तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ॥ ५।५०।१ ॥
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।
किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ॥ ५।५०।२ ॥
तमुद्वीक्ष्येत्यादि ॥ ५।५०।१,२ ॥
येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।
सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ॥ ५।५०।३ ॥
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ॥ ५।५०।४ ॥
बाणः महाबलिसुतः । अनेन तेनापि किञ्चित् शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यम् ॥ ५।५०।३४ ॥
दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।
वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ॥ ५।५०।५ ॥
मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।
आयोधने वा किं कार्यं त्वया कपे ॥ ५।५०।६ ॥
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ ५।५०।७ ॥
दुरात्मा पृच्छ्यतामिति । अस्य विवरणम् कुत इत्यादि । कुतः कस्माद्देशादागतः । किं वा ऽस्य कारणम् अस्य कः प्रेरकः । मत्पुरीम्, प्रतीति शेषः । आयोधने युद्धे । किं कार्यं किं प्रयोजनम् ॥ ५।५०।५७ ॥
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।
तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ॥ ५।५०।८ ॥ ।
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ॥ ५।५०।९ ॥
यदि तावत्त्वमिन्द्रेणेत्यादि । यदि वैश्रवणस्येत्यादेः दूतो विजकाङ्क्षिणेत्यन्तस्य तत्त्वमाख्याहीति पूर्वेण संबन्धः ॥ ५।५०।८९ ॥
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ ५।५०।१० ॥
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।
अथवा यन्निमित्तं ते प्रवेशो रावणालये ॥ ५।५०।११ ॥
न हीत्यादि । अथवेति । यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण संबन्धः ॥ ५।५०।१०११ ॥
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ ५।५०।१२ ॥
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥ ५।५०।१३ ॥
एवमुक्त इत्यादि । रक्षोगणेश्वरमित्यनेन प्रष्टारं प्रहस्तं पृष्ठतः कृतवानिति गम्यते ॥ ५।५०।१२,१३ ॥
जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।
दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ॥ ५।५०।१४ ॥
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥ ५।५०।१५ ॥
एषा वानरता । राक्षसेन्द्रस्य, तवेति शेषः ॥ ५।५०।१४,१५ ॥
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।
अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ॥ ५।५०।१६ ॥
प्रतियुद्धाः प्रतिप्रहृताः ॥ ५।५०।१६ ॥
पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥ ५।५०।१७ ॥
ममापीति तवेवेत्यर्थः । तर्हि कथं बद्धो ऽसीत्याशङ्क्याह राजानमिति ॥ ५।५०।१७ ॥
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।
केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ॥ ५।५०।१८ ॥
दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ ५।५०।१९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ॥ ५।५० ॥
पीडितः बद्धस्सन् । अस्त्रेण विमुक्तः । हिशब्दो ऽवधारणे । ब्रह्मास्त्रस्य साधनान्तरासहत्वादिति भावः । अस्तु सर्वमेतन्मद्दर्शनार्थम्, मद्दर्शनं वा किमर्थम्? तत्राह केनचिदिति ॥ ५।५०।१८,१९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५।५० ॥