तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ ५।५३।१ ॥
तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ॥ ५।५३।१ ॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ ५।५३।२ ॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ५।५३।३ ॥
दूतवध्या दूतवधः ॥ ५।५३।२,३ ॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।
समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ५।५३।४ ॥
तत इति । समित्रेति । मित्राणि आप्ताः, समसुखदुःखा वा सहाया वा । ज्ञातयः भ्रात्रादयः । बान्धवाः सम्बन्धिनः । सुहृज्जनाः स्निग्धजनाः ॥ ५।५३।४ ॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५।५३।५ ॥
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ॥
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ॥ ५।५३।६ ॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।
तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ॥ ५।५३।७ ॥
आज्ञापयदिति । प्रदीप्तेन लाङ्गूलेन युक्तो हनुमान् सचत्वरं सर्वं पुरं परिणीयतां परितो नीयताम् इत्याज्ञापयदित्यन्वयः ॥ ५।५३।५७ ॥
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।
रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ ५।५३।८ ॥
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ॥ ५।५३।९ ॥
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ॥ ५।५३।१० ॥
लाङ्गूलेनेति । अपातयत् लाङ्गूलभ्रामणेन अद्रावयदित्यर्थः ॥ ५।५३।८१० ॥
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ॥ ५।५३।११ ॥
न मे शक्ताः न मे पर्याप्ता इत्यर्थः । मम निग्रहे न समर्था इति यावत् ॥ ५।५३।११ ॥
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।
बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ॥ ५।५३।१२ ॥
यदीति । भर्तृहितार्थाय रामहितार्थाय । चरन्तं प्रवर्तमानम्, मामिति शेषः । भर्तृशासनात् रावणशासनात् यदि बध्नन्ति, तावता मे निष्कृतिः प्रतिक्रिया न कृता । इदं बन्धनमकिञ्चित्करमिति भावः ॥ ५।५३।१२ ॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।
किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ॥ ५।५३।१३ ॥
रामस्य प्रीत्यर्थमिदं विषहिष्ये । रावणादिवधस्य स्वेनैव कर्तव्यत्वेन रामाभिमतत्वाद्राक्षसानामहमीदृशं बन्धनाकर्षणादिरूपं परिभवं सहिष्य इति भावः । रामस्य प्रीत्यर्थमित्यत्र च्छन्दोभङ्ग आर्षः ॥ ५।५३।१३ ॥
लङ्का चारयितव्या वै पुनरेव भवेदिति ।
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ॥ ५।५३।१४ ॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ ५।५३।१५ ॥
लङ्केति । लङ्का रात्रौ दुर्गकर्मविधानतः दुर्गकर्मविधानाद्धेतोः । न हि सुदृष्टा नैव सुदृष्टा । यद्वा दुर्गकर्मविधानतः नगरगुप्तिविशेषज्ञानपूर्वकमित्यर्थः । न दृष्टेति हेतोर्मया लङ्का पुनश्चारयितव्या भवेत् । विचरित्वा द्रष्टव्या भवेदित्यर्थः । अयं च प्रातःकालः न तूषःकालः । पातःकाले ऽपि तथा व्यवहारोपपत्तेः ॥ ५।५३।१४,१५ ॥
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ॥ ५।५३।१६ ॥
काममिति । मनसः श्रम इत्यनन्तरमितिकरणं बोध्यम् ॥ ५।५३।१६ ॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ ५।५३।१७ ॥
संवृताकारं गूढस्वभावम् । महाकपिमिति बुद्ध्या महत्त्वम् । कपिकुञ्जरमिति सजातीयश्रैष्ठ्यम् ॥ ५।५३।१७ ॥
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ ५।५३।१८ ॥
स्वकर्मभिः आस्फोटनसिंहनादैरित्यर्थः । तां पुरीं घोषयन्तः । अत्यन्तसंयोगे द्वितीया । चारयन्ति स्म, तमिति शेषः ॥ ५।५३।१८ ॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।
हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ ५।५३।१९ ॥
चारयामास शोधयामास ॥ ५।५३।१९ ॥
अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ ५।५३।२० ॥
चत्वरान् गृहबहिरङ्गणानि ॥ ५।५३।२० ॥
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।
गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ॥ ५।५३।२१ ॥
श्रृङ्गाटकानि चतुष्पथानि । रथ्याः महावीथीः । उपरथ्याः अवान्तरवीथीः । गृहकान्तरान् गृहकाणि क्षुद्रगृहाणि, अन्तराणि प्रच्छन्नद्वाराणि अन्तर्द्वाराणीत्यर्थः । “तोरणो ऽस्त्री बहिर्द्वारं प्रच्छन्नद्वारमन्तरम्” इति वैजयन्ती । अक्लीबत्वमार्षम् ॥ ५।५३।२१ ॥
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ॥ ५।५३।२२ ॥
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।
तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ॥ ५।५३।२३ ॥
चत्वरेष्विति । चत्वरेषु चतसृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्तम्भमण्डपेषु । चार एव चारीकः । स्वार्थे कप्रत्ययः । आर्षो दीर्घः ॥ ५।५३।२२,२३ ॥
