०३८ हनुमता सीताचूडामणियाचना

ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः ।

सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ॥ ५।३८।१ ॥

ततः स इत्यादि । तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्युमुवाच ॥ ५।३८।१ ॥

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।

सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ ५।३८।२ ॥

युक्तरूपं युक्ततरमित्यर्थः । “प्रशंसायां रूपम्” । प्राशस्त्यं चात्र प्रकृत्यर्थवैशिष्ट्यम् । स्त्रीस्वभावस्य भीरुत्वादेः । साध्वीनां पतिव्रतानाम् । विनयस्य वृत्तस्य ॥ ५।३८।२ ॥

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।

मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ५।३८।३ ॥

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।

रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ५।३८।४ ॥

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।

का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५।३८।५ ॥

विस्तीर्णं मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं तर्तुं स्त्रीत्वं न समर्थं हि । स्त्री न समर्थेत्यर्थः । यद्वा सागरस्य शतयोजनम् आयतं विस्तीर्णं च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुम् अपगन्तुं न समर्थं हि । सागरस्य शतयोजनं यावत्तावदायतं तथा विस्तीर्णं च मामधितिष्ठन्त्या अपि तव स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥ ५।३८।३५ ॥

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।

चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ५।३८।६ ॥

श्रोष्यत इति । त्वया चेष्टितम् उद्बन्धनादिकम् । भाषितं रावणं तृणीकृत्य फणितम्, मम प्रत्युत्तरत्वेन कथितं च ॥ ५।३८।६ ॥

कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।

स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ ५।३८।७ ॥

बहुभिः कारणैः बहुभिरूपायैः । स्नेहप्रस्कन्नमनसा स्नेहशिथिलमनसा ॥ ५।३८।७ ॥

लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।

सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ ५।३८।८ ॥

लङ्काया इति । दुष्प्रवेशलङ्काप्रवेशे दुस्तरसागरतरणे च मम शक्तिरस्तीति ज्ञापयितुमेवमुक्तमित्यर्थः ॥ ५।३८।८ ॥

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।

गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ५।३८।९ ॥

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।

अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ ५।३८।१० ॥

रघुबन्धुना रघुवंशेन । “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः” इत्यमरः । रघुवंश्यनां बन्धुना तत्कीर्तिसम्पादकेनेत्यर्थः । समानेतुं सङ्गमयितुम् । इच्छामि ऐच्छम् ॥ ५।३८।९१० ॥

एवमुक्ता हनुमता सीता सुरसुतोपमा ।

उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ५।३८।११ ॥

एवमिति । बाष्पप्रग्रथिताक्षरं बाष्पेण विघ्निताक्षरम् । एकान्तवृत्तान्तस्मरणात् बाष्पः ॥ ५।३८।११ ॥

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ॥

शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ ५।३८।१२ ॥

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।

तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ ५।३८।१३ ॥

इदमित्यादिश्लोकद्वयमेकान्वयम् । चित्रकूटस्य पादे चित्रकूटपर्यन्तपर्वते । मन्दाकिन्या अदूरे सिद्धैराश्रिते प्राज्यमूलफलोदके तस्मिन्देशे तापसाश्रमवासिन्याः तापसाश्रमे वसन्त्याः मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ ५।३८।१२१३ ॥

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।

विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ ५।३८।१४ ॥

रामाय सीतया वक्तव्यं वचनं हनुमन्तं प्रत्युच्यते तस्येत्यादि ॥ ५।३८।१४ ॥

ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।

तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ ५।३८।१५।

तत इति । माससमायुक्तः मांसप्रतिलुब्धः । “आयुक्तकुशलाभ्यां च” इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया व्याख्यानात् । लोष्टं मृत्पिण्डम् । पर्यतुण्डयत्पर्यखण्डयत्, स्तनान्तर इति शेषः । “तुडि तोडने” इत्ययं धातुश्चौरादिकः ॥ ५।३८।१५ ॥

