हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ ५।४६।१ ॥
हतानित्यादि । संवृताकारः अन्तर्मनाः । मतिं चिन्ताम् ॥ ५।४६।१ ॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ॥ ५।४६।२ ॥
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ॥ ५।४६।३ ॥
स इति ॥ ५।६।२३ ॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ५।४६।४ ॥
इति वक्ष्यमाणप्रकारेण ॥ ५।४६।४ ॥
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।
कर्म चापि समाधेयं देशकालविरोधिनम् ॥ ५।४६।५ ॥
तमेवाह यत्तैरित्यादिना । यत्तैः यतमानैः । अप्रमत्तैरिति यावत् । यतेः कर्तरि क्तः । समाधेयं परिहर्तव्यम् । देशकालविरोधिनं देशकालविरोधीत्यर्थः ॥ ५।४६।५ ॥
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ ५।४६।६ ॥
सनागयक्षगन्धर्वा देवासुरमहर्षयः ।
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ ५।४६।७ ॥
महद्भूतम्, मन्य इत्यनुषज्यते ।इन्द्रेण वा, अन्यैर्वेति शेषः । वा शब्दस्य विकल्पार्थस्य प्रयोगात् ॥ ५।४६।६७ ॥
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ॥ ५।४६।८ ॥
व्यलीकम् अप्रियम् ॥ ५।४६।८ ॥
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।
दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ॥ ५।४६।९।
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ ५।४६।१० ॥
नावमान्य इति । अत्र त्रयोदशसहस्रश्लोकाः गताः । अयं चतुर्दशसहस्रस्यादिः । धीति गायत्र्याश्चतुर्दशाक्षरम् ॥ ५।४६।९१० ॥
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।
न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥ ५।४६।११ ॥
गतिः वेगः । रूपपरिकल्पनं यथेष्टरूपग्रहणम् ॥ ५।४६।११ ॥
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ ५।४६।१२ ॥
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ ५।४६।१३ ॥
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ ५।४६।१४ ॥
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।
समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ ५।४६।१५ ॥
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।
श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ॥ ५।४६।१६ ॥
महदिति । इत्थं महत्सत्त्वं किमपि कपिरूपं सत् व्यवस्थितमिति ज्ञेयमित्यर्थः ॥ ५।४६।१२१६ ॥
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ ५।४६।१७ ॥
स्वतेजोरश्मिमालिनं स्वतेजसा सूर्यम् । रश्मिमन्तमिवेत्यत्र उपमा, अत्र रूपकमिति भिदा ॥ ५।४६।१७ ॥
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।
महामतिं महावेगं महाकायं महाबलम् ॥ ५।४६।१८ ॥
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ५।४६।१९ ॥
तोरणस्थमिति । उत्साहः लोकोत्तरकार्येषु स्थेयान् प्रयत्नः । महासत्त्वं महाध्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । द्वितीयबलशब्दश्शक्तिवचनः । “बलं रूपे ऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च” इति वैजयन्ती ॥ ५।४६।१८१९ ॥
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ ५।४६।२० ॥
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ॥ ५।४६।२१ ॥
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।
किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ॥ ५।४६।२२ ॥
तीक्ष्णाः क्रूराः । शिताः निशिताः । पीतमुखाः समीचीनायसनिर्मितत्वेन पीतरेखाग्राः । उत्पलपत्राभाः, उत्पलपत्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः ॥ ५।४६।२०२२ ॥
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ ५।४६।२३ ॥
वारयामास स्ववेगेन प्रापयमासेत्यर्थः ॥ ५।४६।२३ ॥
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।
चकार कदनं भूयो व्यवर्धत च वेगवान् ॥ ५।४६।२४ ॥
कदनं युद्धम् ॥ ५।४६।२४ ॥
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।
निपपात महवेगो विद्युद्राशिर्गिराविव ॥ ५।४६।२५ ॥
विद्युद्राशिः अशनिः ॥ ५।४६।२५ ॥
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ ५।४६।२६ ॥
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ ५।४६।२७ ॥
स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ ५।४६।२८ ॥
कूबरः युगन्धरः ॥ ५।४६।२६२८ ॥
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ ५।४६।२९ ॥
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ५।४६।३० ॥
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥ ५।४६।३१ ॥
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।
एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ ५।४६।३२ ॥
पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ५।४६।३३ ॥
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ५।४६।३४ ॥
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ॥ ५।४६।३५ ॥
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।
बलं तदवशेषं च नाशयास वानरः ॥ ५।४६।३६ ॥
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ५।४६।३७ ॥
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ५।४६।३८ ॥
वेगं विनिहत्य परिहृत्य ॥ ५।४६।२९३८ ॥
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।
समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ५।४६।३९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ५।४६ ॥
ध्वजिनीपतीन् सेनापतीन् । कृतक्षणः दत्तावसरः, अभूदिति शेषः ॥ ५।४६।३९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ५।४६ ॥