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ ५।५३।२४ ॥
शंसुः शशंसुः । आर्षो द्विर्वचनाभावः ॥ ५।५३।२४ ॥
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ॥ ५।५३।२५ ॥
परिणीयते परितो नीयते ॥ ५।५३।२५ ॥
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।
वैदेही शोकसन्तप्ता हुताशनमुपागमत् ॥ ५।५३।२६ ॥
उपागमत् उपासितवती ॥ ५।५३।२६ ॥
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ ५।५३।२७ ॥
तस्य हनुमतः । मङ्गलाभिमुखी अदाहपरा । प्रयता शुद्धिमती । “पवित्रः प्रयतः पूतः” इत्यमरः ॥ ५।५३।२७ ॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ ५।५३।२८ ॥
यद्यस्तीति । पतिशुश्रूषादिपदं तत्फलपरम् । शीतो भव, तेनेति शेषः । एकपत्नीत्वं पातिव्रत्यम् ॥ ५।५३।२८ ॥
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।
यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥ ५।५३।२९ ॥
किंचिदनुक्रोश इति समस्तं पदम् । तस्य रामस्य । भाग्यशेषः इदानीं निरन्तरदुःखानुभवात् भाग्यप्रसक्तिरेव नास्तीति मन्यमानाया इदं वचनम् ॥ ५।५३।२९ ॥
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।
स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ५।५३।३० ॥
मम पातिव्रत्यं यदि हनुमान् जानाति तदा शीतो भवेत्याह यदि मामिति ॥ ५।५३।३० ॥
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।
अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ॥ ५।५३।३१ ॥
यदि मां तारयेदिति । मत्तारणे इदमेव ज्ञापकमिति भावः ॥ ५।५३।३१ ॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।
जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ॥ ५।५३।३२ ॥
तत इति । ततः सीतोपगमात् । कपेरनलः कपिवालाग्निः मृगशावाक्ष्याः सीतायाः शुभं शंसन्निव प्रदक्षिणशिखो जज्वालेत्यन्वयः ॥ ५।५३।३२ ॥
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥ ५।५३।३३ ॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥ ५।५३।३४ ॥
हनुमदिति । अनिलश्च पुच्छानलयुतो ऽपि । प्रालेयानिलशीतलः हिममारुतवच्छीतलस्सन् । देव्याः सीतायाः स्वास्थ्यकरः सुखकरः ववौ । अस्मात्परं दह्यमाने च लाङ्गूल इति श्लोकः । अनयोः श्लोकयोर्मध्ये केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेषु अदर्शनादर्थाधिक्याभावाच्च ते अनादरणीयाः ॥ ५।५३।३३,३४ ॥
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः करोति न च मे रुजम् ।
शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ॥ ५।५३।३५ ॥
प्रदीप्त इति । रुजं पीडाम् । शिशिरस्येव सम्पातः शिशिरस्य चन्दनोशीरादेः सम्पातः सङ्घट्ट इव स्थितः । अत्यन्तशीतल इत्यर्थः । एतेन हेतुविशेषं न पश्यामीत्युक्तम् ॥ ५।५३।३५ ॥
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥ ५।५३।३६ ॥
हेतुविशेषान्निश्चिनोति अथवेत्यादिना । प्लवता मया सरितां पतौ । आर्षं घिसंज्ञाकार्यम् । समुद्रमध्ये पर्वतः पर्वतरूपं यदाश्चर्यम् अद्भुतरूपं वस्तु दृष्टं तद्वदिदमग्नेः शैत्यं रामप्रभावात् सञ्जातं व्यक्तं निश्चितम् ॥ ५।५३।३६ ॥
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।
रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥ ५।५३।३७ ॥
एतदेवोपपादयति यदीति । सम्भ्रमः त्वरा । किमग्निर्न करिष्यति, सम्भ्रममिति शेषः । रामार्थं मैनाकस्य सम्भ्रमो यदि स्यादग्नेस्तादृशस्सम्भ्रमः कुतो न भविष्यतीत्यर्थः ॥ ५।५३।३७ ॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।
पितुश्च मम सख्येन न मां दहति पावकः ॥ ५।५३।३८ ॥
आनृशंस्येन दयया ॥ ५।५३।३८ ॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ॥ ५।५३।३९ ॥
स चिन्तयामास, अनन्तरकर्तव्यमिति शेषः ॥ ५।५३।३९ ॥
उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ॥
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ॥ ५।५३।४० ॥
चिन्तितमेवाह उत्पपातेति । पुरद्वारमिति । विभक्तरक्षस्सम्बाधं निवृत्तरक्षस्सञ्चारम् ॥ ५।५३।४० ॥
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥ ५।५३।४१ ॥
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ ५।५३।४२ ॥
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ॥ ५।५३।४३ ॥
स इति । अवशातयत् अवाशातयत्, अच्यावयदित्यर्थः ॥ ५।५३।४१४३ ॥
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥ ५।५३।४४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५।५३ ॥
निहत्वा निहत्य । ल्यबभाव आर्ष । लाङ्गूलकृतार्चिमाली लाङ्गूले कृतज्वालामालः । अर्चिमाली तेजःपुञ्जवानादित्य इव प्रकाशत प्राकाशत । आनित्यत्वादडभावः । अर्चीतीकारान्तत्वमार्षम् ॥ ५।५३।४४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५।५३ ॥