मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ ५।३९।१ ॥
मणिमित्यादि । अभिज्ञातं सम्यक् ज्ञातम् ॥ ५।३९।१ ॥
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ ५।३९।२ ॥
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ५।३९।३ ॥
त्रयाणामिति “अधीगर्थदयोशां कर्मणि” इति षष्ठी । विवाहकाले शिरोमणिदातृत्वात्पित्रोः ग्रहीतृत्वाच्च मम स्मरणमिति भावः । पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं शिरोभूषणतया एष दत्तः । अतः त्रीनस्मान् युगपत् स्मरिष्यतीत्यर्थ इत्याह कश्चित् । तदनुचितम् । “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते” इत्युपरि वक्ष्यमाणत्वाद्विवाहकाले रामजनन्या अनागमनाच्च ॥ ५।३९।२३ ॥
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥ ५।३९।४ ॥
त्वमिति । कार्यनिर्योगे कार्यसङ्घटने । प्रमाणं व्यवस्थापकः । चिन्तयतस्तस्य, तवेति शेषः ॥ ५।३९।४ ॥
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।
शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ॥ ५।३९।५ ॥
ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ५।३९।६ ॥
स तथेति । आवन्द्येति पदच्छेदः ॥ ५।३९।५,६ ॥
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ५।३९।७ ॥
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ५।३९।८ ॥
कुशलमिति । ब्रूया इति । धर्मसंहितं धर्मसहितम् । धर्मपुरस्सरम् कुशलं ब्रूया इत्यर्थः ॥ ५।३९।७८ ॥ ।
यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ ५।३९।९ ॥
दुःखाम्बुसंरोधात् । अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः । समाधातुं राममनुकूलयितुम् ॥ ५।३९।९ ॥
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।
तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ॥ ५।३९।१० ॥
जीवन्तीं सम्भावयति जीवन्तीं करोतीत्यर्थः । तत्तथा अव्ययमेतत् । वचनस्य प्रयोजनमाह वाचेति । वाचा धर्मं वाचिकधर्मम् ॥ ५।३९।१० ॥
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ ५।३९।११ ॥
मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।
पराक्रमविधिं वीरो विधिवत् संविधास्यति ॥ ५।३९।१२ ॥
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ॥ ५।३९।१३ ॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ ५।३९।१४ ॥
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ॥ ५।३९।१५ ॥
तमेव धर्ममुपपादयति द्वाभ्याम् नित्यमित्यादि ॥ ५।३९।१११५ ॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ ५।३९।१६ ॥
पर्जन्यम् इन्द्रम् । “पर्जन्यौ रसदब्देन्द्रौ” इत्यमरः ॥ ५।३९।१६ ॥
स हि सागरपर्यन्तां महीं शासितुमीहते ।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ ५।३९।१७ ॥
स हीति । त्वन्निमित्त इति । जयः, भविष्यतीति शेषः ॥ ५।३९।१७ ॥
तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।
जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ॥ ५।३९।१८ ॥
सम्यक् सोपपत्तिकम् । सत्यं परमार्थम् । सुभाषितं श्रुतिमधुरम् ॥ ५।३९।१८ ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ ५।३९।१९ ॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ५।३९।२० ॥
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ ५।३९।२१ ॥
गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ ५।३९।२२ ॥
वचनं चेदमब्रवीदित्युक्तं विवृणोति ततस्तमिति । भर्तृस्नेहान्वितम् आत्मनि यो भर्तुः स्नेहस्तेनान्वितम् । स्वविषयभर्तृस्नेहप्रकाशकमिति यावत् । अनुमानयदन्वमानयत् ।
वक्ष्यमाणोक्तिरूपं संमानवचनमब्रवीदित्यर्थः ॥ ५।३९।१९२२ ॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ॥ ५।३९।२३ ॥
तवेति । दुःखाद्दुःखापरामृष्टां पूर्वदुःखादधिकेन दुःखेन स्पृष्टाम् । दीपयन्निव वर्धयन्निवेत्यर्थः ॥ ५।३९।२३ ॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ ५।३९।२४ ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ५।३९।२५ ॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ ५।३९।२६ ॥
