०५६ हनुमता पुनरशोकवनगमनम्

ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।

अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ ५।५६।१ ॥

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।

भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ ५।५६।२ ॥

प्रस्थितं प्रस्थानोद्युक्तम् ॥ ५।५६।२ ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ५।५६।३ ॥

वनभङ्गाक्षवधादिना हनुमतश्शक्तिं विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम नेता मा भूदित्याभिप्रायेणाह काममिति । अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्राणरूपकार्यस्य । बलोदयः सत्त्वप्रकर्षः, सैन्योत्थापनं वा । ते यशस्यः यशस्करः । न तु रामस्येति भावः ॥ ५।५६।३ ॥

शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ५।५६।४ ॥

तर्हि रामस्य किं यशस्करमित्यत्राह शरैरिति । तत् स्वपराक्रमेण मन्नयनम् । तस्य काकुत्स्थस्य । सदृशम् । एतदेव ममाभिलषितम्, अन्यथा मे कथं वीरपत्नीत्वमिति भावः ॥ ५।५६।४ ॥

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।

भवत्याहवशूरस्य तथा त्वमुपपादय ॥ ५।५६।५ ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ ५।५६।६ ॥

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ ५।५६।७ ॥

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ ५।५६।८ ॥

तच्च त्वदायत्तमेवेत्याह तद्यथेति । विक्रान्तं विक्रमणम् ॥ ५।५६।५८ ॥

ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।

आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ ५।५६।९ ॥

अरिष्टम् अरिष्टाख्यम् ॥ ५।५६।९ ॥

तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।

सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ॥ ५।५६।१० ॥

अथैनं गिरिं चतुर्दशधोत्प्रेक्षते– तुङ्गेत्यादिना । पद्मकाः पद्मवर्णवृक्षाः । परिधानालेख्यस्थानीयतया विशेषणमिति बोध्यम् । सपरिधानमिव, स्थितमिति शेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्षणात् ॥ ५।५६।१० ॥

बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।

उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ ५।५६।११ ॥

शुभैः तरुणैः । करैः अंशुभिः हस्तैश्च । बोध्यमानमिव स्थितम् । तत्र ज्ञापकमाह उद्धूतैरिति । उद्धूतैः उद्गतैः लोचनैरिव स्थितैः धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितम् ॥ ५।५६।११ ॥

तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।

प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ ५।५६।१२ ॥

तोयौघनिस्वनैः गिरिनदीघोषैः । मन्द्रैः गम्भीरैः । प्राधीतमिव प्राध्येतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि क्तः । अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूलाद्बहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः । प्रगीतमिव गातुं प्रवृत्तमिव, गायन्तमिवेत्यर्थः । आदिकर्मणि कर्तरि क्तः ॥ ५।५६।१२ ॥

देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।

प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ॥ ५।५६।१३ ॥

ऊर्ध्वबाहुमिवेति तपोविशेष उच्यते । प्रपातजलनिर्घोषैः प्रपाताः भृगवः ।

“प्रपातस्त्वतटो भृगुः " इत्यमरः । तेषां जलानि तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः प्राक्रुष्टमिव आक्रोशन्तमिव । पूर्ववत् क्तः ॥ ५।५६।१३ ॥

वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।

वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ॥ ५।५६।१४ ॥

शरदि ये घना भवन्ति ते शरद्वनाः । शरत्कालपुष्पिणस्सप्तच्छदादयः तैः शुभ्रीभूतैः जरया कम्पमानमिव स्थितमित्यर्थः । शरद्वनैरिति पाठे बहुवार्षिकवृक्षैरित्यर्थः । शरवणैरिति वा ऽर्थः । तकारान्तो ऽप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत इति नाम दर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । तदाहामरः"वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः " इति ॥ ५।५६।१४ ॥

निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।

नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ॥ ५।५६।१५ ॥

आशीविषोत्तमैः निश्वसन्तमिव सर्पश्रेष्ठनिश्वासैर्निश्वसन्तमिव । अमर्षात् हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरैः नीहारपूर्णैः गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धेन्द्रियस्थानीयैः ध्यायन्तमिव स्थितम् । निरुद्धेन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ॥ ५।५६।१५ ॥

मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।

जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ॥ ५।५६।१६ ॥

मेघपादनिभैः मेघावरोहनिभैः पादैः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ ५।५६।१६ ॥

कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।

सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ ५।५६।१७ ॥

लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।

नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।

बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ॥ ५।५६।१८ ॥

महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।

लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ॥ ५।५६।१९ ॥

व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ॥ ५।५६।२० ॥

बहुधाकीर्णैः हनुमत्पादस्पर्शेन शिथिलैरित्यर्थः । धातुनिष्यन्दः धातुस्रावः । लतापादपानां सङ्घातो यस्मिन्निति व्यधिकरणबहुव्रीहिः ॥ ५।५६।१७२० ॥

तमारुरोह हनुमान् पर्वतं पवनात्मजः ।

रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ ५।५६।२१ ॥

रामदर्शनशीघ्रेण रामदर्शनत्वरावता ॥ ५।५६।२१ ॥

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।

सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ ५।५६।२२ ॥

चूर्णीकृताः समशीर्यन्त, यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः ॥ ५।५६।२२ ॥

स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।

दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ॥ ५।५६।२३ ॥

अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।

ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ ५।५६।२४ ॥

दक्षिणात् दक्षिणपारात् । प्रार्थयन्, गन्तुमिति शेषः ॥ ५।५६।२३,२४ ॥

स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।

प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ ५।५६।२५ ॥

स हरिशार्दूल इति सम्बन्धः । पितृतुल्यवेगवत्त्वं सूचयति मारुतस्येति ॥ ५।५६।२५ ॥

स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।

ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।

कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ ५।५६।२६ ॥

तैर्भूतैः तत्रत्यजन्तुभिः ॥ ५।५६।२६ ॥

तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।

निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ ५।५६।२७ ॥

रुग्णाः शीर्णा इति यावत् । शक्रायुधहताः वज्रहताः ॥ ५।५६।२७ ॥

कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।

सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ॥ ५।५६।२८ ॥

नभो भिन्दन् भिन्दन्निव । महत्तायां तात्पर्यम् ॥ ५।५६।२८ ॥

स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।

विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ ५।५६।२९ ॥

स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्रस्तव्याविद्धवसनाः ॥ ५।५६।२९ ॥

अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।

निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥ ५।५६।३० ॥

किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।

पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ५।५६।३१ ॥

निपीडितशिरोग्रीवाः, शिथिलपतिताशिलातलैरिति शेषः ॥ ५।५६।३०,३१ ॥

स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।

सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥ ५।५६।३२ ॥

दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।

धरण्यां समतां यातः स बभूव धराधरः ॥ ५।५६।३३ ॥

सवृक्षशिखरोदग्रः सवृक्षैः शिखरैः उदग्रः श्रेष्ठः ॥ ५।५६।३२,३३ ॥

स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।

कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥ ५।५६।३४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५।५६ ॥

कल्लोलास्फालवेलान्तं तरङ्गैरास्फाल्यपानतीरोपान्तम् ॥ ५।५६।३४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गरतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५।५६ ॥