दारयन् स च मां काकस्तत्रैव परिलीयते ।

न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ ५।३८।१६ ॥

दारयन्निति । परिलीयते अन्तर्हितो भवति स्म । बलिभोजनः काकः ॥ ५।३८।१६ ॥

उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।

स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ ५।३८।१७ ॥

उत्कर्षन्त्यां च रशनां काकोत्सारणार्थमिति शेषः ॥ ५।३८।१७ ॥

त्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।

भक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ ५।३८।१८ ॥

आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।

क्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ॥ ५।३८।१९ ॥

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।

लक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ॥ ५।३८।२० ॥

परिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् ।

पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ।

स तत्र पुनरेवाथ वायसः समुपागमत् ॥ ५।३८।२१ ॥

ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् ।

वायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ॥ ५।३८।२२ ॥

पुनः पुनरथोत्पत्य विददार स मां भृशम् ।

ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ ५।३८।२३ ॥

भक्षगृध्रेन भक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादुत्थानमनुधावनं च कृतं देव्येत्यवगम्यते । रामाङ्के केवलं स्थिता ऽस्मि । तदा काको मां किंचिददारयत् । तं दृष्ट्वा तत्पलायनार्थं स्वयमायासं कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं सान्त्वितवानित्यर्थः । अनेन स्वरक्षणे स्वयं प्रवृत्तश्चेदीश्वर उपेक्षते, स्वयमप्रवृत्तौ स रक्षतीति द्योतितम् ॥ ५।३८।१८२३ ॥

वायसेन ततस्तेन बलवत्क्लिश्यमानया ।

स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ ५।३८।२४ ॥

वायसेनेति । सः निखिललोकविदितनिरतिशयसौन्दर्यप्रसिद्धिः । मया बोधितः मयैवाहं हता, स्वापकालिकश्रीविशेषाननुभवात् । लोके कश्चित्सञ्चारदशायां सुन्दर इव भाति शयने दुर्लक्षणादिभिर्दोषा दृश्यन्ते न तथा ऽयम् । श्रीमान् स्वापकालिकश्रीरुच्यते । सुखसुप्तः तत्त्वानुगुणैव हि सुप्तिरपि । परन्तपः शयनमेव सकलशत्रुनिवर्तनक्षममित्यर्थः । सुप्तः श्रीमान् स्थानगमनशयनादिदशायां रूपवानिव लक्ष्यते कश्चित् । संशयने प्रकाशितप्रच्छन्नदोषतया जुगुप्सितो भवति । अयं तु शयनावस्थयामेव नीराजना कर्तव्या दृष्टिदोषपरिहारायेत्येवं स्थितः ॥ ५।३८।२४ ॥

स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।

आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ ५।३८।२५ ॥

वितुन्नां दारिताम् ॥ ५।३८।२५ ॥

केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ५।३८।२६ ॥

वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।

नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ ५।३८।२७ ॥

प़ञ्चवक्त्रेण व्यात्तमुखेन । “पचि विस्तारे” इत्यस्मात्पचाद्यच् । कार्यातिशयद्योतनार्थं वा पञ्चसङ्ख्याकवक्त्रत्वोक्तिः । नागनासोरु नागहस्तोरु कुपितपञ्चवक्त्रक्रीडासमं तव स्तनविदारणमिति भावः ॥ ५।३८।२६२७ ॥

पुत्रः किल स शक्रस्य वायसः पततां वरः ।

धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ ५।३८।२८ ॥

ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।

वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ ५।३८।२९ ॥

ननु वायसमात्रे किमर्थमस्त्रं मुक्तमित्याशङ्क्याह पुत्रः किलेति । इदं रक्षणानन्तरं तेनैवोक्तमिति ज्ञेयम् । किलेति प्रसिद्धौ । इन्द्रपुत्रत्वेन प्रसिद्धो जयन्त एव वायसरूपेणागत इत्याहुः । वायसरूपो ऽन्यः पुत्र इत्यप्याहुः ॥ ५।३८।२८२९ ॥