अयमिति । अयं बवक्ष्यमाणः, तिष्ठतीव मूर्तीभूत इत्यर्थः ॥ ५।३९।२४२६ ॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ ५।३९।२७ ॥
समाधानं परिहारम् ॥ ५।३९।२७ ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ ५।३९।२८ ॥
अहमेव साधयिष्यामीत्याशङ्क्याह काममिति । हे परवीरघ्न त्वम् अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्रापणरूपस्य परिसाधने कामं पर्याप्तः शक्तः । एवं चेत्फलोदयः शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । न तु ममेति भावः ॥ ५।३९।२८ ॥
बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।
विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ॥ ५।३९।२९ ॥
तर्हि तव किं यशस्यामित्याकाङ्क्षायामाह बलैरिति । जित्य जित्वा । मां, गृहीत्वेति शेषः । यायात्, राम इति च शेषः ॥ ५।३९।२९ ॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ५।३९।३० ॥
एतन्न केवलं मम, रामस्यापीत्याह शरैरिति ॥ ५।३९।३० ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ ५।३९।३१ ॥
तदिति । तस्य अनुरूपं विक्रान्तं यथा भवेत्तथा उपपादय कुरु ॥ ५।३९।३१ ॥
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥ ५।३९।३२ ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ५।३९।३३ ॥
स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ ५।३९।३४ ॥
अर्थोपहितम् अर्थयुक्तम् । सहितम् परस्परसङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं पूर्वमनुक्तम् उत्तरं वाक्यमब्रवीत् ॥ ५।३९।३२३४ ॥
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ॥ ५।३९।३५ ॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ५।३९।३६ ॥
असकृत् तैर्महोत्साहैः ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ५।३९।३७ ॥
तस्येति । मनः सङ्कल्पसंपाताः मनोव्यापारतुल्यगमनाः । न सज्जते न विलम्बते ॥ ५।३९।३५३७ ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ ५।३९।३८ ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ५।३९।३९ ॥
प्रत्यवरः हीनः । पूर्वं चतुर्णामेवात्र गतिरिति विचारप्रकारमात्रमुक्तम् । अत्र तु परमार्थः । यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्निहिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः ॥ ५।३९।३८३९ ॥
तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ५।३९।४० ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ ५।३९।४१ ॥
तदलमिति । एकोत्पातेन एकयत्नेन ॥ ५।३९।४०४१ ॥
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ५।३९।४२ ॥
सगणं रावणं हत्वा राघवो रघुनन्दनः ।
त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ५।३९।४३ ॥
तौ हीति विधमिष्यतः दहिष्यतः ॥ ५।३९।४२४३ ॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ॥ ५।३९।४४ ॥
निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ५।३९।४५ ॥
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ॥ ५।३९।४६ ॥
तदिति । कालकाङ्क्षिणी भव दिवसगणनायां तत्परा भवेत्यर्थः । नचिरात् अचिरात् ॥ ५।३९।४४४६ ॥
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ ५।३९।४७ ॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ॥ ५।३९।४८ ॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ॥ ५।३९।४९ ॥
पुनरब्रवीदिति दार्ढ्याय पुनरुक्तिः ॥ ५।३९।४७४९ ॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ ५।३९।५० ॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५।३९।५१ ॥
शैलाम्बुदेति । द्रक्ष्यसीति शेषः ॥ ५।३९।५०,५१ ॥
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ ५।३९।५२ ॥
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ ५।३९।५३ ॥
मा रुद्रः रोदनं मा कुरु ॥ ५।३९।५२,५३ ॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।
न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥ ५।३९।५४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंश सर्गः ॥ ५।३९ ॥
नास्मिन्निति । मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रम् ॥ ५।३९।५४ ॥
इति श्रीगेविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ५।३९ ॥