०५१ हनुमता रामकथानिरूपणम्

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।

वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ ५।५१।१ ॥

तं समीक्ष्येत्यादि । समीक्षणोक्तिक्रियाभेदात्तच्छब्दद्वयम् ॥ ५।५१।१ ॥

अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।

राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ ५।५१।२ ॥

अहं रामदूत एव, सन्देशास्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाद्धेतोः, सन्देशप्रापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात्” इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् । यद्यपि सुग्रवेण न सन्दिष्टं तथापि दूतोक्तं सर्वं स्वाम्युक्तमेवेत्याशयेनोक्तम् ॥ ५।५१।२ ॥

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।

धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ५।५१।३ ॥

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।

पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ५।५१।४ ॥

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।

पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५।५१।५ ॥

भ्रातुरिति । समादेशं सन्देशरूपमिति वाक्यविशेषणम् । इह अस्मिँल्लोके । अमुत्र परलोके । क्षमम् अभ्युदयसाधनम् ॥ ५।५१।३५ ॥

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।

रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ५।५१।६ ॥

तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।

वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ५।५१।७ ॥

धर्म्यं धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ ५।५१।६७ ॥

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।

ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ ५।५१।८ ॥

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।

सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ५।५१।९ ॥

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।

सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ ५।५१।१० ॥

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।

रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ५।५१।११ ॥

स मार्गमाण इति । सुग्रीवेण,मयेति शेषः । यद्वा लोके वक्तारः स्वात्मानमन्यमिव निर्दिशन्त्यौद्धत्यादिशयात् । यद्वा अत्रानुवादात् पूर्वं सुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान् पठतीति समादेशप्राधान्यादन्यवाक्यमपि तथोच्यत इति कोचित् प्राहुः । यद्वा सुग्रीवसन्देशस्य रामप्रयोजनपरत्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्यादिकं दर्शयति राजा दशरथ इत्यादिना ॥ ५।५१।८११ ॥

स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।

हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ॥ ५।५१।१२ ॥

स इति । सत्यसङ्गरः सत्यप्रतिज्ञः । “कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः” इत्यमरः ॥ ५।५१।१२ ॥

तां हरीणां सहस्राणि शतानि नियुतानि च ।

दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ ५।५१।१३ ॥

तामिति । अधश्चोपरि चाम्बरे, पाताले भूमौ आकाशे चेत्यर्थः ॥ ५।५१।१३ ॥

वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।

असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ ५।५१।१४ ॥

वैनतेयेति । असङ्गगतय इति शीघ्रत्वे हेतुः ॥ ५।५१।१४ ॥

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।

सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ ५।५१।१५ ॥

समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।

भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ ५।५१।१६ ॥

अहन्त्विति । औरसस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदम् । सीतायास्तु कृते सीतालाभाय तां दिदृक्षरिति योज्यम् ॥ ५।५१।१५,१६ ॥

तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।

परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ ५।५१।१७ ॥

एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीवसन्देशं वदति तद्भवानित्यादिना । दृष्टधर्मार्थः शास्त्रेण विदितधर्मार्थस्वरूप इत्यर्थः । तपःकृतपरिग्रहः तपसि विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृतपरिग्रहः । स्वारसिकतपस्क इति यावत् । हेतुगर्भे विशेषेण ॥ ५।५१।१७ ॥

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।

मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ५।५१।१८ ॥

धर्मविरुद्धेषु धर्मशास्त्रविरुद्धेषु । धर्मविरुद्धत्वे ऽपि यत्सौख्यावहं तत्कार्यमित्यत्राह बह्वपायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथंचित्परिह्रियन्त इत्याशङ्क्याह मूलघातिष्विति । स्वविनाशकरेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सज्जन्ते नोद्युक्ता भवन्ति । ४।५१।१८ ॥

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।

शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ ५।५१।१९ ॥

रामकोपानुवर्तिनां रामकोपानुसारेण निर्गतानामित्यर्थः ॥ ५।५१।१९ ॥

न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।

राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ ५।५१।२० ॥

व्यलीकम् अप्रियम् । “व्यलीकं त्वप्रिये ऽनृते” इत्यमरः ॥ ५।५१।२० ॥

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।

मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥ ५।५१।२१ ॥

तदिति । तत्तस्मात् अधर्मावहत्वात् रामापराधस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्तमानकालहितम् । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशकत्वेन तत्परिहारस्य भूतकालहितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यम् ॥ ५।५१।२१ ॥