स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् ।

स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ॥ ५।३८।३० ॥

स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।

ततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ॥ ५।३८।३१ ॥

स दर्भमिति । संस्तरात् आस्तरणात् । गृह्य गृहीत्वा । अस्त्रेण अस्त्रमन्त्रेण । योजयत् अयोजयत्, अभिमन्त्रितवानित्यर्थः । द्विजं काकम् ॥ ५।३८।३०,३१ ॥

अनुसृप्तस्तदा काको जगाम विविधां गतिम् ।

लोककाम इमं लोकं सर्वं वै विचचार ह ॥ ५।३८।३२ ॥

अनुसृप्तः अनुसृतः । विविधां गतिं विविधं स्थानम् । लोककामः लोकयितृकामः रक्षकापेक्षीत्यर्थः ॥ ५।३८।३२ ॥

स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।

त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ॥ ५।३८।३३ ॥

भगवद्व्यतिरिक्ता बान्धवाभासा न रक्षका इत्याह स पित्रेति । सः पुरुषकारभूतायामपि कृतापराधः सः आर्द्रापराधः । पित्रा च परित्यक्तः अस्त्रक्षतिभीततया प्रथमं पितरं रक्षकं गतः तेन त्रैलोक्याधिपतिना च त्यक्तः । “इन्द्रो महोन्द्रस्सुरनायको वा” इति तस्यासमर्थत्वोक्तेः । परित्यक्तः त्यागो ऽपि नापाततः बुद्धिपूर्वं त्यक्तः । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्” इति न्यायात् । यद्वा परित्यक्तः भार्यापुत्रादिभिस्सह त्यक्तः । चकारेण माता समुच्चीयते । न केवलं हितपरेण पित्रा, प्रियपरया मात्रा च परित्यक्तः, “सीता नारीजनस्यास्य योगक्षेमं विधास्यति” इति स्वरक्षकभूतायामपि सापराधत्वादिति भावः । पित्रपेक्षया मातुर्वात्सल्यातिशयात्तमेव प्रथमं गच्छति स्म ततः पितरम् । पित्रा त्यागवचनान्मात्रा त्यागः सिद्ध एवेति चकारेण सूचितम् । पितृभ्यां त्यागे ऽपि बान्धवा न त्यजन्ति । किं पितरौ सर्वथा त्यक्ष्यत इति तैरपि त्यक्त इत्याह सुरैश्च । “कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे” इति रामनयने रक्ते ते ऽपि बिभ्यति हि । एवं पूर्वसजातीयैस्त्यक्तत्वे ऽपि परिगृहीतपक्षिरूपसजातीयैः किं त्यक्त इत्यपेक्षायां तथेत्याह चकारेण । “पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्” इति पक्षिणामपि शरण्यत्वात्, स्वनायकगरुडस्वामित्वाच्च पक्षिभिरपि परित्यक्तः । समहर्षिभिः पित्रादिबन्धूनामरक्षकत्वे ऽपि आनृशंस्यप्रधाना महर्षयो रक्षिष्यन्तीति गतः, तैरपि प्रकामं दूरदर्शिभिः परित्यक्तः । आनृशंस्यविषयव्यवस्था ऽस्तीति तैस्त्यक्त इत्यर्थः । एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम । अस्माभिस्त्यागे ऽनन्यगतिकत्वाद्राम एनं स्वीकरिष्यतीति तैस्त्यक्तः । महर्षिभिः ऽयो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्" इति विष्णुद्वेषेण चण्डालत्वात् “चण्डालः पक्षिणां काकः” इत्युक्तेश्च चण्डालो नास्मद्वाटमागच्छेदिति त्यक्तः । एवं रक्षकान्तरादर्शनान्नष्टगजो घटमप्यन्वेषत इति न्यायेन स्वैरविवृतद्वारान्सर्वान् गृहान् गत इत्याह त्रीन् लोकान् संपरिक्रम्य । परिक्रम्य एतदेव नवकृत्वो गतः । संपरिक्रम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । अपि कदाचित् कृपैषामुत्पद्येतेति मत्वा पुनः पुनर्गत इत्यर्थः । अमुं निष्कास्य कवाटबन्धनं सर्वैः कृतमित्यर्थः । ततः किं कृतमित्यत्राह तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्तमेव शरणं गतः । “यदि वा रावणस्स्वयम्” इत्येवं स्थितो हि रामः । तमेव सर्वलोकशरण्यमेव । तमेव दोषो यद्यपि न त्यजेयम्ऽ इति स्थितम् । शरणं गतः निवासं गतः । न तूपायतया गतः । “निवासवृक्षः साधूनाम्” इत्युक्तेः ॥ ५।३८।३३ ॥

