सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ ५।४४।१ ॥
संदिष्ट इत्यादि ॥ ५।४४।१ ॥
रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।
महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ ५।४४।२ ॥
विवृत्तनयनः मण्डलीकृतनयनः ॥ ५।४४।२ ॥
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।
विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ५।४४।३ ॥
रुचिरसायकं रुचिरसायकार्हम् । विस्फारयानः विस्फारयमाणः, ज्याकर्षणं कुर्वन्नित्यर्थः । वज्राशनिसमस्वनमिति विस्फारणक्रियाविशेषणम् ॥ ५।४४।३ ॥
तस्य विस्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ५।४४।४ ॥
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ॥ ५।४४।५ ॥
तस्येति । नभस्समपूर्यत, दिशः प्रदिशश्च समपूर्यन्तेति विपरिणामेनानुषङ्गः ॥ ५।४४।४५ ॥
तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।
जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ५।४४।६ ॥
तोरणविटङ्कं तोरणस्य कपोतपालिका । “कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम्” इत्यमरः । स्तम्भोपरि तिर्यङ्निहितदार्वित्यर्थः ॥ ५।४४।६ ॥
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ५।४४।७ ॥
एकेनेत्येतदर्धचन्द्रस्यापि विशेषणम् । अर्धचन्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥ ५।४४।७ ॥
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ५।४४।८ ॥
अम्बुजं रक्तपद्मम् । भास्कररश्मिना विद्धम् अत एव फुल्लमित्यर्थः ॥ ५।४४।८ ॥
तत्तस्य रक्तं रक्तेन ऱञ्जितं शुशुभे मुखम् ।
यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ५।४४।९ ॥
रक्तं स्वत एव रक्तम् । रक्तेन शोणितेन । महापद्मं रक्तोत्पलम् । चन्दनबिन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ५।४४।९ ॥
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ ५।४४।१० ॥
ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ५।४४।११ ॥
विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ ५।४४।१२ ॥
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ ५।४४।१३ ॥
चुकोपेत्यर्धम् । राक्षसस्य राक्षसविषये ॥ ५।४४।१०१३ ॥
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।
उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ ५।४४।१४ ॥
स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ ५।४४।१५ ॥
अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जम्बुमालेर्महोरसि ॥ ५।४४।१६ ॥
सालमिति । प़ञ्चभिर्भुजे इत्यादौ विव्याधेत्यध्याहारः ॥ ५।४४।१४१६ ॥
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ ५।४४।१७ ॥
स हतस्तरसा तेन जम्बुमाली महाबलः ।
पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ ५।४४।१८ ॥
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ ५।४४।१९ ॥
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।
अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ ५।४४।२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५।४४ ॥
तस्य चैवेति । नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । “रथेन खरयुक्तेन” इति पूर्वमुक्तत्वात् ॥ ५।४४।१७२० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ५।४४ ॥