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।

उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ ५।५१।२२ ॥

जानकीहरणे किं मानं तत्राह दृष्टा हीति । यत् सीतादर्शनम् दुर्लभम् । इतरवानरालभ्यं तल्लब्धम् । तर्हि सा नीयतामित्यत्राह उत्तरमिति । सीतादर्शनोत्तरं यच्छेषं कर्म सीतानयनं तत्र राघवो निमित्तम् । आज्ञप्तस्यैव मया कर्तव्यत्वादिति भावः ॥ ५।५१।२२ ॥

लक्षितेयं मया सीता तथा शोकपायणा ।

गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥ ५।५१।२३ ॥

दृष्टया ऽपि मद्वंशवदया सीतया रामः किं करिष्यतीत्याशङ्क्याह लक्षितेयमिति । तथेति वाचामगोचरत्वोक्तिः । नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीति भावः ॥ ५।५१।२३ ॥

नेयं जरयितुं शक्या सासुरैरमरैरपि ।

विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ ५।५१।२४ ॥

नेयमिति । ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥ ५।५१।२४ ॥

तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।

न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ । ५।५१।२५ ॥

तपःकृच्छ्रलब्धमिष्टं महज्जीवनं वृथा मा नाशयेत्याह तप इति । तपस्सन्तापः तपश्चर्या । ओदनपाकं पचतीतिवन्निर्देशः । तेन लब्धः । परिगृह्यत इति परिग्रहः फलं धर्मपरिग्रहः धर्मफलम् । तादृशो यो ऽयमात्मप्राणपरिग्रहः आत्मनः प्राणानां च परिग्रहः स्वीकारः, जीवनमिति यावत् । स नाशयितुं न न्याय्यं न युक्तम् । अव्ययमेतत् । तपःक्लेशलब्धं तद्व्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न विनाशयेत्यर्थः । चकाराभावादित्थमेव योजना ॥ ५।५१।२५ ॥

अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।

आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ ५।५१।२६ ॥

सर्वावध्यस्येह मे को ऽयमायुर्विनाशक इत्याशङ्क्य परिहरति अवध्यतामिति । तपोभिरार्जितां सासुरैर्देवैर्याम् आत्मनो ऽवध्यतां भवान् समनुपश्यति । तत्रापि अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः । हेतुः भवद्वधहेतुरस्ति । महान् अपरिहार्यः ॥ । ५।५१।२६ ॥

सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।

न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।

तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥ ५।५१।२७ ॥

तमेव हेतुमाह सुग्रीव इति । न च राक्षस इति पाठस्सम्यक् । न च मानुष इति पाठे प्रतिषेधप्रसक्तिरपि नास्तीत्युच्यते । “तृणभूता हि मे सर्वे प्राणिनो मानुषादयः” इत्युत्तरश्रीरामायणे मनुष्यादिभिरवध्यत्वस्याप्रार्थित्वात् । न च तिर्यञ्च इति न प्रसज्य च प्रतिषिद्ध्यत इति भावः । तस्मात्सुग्रीवात् ॥ ५।५१।२७ ॥