स तं निपतितं भूमौ शरण्यः शरणागतम् ।

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ५।३८।३४ ॥

स तामिति । सः रक्षणैकस्वभावः । तं प्रातिकूल्यैकनिरतम् । भूमौ निपतितं देवजगतितया भूमिमस्पृशन्तपि भूमौ पतितम् । भूमौ दुष्पुत्रं पितरि शिक्षमाणे स यथा मातुः पादयोः पतति तथा ऽपतत् । शरण्यः सर्वावस्थास्वपि शरणवरणार्हः । शरणागतम् अनन्यगतिकतया स्वमुपागतम् । वधार्हमपि रामसिद्धान्तेनापि वधार्हम् । काकुत्स्थः कृपया पर्यपालयत् कुलोचितस्वभावेन रक्षितवान् । कृपया अस्मदाद्यारब्धं कार्यं प्रबलकर्मणा न समाप्यते तथा तेनारब्धमपि कृपया न पूर्यत इति भावः ॥ ५।३८।३४ ॥

न शर्म लब्ध्वा तमेव शरणं गतः ॥ ५।३८।३५ ॥

परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।

मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ५।३८।३६ ॥

हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् ।

ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।

दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ५।३८।३७ ॥

न शर्मेत्यादि । परिद्यूनं परितप्तम् । तदुच्यतामित्यनन्तरम् हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीदित्यर्थमनुसन्धेयम् ॥ ५।३८।३५३७ ॥

स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।

विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ५।३८।३८ ॥

दशरथाय स्वलोकस्थतया पूर्वमेव मित्रभूताय ॥ ५।३८।३८ ॥

मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।

कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ५।३८।३९ ॥

समुदीरितं प्रमुक्तम् । हरत् अहरत् ॥ ५।३८।३९ ॥

स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ ५।३८।४० ॥

आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ५।३८।४१ ॥

सः परदुःखं दृष्ट्वा स सहामहे इत्युक्तवान् । त्वं महोत्साहः एतदनुष्ठानपर्यन्तं कुर्वन् मयि अत्यन्तदुःखितायां कृपां परदुःखासहिष्णुत्वं प्रकाशयितुमर्हसि । नरोत्तम एवं न करोषि चेत्तव नरोत्तमत्वस्य हानिरेव स्यात् । तस्मादेतद्वचनमनुष्ठानपर्यन्तं कृत्वा मां जीवयित्वा तव नरोत्तमत्वं परिपालयेति भावः । अनाथा इव अनाथेव आर्षो गूणाभावः । आनृशंस्यं परो धर्मः । नावारोपणानन्तरं वेतनाभ्यर्थनवत्संश्लेषदशायां तवात्यन्ताभिमतो धर्मः क इति मया पृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म इति ममाभिमतं तथैव मत्स्वभाव इति त्वया रहस्योद्भेदनं कृतम् । त्वत्त एव न तु दूतमुखेन । मया श्रुतः इदं श्रवणमात्रपर्यवसायि जातम्, न त्वनुष्ठानपर्यवसायीति रामं पृच्छेति भावः । एवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं दिशतो रामस्य च को ऽभिप्राय इति चेदुच्यते । एतस्य संश्लेषस्य विच्छेदो भवति चेत् किं करिष्यामीति कातरतया पृष्टवती । सो ऽपि मद्विरहक्लेशेन ताम्यन्तीं त्वां न कदाचिदपि पश्येयमित्युक्तवान् । अयमर्थो ऽप्यरण्यकाण्डे “अप्यहं जीवितं जह्याम्” इति श्लोकप्रघट्टिकादौ दर्शितः ॥ ५।३८।४०४१ ॥

जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।

अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।

भर्तारं ससमुद्रायाधरण्या वासवोपमम् ॥ ५।३८।४२ ॥

एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि ।

किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ ५।३८।४३ ॥

जानामीति । अपारपारं दुरधिगमपारम्, असीममित्यर्थः । दुरधिगमगुणसीममित्यर्थो वा ॥ ५।३८।४२४३ ॥

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ ५।३८।४४ ॥

प्रतिसमाधितुं प्रतिबद्धुम् ॥ ५।३८।४४ ॥

तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः ।

किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ५।३८।४५ ॥

भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।

कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ५।३८।४६ ॥

संभ्रमः भाववृत्तिः ॥ ५।३८।४५४६ ॥

यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ ५।३८।४७ ॥

उपेक्षितः उपेक्षेते । यदि तौ,सङ्गताविति शेषः । ॥ ५।३८।४७ ॥

ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।

समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ॥ ५।३८।४८ ॥

समर्थौ विरोधिवर्गमुन्मूल्य मद्रक्षणानुगुणशक्तिमन्तौ । परन्तपौ इतः पूर्वं प्रतिपक्षनिर्दहनं कुर्वन्तौ । एवम्भूतावपि तौ मां प्राणपर्यन्तं रक्षणप्रवृत्त्यर्हदशां प्राप्तां मां नावेक्षेते इति यत् न कटाक्षयत इति यत् अस्य निमित्तं तयोर्वा मयि वा किंचिद्भवितुमर्हति । तत्र तद्विषये तादृशनिमित्तप्रसक्तिर्नास्ति सामर्थ्यपरन्तपत्वादिदर्शनात् । परिशेषान्ममैव पापम् अस्य निमित्तं भवितुमर्हति । यद्वा ममैव “द्विषन्तः पापकृत्याम्” इत्युक्तरीत्या अन्यतो नागतमित्यर्थः । किंचित् न हि वयं सर्वज्ञाः असमाभिरज्ञातं किंचिद्भवितुमर्हति । महत् प्रारब्धफलतया ऽनुभवं विना दुष्परिहरम् । अस्ति न संशयः । कार्ये सति कारणे किमस्ति सन्देहः । यद्वा किंचिदनिर्वचनीयम् महद्दुष्कृतमस्तीत्यनेन “किं त्वा ऽमन्यत वैदेहः” इत्यादिनोक्तो भगवदपचारः । उक्तं हि " कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।" इति । देहान्तरे बालशरीरे ॥ ५।३८।४८ ॥

वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् ।

अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ ५।३८।४९ ॥

वैदेह्या इति । साश्रु यथा तथा भाषितमुक्तम् ॥ ५।३८।४९ ॥

त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ।

रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ ५।३८।५० ॥

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ॥ ५।३८।५१ ॥

त्वच्छोकेति । त्वच्छोकविमुखः त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । प्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥ ५।३८।५०५१ ॥

