लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः ।
निर्वापयामास तदा समुद्रे हरिसत्तमः ॥ ५।५५।१ ॥
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।
अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ॥ ५।५५।२ ॥
लङ्कामित्यादि । लाङ्गूलाग्नि समुद्रे निर्वापयामासेत्यन्वयः ॥ ५।५५।१,२ ॥
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।
लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ५।५५।३ ॥
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ ५।५५।४ ॥
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि ।
क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ ५।५५।५ ॥
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥ ५।५५।६ ॥
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ ५।५५।७ ॥
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।
अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ५।५५।८ ॥
तस्येति । कुत्सा निन्दा ॥ ५।५५।३८ ॥
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ५।५५।९ ॥
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।
मया हि दहता लङ्कां न सीता परिरक्षिता ॥ ५।५५।१० ॥
यदीति । जानक्यपि यदि दग्धेत्यन्वयः ॥ ५।५५।९,१० ॥
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ५।५५।११ ॥
ईषत्कर्यमिति । इदं कार्यम् अन्वेषणपूर्वकरावणनिलयपरिज्ञानसीतादर्शनतन्निवेदनरूपं महत्कार्यम् ईषत्कार्यम् ईषदवशिष्टकार्यम् असमग्रप्रायमेव कृतमासीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । किन्तु इदानीं क्रोधाभिभूतेन क्रोधान्धेन मया तस्य कार्यस्य मूलक्षयः कृतः न संशयः, विफलीकृतमित्यर्थः ॥ ५।५५।११ ॥
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ५।५५।१२ ॥
सीतानाशे तत्तथैव, स एव तु कुत इत्यत्राह विनष्टेति ॥ ५।५५।१२ ॥
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।
इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥ ५।५५।१३ ॥
किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे ।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ ५।५५।१४ ॥
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ ५।५५।१५ ॥
यदीति । विहतं यदि सीतानाशाद्विनष्टं यदि । प्राणसंन्यासः प्राणत्यागः ॥ ५।५५।१३१५ ॥
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ ५।५५।१६ ॥
मयेति । कपित्वं कापेयम् । अनवस्थितं चापलात्मकमित्यर्थः ॥ ५।५५।१६ ॥
धिगस्तु राजसं भावमनीशमनवस्थितम् ।
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ ५।५५।१७ ॥
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ ५।५५।१८ ॥
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ ५।५५।१९ ॥
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ॥ ५।५५।२० ॥
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ॥ ५।५५।२१ ॥
धिगस्त्विति । राजसं भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम् । स्वतन्त्रमिति यावत् । अनवस्थितं कुर्वत्स्वभावम् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात् मात्सर्यात् । " रागो ऽनुरागे मात्सर्ये रक्तवर्णे कुसुम्भके" इति यादवः । यद्वा रागात् रजोगुणात् । आग्रहादिति यावत् ॥ ५।५५।१७२१ ॥
इति चिन्तयस्तस्य निमित्तान्युपपेदिरे ।
पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ ५।५५।२२ ॥
इतीति । निमित्तान्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरित्यर्थः ॥ ५।५५।२२ ॥
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ ५।५५।२३ ॥
न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।
स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ ५।५५।२४ ॥
एवं लोकदृष्ट्या अनर्थमाशङ्क्य तत्त्वदृष्ट्या समाधत्ते अथवेत्यादिना । नाग्निरग्नौ प्रवर्तते अग्निरग्निं न दहतीत्यर्थः ॥ ५।५५।२३,२४ ॥
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।
यन्मां दहनकर्मा ऽयं नादहद्धव्यवाहनः ॥ ५।५५।२५ ॥
त्रयाणां भरतादीनां भार्तृ़णां देवता च या ।
रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ ५।५५।२६ ॥
यद्वा दहनकर्मा ऽयं सर्वत्र प्रभुरव्ययः ।
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ॥ ५।५५।२७ ॥
पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा ।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ ५।५५।२८ ॥
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ ५।५५।२९ ॥
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ॥ ५।५५।३० ॥
अहो खलु कृतं कर्म दुष्करं हि हनूमता ।
अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥ ५।५५।३१ ॥
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ॥ ५।५५।३२ ॥
दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां नादहत् स तामेव कथं दहतीत्यर्थः ॥ ५।५५।२५३२ ॥
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।
जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः ॥ ५।५५।३३ ॥
विस्मयो ऽद्भुत एव न इति । अयं विस्मयः अद्भुत एव । ऽअद्भुतमाश्चर्यं कल्याणं चऽ इत्युणादिवृत्तिः । यद्वा विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः । अद्भुतः अद्भुतरसः । तस्य स्थायीभावो विस्मयः । तथा च अद्भुत एव अद्भुतरसतां प्राप्त एव महानयं विस्मयः, न विस्मयमात्र इत्यर्थः ॥ ५।५५।३३ ॥
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ॥ ५।५५।३४ ॥
निमित्तैः दक्षिणाक्षिस्पन्दादिभिः । दृष्टार्थैः दृष्टफलसंवादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैः ॥ ५।५५।३४ ॥
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ ५।५५।३५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५।५५ ॥
पूर्वं चारणवाक्यैर्विदित्वा पुनः प्रत्यक्षं दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकार, प्रतियास्यामीति सङ्कल्पितवानित्यर्थः ॥ ५।५५।३५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५।५५ ॥