श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ ५।४०।१ ॥
श्रुत्वेत्यादि ॥ ५।४०।१ ॥
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।
अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥ ५।४०।२ ॥
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।
संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ॥ ५।४०।३ ॥
त्वामिति । अर्धसञ्जातसस्या अर्धोत्पन्नसस्या ॥ ५।४०।२३ ॥
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ ५।४०।४ ॥
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ॥ ५।४०।५ ॥
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ॥ ५।४०।६ ॥
अभिज्ञानं चेति । काकस्यैकाक्षिशातनीं क्षिप्ताम् इषीकाम् इषीकतृणरूपमभिज्ञानं पूर्वोक्तं दद्याः । अन्यच्च वक्ष्यामीति भावः । तदेवाह मन इति । तिलके पूर्वतिलके प्रनष्टे सति । गण्डपार्श्वे गण्डस्थले गण्डशैलपार्श्वे वा । मनः शिलायास्तिलकः मनः शिलाकृततिलकः । तत् मनः शिलातिलकनिर्माणं स्मर्तुमर्हसि । इदमप्यभिज्ञानं दद्या इति योजना ॥ ५।४०।४६ ॥
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ ५।४०।७ ॥
एष ति । प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो लालितत्वेन त्वत्स्मारकत्वादिति भावः ॥ ५।४०।७ ॥
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ५।४०।८ ॥
असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ ५।४०।९ ॥
धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ ५।४०।१० ॥
वारिसम्भवः, रत्नं हि रत्नाकरे उत्पद्यते । अतः परं मासात्परम् ॥ ५।४०।८१० ॥
घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।
त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ॥ ५।४०।११ ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ॥ ५।४०।१२ ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ ५।४०।१३ ॥
विषज्जन्तं विलम्बमानम् ॥ ५।४०।१११३ ॥
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ॥ ५।४०।१४ ॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ ५।४०।१५ ॥
हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ ५।४०।१६ ॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ॥ ५।४०।१७ ॥
सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ॥ ५।४०।१८ ॥
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ॥ ५।४०।१९ ॥
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।
वर्धमानं महावेगमुवाच जनकात्मजा ॥ ५।४०।२० ॥
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ ५।४०।२१ ॥
हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ॥ ५।४०।२२ ॥
यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥ ५।४०।२३ ॥
इमं मुहूर्तम् अस्मिन्मुहूर्ते ॥ ५।४०।१४२३ ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ॥ ५।४०।२४ ॥
इमं चेति । शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीरेति । शिवः अव्याहत इत्यर्थः ॥ ५।४०।२४ ॥
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ॥ ५।४०।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ५।४० ॥
स इति । अल्पावशेषम् अल्पावशिष्टम् । प्रसमीक्ष्य विचार्य ॥ ५।४०।२५ ॥
इति श्रीगोविन्दराजवरिचिते श्रीरामायणभूषणे श्रृङ्गारङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ५।४० ॥