०५२ हनुमद्वधाय रावणादेशः

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।

आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ॥ ५।५२।१ ॥

तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ॥ ५।५२।१ ॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।

निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ ५।५२।२ ॥

दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तन्निवेदितवतः उक्तवतः । नानुमेने, वधमित्यनुवर्तनीयम् । निवेदितमतौ दूत्यमिति पाठान्तरम् । मन्यत इति मतिः कार्यम् । निवेदितमतौ निवेदितकार्यांशे यथार्थवादित्वेनावध्ये हनुमति दूत्यं दूतसंबन्धितया रावणादिष्टं वधम् । “दूतवणिग्भ्यां चेति वक्तव्यम्” इति भावकर्मणोर्विहितो यप्रत्ययः अर्थानुगुण्यात्सम्बन्धमात्रे गमयितव्यः ॥ ५।५२।२ ॥

तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।

विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ ५।५२।३ ॥

तच्च कार्यं दूतवधरूपकार्यम् । कार्यम् अनन्तरानुष्ठेयम् । कार्यविधौ कार्यकरणे । स्थितः निश्चितार्थः, साध्वसाधुविवेकनिश्तिकार्य इत्यर्थः ॥ ५।५२।३ ॥

निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।

उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ५।५२।४ ॥

निश्चितार्थ इति । आपूज्येति च्छेदः ॥ ५।५२।४ ॥

क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।

वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ ५।५२।५ ॥

परावरज्ञाः त्याज्योपादेय विवेकयुक्ताः ॥ ५।५२।५ ॥

राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।

तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ५।५२।६ ॥

प्रमापण मारणम् ॥ ५।५२।६ ॥

धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।

परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ५।५२।७ ॥

भूतानामिति निर्धारणे षष्ठी । भूतानां मध्ये ॥ ५।५२।७ ॥

गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।

ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ॥ ५।५२।८ ॥

शास्त्रविपश्चित्त्वं विविधं पश्यतीति विपश्चित् तस्य भावः विपश्चित्त्वम्, शास्त्रविषये विविधज्ञानोपेतत्वमिति यावत् ॥ ५।५२।८ ॥

तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।

युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ॥ ५।५२।९ ॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।

रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ ५।५२।१० ॥

न पापानां वधे पापं विद्यते शत्रुसूदन ।

तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥ ५।५२।११ ॥

अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।

उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥ ५।५२।१२ ॥

दूतदण्डः दूतयोग्य दण्डः ॥ ५।५२।९१२ ॥

प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।

दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ॥ ५।५२।१३ ॥

प्रसीदेति । सर्वेषु सर्वत्र सर्वदेशेषु सर्वजातिष्वित्यर्थः ॥ ५।५२।१३ ॥

असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।

न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ ५।५२।१४ ॥

न केवलं दूतो ऽयम् अक्षादिवधेन शत्रुश्च, तथाच हन्तव्य इत्याशङ्क्याह असंशयमिति । दूतवध्यां दूतवधम् । स्त्रियां भावे क्यप् । हन्तेर्वधादेश आर्षः ॥ ५।५२।१४ ॥

वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।

एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ॥ ५।५२।१५ ॥

लक्षणसन्निपातः दूतयोग्याङ्कनसंबन्धः । नः अस्माभिः ॥ ५।५२।१५ ॥

कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।

भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ॥ ५।५२।१६ ॥

धर्मार्थविनीतबुद्धिः धर्मार्थयोश्शिक्षितबुद्धिः । परावरप्रत्ययनिश्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मिन् विषये इदं कार्यं परम् इदमवरमिति विवेकनिश्चितकार्य इत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यवसायवन्तः ॥ ५।५२।१६ ॥

न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।

विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ ५।५२।१७ ॥

धर्मवादे धर्मशास्त्रे । लोकवृत्ते लौकिकाचारे । शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रार्थ उच्यते । शास्त्रर्थज्ञानतद्धारणेष्वित्यर्थः ॥ ५।५२।१७ ॥

न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।

तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ ५।५२।१८ ॥

न केवलं दूतस्य वधे शास्त्रविरोधः गुणमपि न कंचित्पश्यामि अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः पात्यतामित्याह न चेत्यादि ॥ ५।५२।१८ ॥

साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।

ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ॥ ५।५२।१९ ॥

साधुर्वेति । सपर्पितः प्रेषितः ॥ ५।५२।१९ ॥

अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।

इह यः पुनरागच्छेत् परं पारं महोदधेः ॥ ५।५२।२० ॥

तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।

भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ॥ ५।५२।२१ ॥

अस्मिन् हते सति वृत्तान्तनिवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव शत्रुक्षयो न स्यात्, विमुक्ते ऽस्मिन् एतन्निवेदितवृत्तान्तयोस्तयोरिहागमनादयत्नेन तव शत्रुनाशो भवेदित्यभिप्रेत्याह अपि चेत्यादिना । इह परं पारम् इह विद्यमानं महोदधेः परं पारम्, इदं दक्षिणकूलमित्यर्थः ॥ ५।५२।२०२१ ॥

अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।

युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥ ५।५२।२२ ॥

पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।

त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ॥ ५।५२।२३ ॥

हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।

मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥ ५।५२।२४ ॥

अस्मिन् विनष्ट इति । दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धगमनावित्यर्थः । एतच्छ्लोकानन्तरं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततो हिताश्चेति श्लोकः । अथ तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गान्तश्लोकः । अयमेव पाठक्रमः समीचीनः । अन्येप्यत्र सर्गे श्लोकाः कल्पिता दृश्यन्ते ॥ ५।५२।२२२४ ॥

तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।

तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥ ५।५२।२५ ॥

निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।

जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ॥ ५।५२।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५।५२ ॥

तदिति । तत्तस्मात्कारणात् । एतदेशेनेति सहयोगे तृतीया । बलस्य सैन्यस्य ॥ ५।५२।२५,२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५।५२ ॥