न तु धर्मोपसंहारमधर्मफलसंहितम् ।

तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ ५।५१।२८ ॥

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।

फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ ५।५१।२९ ॥

ननु किमनेनोपदेशेन, कृतानि मया पापानि तैश्चावश्यं फलप्रदैर्भवितव्यमित्याशङ्क्याह न त्विति । तुशब्द उक्तशङ्काव्यावर्तकः । धर्मः उपसंह्रियते ऽनेनेति धर्मोपसंहारं धर्मफलम् । फलेन धर्मस्योपसंह्रियमाणत्वात् । क्लीबत्वमार्षम् । तत् अधर्मफलसंहितं न भवति । कुत इत्यत्राह तदेव फलमन्वेतीति । धर्मफलमोवानुवर्तते । नन्वधर्मे च विद्यमाने कथं तत्फलाननुवृत्तिस्तत्राह धर्मश्चाधर्मनाशन इति । च उक्तशङ्कानिवृत्त्यर्थः । विरोधिनि धर्मे जाग्रति कथमधर्मवार्ता ऽपीत्यर्थः । “धर्मेण पापमपनुदति” इति श्रुतेः । यद्वा व्यत्ययो वा किं न स्यात्तत्राह धर्मश्चेति । चो ऽवधारणे । धर्म एवाधर्मनाशनः तथा श्रुतेः । न त्वधर्मः प्रमाणाभावादिति भावः । ननु यदि धर्मः अधर्मनाशनः तर्हि प्राथमिक एव धर्मः आधिनिकानधर्मान्निवर्तयेदित्याशङ्क्याह प्राप्तमिति । तावच्छब्दः कार्त्स्न्यवाची । कृत्स्नं धर्मफलम् । फलमस्येति । तथा च क्षिप्रं धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति भावः । अत्र कर्तव्यत्वेन विधीयमानो धर्मस्सीताप्रदानपूर्वकरामविषयशरणागतिरेव । शूरस्याशौर्यप्रवृत्त्या धर्मफलं सर्वं क्षीणमिति हनुमता ऽवगतमिति मन्तव्यम् ॥ ५।५१।२८,२९ ॥ ऀ

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।

रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥ ५।५२।३० ॥

मा भूद्धर्मापेक्षा कार्योपस्थितिरवेक्ष्यतामित्याह जनस्थानेति । रामुसुग्रीवसख्यं चेति

परोक्षनिर्देशस्य गतिः पूर्वमुक्ता ॥ ५।५१।३० ॥

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।

लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥ ५।५१।३१ ॥

कामम् अत्यन्तम् । अहं सुग्रीवः । एषः तन्नाशनम् । तस्य रामस्य । निश्चयः निश्चयविषयः ॥ ५।५१।३१ ॥

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।

उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥ ५।५१।३२ ॥

अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।

न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ५।५१।३३ ॥

कथमित्यत्राह रामेणेति । हर्यृक्षगणसन्निधौ वृद्धसभायां प्रतिज्ञातमनतिक्रमणीयमिति भावः ॥ ५।५१।३२,३३ ॥

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।

कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ५।५१।३४ ॥

कालरात्रीति काचिच्छक्तिरिति वदन्ति । “समी च कालरात्रिश्च भैरवी गणनायिका” इत्यमरशेषः ॥ ५।५१।३४ ॥

तदलं कालपाशेन सीताविग्रहरूपिणा ।

स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ॥ ५।५१।३५ ॥

तदिति । कालपाशेन यमपाशेन । अतस्सीतां रामाय देहीति हृदयम् ॥ ५।५१।३५ ॥

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।

दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥ ५।५१।३६ ॥

अट्टः अट्टालः । प्रतोलिका वीथिका ॥ ५।५१।३६ ॥

स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातृ़न् सुतान् हितान् ।

भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥ ५।५१।३७ ॥

स्वानीति । मन्त्रीन् मन्त्रिणः । इकारान्तत्वमार्षम् ॥ ५।५१।३७ ॥

सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।

रामदासस्य दृतस्य वानरस्य विशेषतः ॥ ५।५१।३८ ॥

सत्यमिति । रामदासस्येत्यनेन रामसामर्थ्यपरिज्ञानमुक्तम् । दूतस्येत्यनेन हितोपदेशाधिकारः । वानरस्येति माध्यस्थ्यम् ॥ ५।५१।३८ ॥

सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।

पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥ ५।५१।३९ ॥

देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।

विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ॥ ५।५१।४० ॥

सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ॥ ५।५१।४१ ॥

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।

यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ॥ ५।५१।४२ ॥

सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।

रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥ ५।५१।४३ ॥

देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।

रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥ ५।५१।४४ ॥

सर्वानिति । लोकान् भूरादीन् । सभूतान् पृथिव्यप्तेजोवाय्वाकाशरूपपञ्महाभूतयुक्तान् । सचराचरान् चतुर्मुखद्वारा सृष्टजङ्गमाजङ्गमयुक्तान् । संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य पुनः कल्पादौ तथैव “धाता यथापूर्वमकल्पयत्” इति श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह महायशा इति । " न तस्येशे कश्चन तस्य नाम महद्यशःऽ इति हि श्रुतिः । श्रुतिस्मृतिषु तथा प्रसिद्ध इत्यर्थः ॥ ५।५१।३९४४ ॥

ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।

इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥ ५।५१।४५ ॥

मा भूवन् शक्तास्सामान्यदेवाः, ईश्वराश्शक्ताः स्युरित्याशङ्क्याह ब्रह्मेति । अत्र विशेषणान्तरोपादानं तेषां सामर्थ्यविशेषद्योतनार्थम् । पतत्प्रकर्षत्वपरिहाराय व्युत्क्रमेण योजनीयम् । इन्द्रः परैश्वर्यवान् । “इदि परमैश्वर्ये” इत्यस्माद्धातोः “ऋज्रेन्द्राग्न–” इत्यादिना निपातनात्साधुत्वम् । त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य त्रैलोक्याधिपतित्वे ऽपि परनिरसनसामर्थ्याभावशक्ततेत्याह महेन्द्र इति । वृत्रहननप्रसिद्धसामर्थ्यो ऽपि न शक्तः । “यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम्” इति श्रौतनिर्वचनम् । स्वयं चतुरो ऽपि सहायसम्पत्त्यभावान्न शक्त इत्यत्राह सुरनायक इति । स्वतुल्यत्रयस्त्रिंशत्कोटिसुरगणसहायो ऽपि न शक्त इत्यर्थः । माभूत्क्षुद्रइन्द्रश्शक्तः, सर्वसंहारको रुद्रस्तु शक्तस्स्यात्तत्राह रुद्र इति । संहारकाले प्रजाः रोदयतीति रुद्रः । “रोदेर्णिलुक् चऽ इति रप्रत्ययः । कालविशेषे संहारको ऽपीदानीमप्राप्तकालत्वादशक्त इत्याह त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमदनो ऽपीत्यर्थः । काकतालीयत्वशङ्काव्युदासायाह त्रिपुरान्तक इति । प्रबलतरमहासुरसंहारको ऽपीत्यर्थः । मा भूत्तस्य शक्तिः “ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय” इत्युक्तरीत्या रुद्रस्यापि पिता ब्रह्मा शक्तस्स्यात्, तत्राह ब्रह्मेति । बृंहतीति ब्रह्मा । “बृहेरम् नलोपश्च” इति मनिन् अमागमो नकारलोपश्च । रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात् तत्राह स्वयंभूरिति । कर्मवश्यत्वे ऽपीतरसाधारण्येनानुत्पन्नः स्वयंभूः । स्वयंभूत्वेपि सहायसंपत्त्यभावात्कथं त्रायेतेत्यत्राह चतुरानन इति । युगपदेव सर्ववेदोच्चारणसम्पादितातिशयो ऽपि न शक्तः । प्रत्येकमशक्तत्वे ऽपि किं संभूयागताश्शक्नुवन्ति? तत्राह न शक्ता इति । बहुवचनेनायमर्थो लभ्यते वधमर्हतीति वध्यः । दण्डादित्वाद्यः । रामस्य वध्यो रामवध्यः । तं त्रातुं न शक्ताः । स्थानविन्निग्रहस्य चऽ इत्युचितवधार्हस्य त्राता कः । युधि यद्धे न शक्ताः किन्तु शरणं गत्वा त्रातुं शक्ता इत्यर्थः । अत्र “हिरण्यगर्भस्समवर्तताग्रे । न सन्न चासीच्छिव एव केवलः । इन्द्रो मायाभिः पुरुरूप ईयते” इति परदेवतात्वेन प्रसक्तात्त्रिकादधिकत्वमुक्तम् । राम इत्यनेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशब्दानां हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्तिविशेषपरत्वं व्यञ्जितम् । त्रातृत्वेन प्रसक्तप्रधानदेवतानिराकरणप्रकरणे विष्णोरनुपादानात् पारिशेष्याद्राम एव विष्णुरिति प्रतिपादितम् ॥ ५।५१।४५ ॥

स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।

दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ॥ ५।५१।४६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५।५१ ॥

अस्माच्छ्लोकात्परं स सौष्ठवेति श्लोकः । तस्य तद्वचनमिति श्लोकस्तु उत्तरसर्गादिः । अत्र स प्रमादाल्लिखितः ॥ ५।५१।४६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५।५१ ॥