ५।५८।१५० ॥

वेदितव्यं वक्तव्यमित्यर्थः ॥ ५।५८।१४७१५० ॥

राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।

तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ॥ ५।५८।१५१ ॥

यन्त्रितस्य आवृतस्य ॥ ५।५८।१५१ ॥

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।

अघोषयन् राजमार्गे नगरद्वारमागताः ॥ ५।५८।१५२ ॥

ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ॥ ५।५८।१५३ ॥

विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।

ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥ ५।५८।१५४ ॥

तत इति । नगरद्वारमागतास्सन्तः राजमार्गे अघोषयन्निति योजना ॥ ५।५८।१५२१५४ ॥

पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।

दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ ५।५८।१५५ ॥

विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।

लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ५।५८।१५६ ॥

दहता च मया लङ्कां दग्धा सीता न संशयः ।

रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ॥ ५।५८।१५७ ॥

इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ ५।५८।१५८ ॥

पुच्छेन चेति । अट्टं वलभिः ॥ ५।५८।१५५१५८ ॥

अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।

जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥ ५।५८।१५९ ॥

विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवार्तामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ ५।५८।१५९ ॥

ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।

अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ ५।५८।१६० ॥

निमित्तैश्चोपलक्षिता शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः ॥ ५।५८।१६० ॥

दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।

हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ ५।५८।१६१ ॥

हृदयं प्रहृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसन्निति शेषः ॥ ५।५८।१६१ ॥

तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।

ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ ५।५८।१६२ ॥

हृष्टार्थैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः । महागुणैः फलव्याप्तैः । सिद्धार्थैः अबाधितार्थैः । तत्र हेतुत्वेन ऋषिपदोपादानम् ॥ ५।५८।१६२ ॥

पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ॥ ५।५८।१६३ ॥

पुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितो ऽस्मि ॥ ५।५८।१६३ ॥

ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।

प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ॥ ५।५८।१६४ ॥

तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ॥ ५।५८।१६४ ॥

ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।

पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ ५।५८।१६५ ॥

तत इति । भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ॥ ५।५८।१६५ ॥

राघवस्य प्रभावेन भवतां चैव तेजसा ।

सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ॥ ५।५८।१६६ ॥

एतत्सर्वं मया तत्र यथावदुपपादितम् ।

अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ ५।५८।१६७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५।५८ ॥

राघवस्येति । भवतां चैव तेजसा भवदनुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थं कार्यवस्तु । क्लीबत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलातिशयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्षष्ट्युत्तरशतश्लोकाः ॥ ५।५८।१६६,१६७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५।५८ ॥