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।

तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ ५।३८।५२ ॥

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ ५।३८।५३ ॥

हत्वा च समरे क्रूरं रावणं सहबान्धवम् ।

राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ ५।३८।५४ ॥

सुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः ।

इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।

उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ ५।३८।५५ ॥

इमं मुहूर्तम् अस्मिन् मुहूर्ते । सप्तम्यर्थे द्वितीया ॥ ५।३८।५२५५ ॥

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।

तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ५।३८।५६ ॥

मनस्विनी लोकभर्तारं सुषुवे । लोके स्त्रियः इहलोकपरलोकयोः स्वरक्षणार्थं पुत्रान् सुवते नैवं मे श्वश्रूः । मनस्विनी विपुलमनस्का । सर्वलोकरक्षकः पुत्रो मे भवेदिति व्रतमनुष्ठाय लोकोपकाराय पुत्रं सूतवती । एवंभूतः कौसल्यासङ्कल्पः कथं मोघस्स्यात् । अहमत्र लोके न किमन्तर्भूता । तं ममार्थे सुखं पृच्छ अस्मद्रक्षणं न मया प्रार्थ्यं तच्चिन्ता तस्यैव, अस्मत्त्वरा तु विलम्बासहिष्णुतया, तस्मात् तत्सत्ता चेन्मद्रक्षणस्य न कापि हानिः । अतस्तत्सत्तैवास्माभिराशास्यते । तेन तस्य सुखमस्ति किमिति मया पृष्टमिति वद । एवं च लोकवदस्माभिश्च तस्मात्किंचिदपेक्षितं चेत् लोकैर्यत्कार्यं तत् कार्यं मयापि कार्यमित्याह शिरसा चाभिवादय । अहं तं शिरसा प्रणतवत्यस्मीति तमभिवादय । प्रणिपातं कुर्वित्यर्थः । कथं नायिका नायकं शिरसा प्रणमेदिति चेत् आचारप्रधानजनककुलनन्दिन्यैवमनुष्ठितमिति किमत्र प्रमाणं प्रष्टव्यम्? । प्रणयरोषेणैवमाहेति चेन्न । हनुमद्वचनेन तस्य शान्तत्वात् । ननु ममार्थे मत्कार्यसिद्ध्यर्थं तं प्रणमेत्यर्थः किं न स्यादिति चेत्, ममार्थ इत्यस्योभयत्रान्वयात् । पूर्वमत्र मया पृष्टमिति पृच्छेत्यर्थस्यावश्यकत्वादत्रापि मया प्रणतमिति प्रणमेत्यस्य स्वरसत्वात् ॥ ५।३८।५६ ॥

स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।

ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ ५।३८।५७ ॥

पितरं मातरं चैव संमान्याभिप्रसाद्य च ।

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ ५।३८।५८ ॥

स्रजश्चेति, सन्तीति शेषः । स्रगादयः सन्ति पृथिव्यां दुर्लभमैश्वर्यमप्यस्ति । तथा पितरं चैव संमान्य येन सुप्रजाः सः राममनु प्रव्रजितः ॥ ५।३८।५७।५८ ॥

आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।

अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ ५।३८।५९ ॥

आनुकूल्येन भक्त्येत्यर्थः ॥ ५।३८।५९ ॥

संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ ५।३८।६० ॥

ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ५।३८।६१ ॥

समाचरन् परिचरन् ॥ ५।३८।६०६१ ॥

वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।

राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ ५।३८।६२ ॥

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।

नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ५।३८।६३ ॥

वृद्धोपसेवीत्यादि । यस्यां धुरि यस्मिन्कार्यनिर्वाह इत्यर्थः ॥ ५।३८।६२६३ ॥

यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।

स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ५।३८।६४ ॥

यमिति । आर्यं श्वशुरं दशरथं नानुस्मरेत्, पितृवत्सम्यग्रक्षकत्वादिति भावः ॥ ५।३८।६४ ॥

यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।

त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ ५।३८।६५ ॥

रामः यथा दुःखक्षयकरो भवेत्तथा वक्तव्यमित्यर्थः । कार्यनिर्योगे कार्यसङ्घटने । प्रमाणं व्यवस्तापकः ॥ ५।३८।६५ ॥

राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ५।३८।६६ ॥

त्वत्समारम्भात्त्वदुत्साहात् ॥ ५।३८।६६ ॥

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।

जीवितं धारयिष्यामि मासं दशरथात्मज ॥ ५।३८।६७ ॥

ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।

रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ ५।३८।६८ ॥

इदमित्यादि । ऊर्ध्वं मासात् । रावणकृतमासद्वयावधिं न सहिष्य इति भावः । निकृत्या वञ्चनेन ॥ ५।३८।६७६८ ॥

त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।

प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ५।३८।६९ ॥

पातालादिव कौशिकीम् । अत्रेतिकरणं द्रष्टव्यम् । इदं च ब्रूया इति पूर्वेणान्वयः । कौशिकः इन्द्रः तत्सम्बन्धिनी श्रीः कौशिकी तामिव । एवं ब्रह्मपुराणे श्रुयते पुरा वृत्रवधे ब्रह्महत्याभिभूतं निश्श्रीकमिन्द्रं भगवान्नारायणो देवैस्सह वैष्णवेनाश्वमेघेन निष्कल्मषं कृत्वा त्रैलोक्यराज्ये ऽभिषिच्य पुरातनीं पौरन्दरीं श्रियमुपाह्वयत् । ततो ऽशरीरवाक्याद्गवाक्षतीर्थवर्तिनीं तामुपश्रुत्य स देवदेवो देवाश्च तत्र जग्मुः । ततस्तान् दृष्ट्वा सा श्रीः पातालं प्रविवेश । तत्र प्रवेष्टुमशक्नुवन्तो देवाः पुनरप्यशरीरं वाक्यं युष्मासु सर्वलक्षणसम्पन्नस्तां प्रतिनेतुमर्हतीत्युपश्रुत्य तमेव पुरुषोत्तमं प्रार्थयामासुः । स तत्र प्रविश्य पातालात् तां समुद्धृत्य तैस्सह शक्राय प्रादादिति । महाभारते तु उतथ्यस्य भार्यां यमुनायां स्नान्तीं वरुणो हृत्वा पतालमनयत् । तामुतथ्यो नारदेन याचित्वा तामलब्ध्वा कुपितः पातालह्रदशोषेण तामवापेति श्रूयते । सा कौशिकीति केचित्कथयन्ति ॥ ५।३८।६९ ॥

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।

अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ । ५।३८।७० ॥

प्रतिगृह्येति । मणिरत्नं मणिश्रेष्ठम् । अङ्गुल्या योजयामास, चूडामणेरधिष्ठानस्य पृष्ठे या केशसरणिः तत्राङ्गुलिं प्रावेशयदित्यर्थः । एवं तनीयसी किमङ्गुलिरित्यत्राह– न हीति । अस्य हनुमतः भुजः न प्राभवन्न स्थूलो ऽभवत् । न तदानीं स महाकायः भुजश्च न स्थूलः तेनाङ्गुलिस्तनीयसीत्यर्थः । एतेन देव्यै प्रदर्शितं महद्रूपं विहाय पुरप्रवेशकालिकं सूक्ष्मरूपमङ्गीकृतवानित्यवगम्यते ॥ ५।३८।७० ॥

मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च ।

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ५।३८।७१ ॥

हर्षेण महता युक्तः सीतादर्शनजेन सः ।

हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ५।३८।७२ ॥

मणिरत्नमिति । प्रणतः नम्रगात्रः ॥ ५।३८।७१७२ ॥

मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।

गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ५।३८।७३ ॥

इत्यार्षे रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टात्रिंशः सर्गः ॥ ५।३८ ॥

मणिवरमिति । पवनावधूतमुक्तः महावातकम्पितः तेन रहितश्चेत्यर्थः । प्रतिसंक्रमं प्रतिप्रयाणं प्रपेदे प्राप्तुमुद्युक्तः । अस्मिन्सर्गे सार्धत्रिसप्ततिश्लोकाः ॥ ५।३८।७३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टात्रिंशः सर्गः ॥ ५।३८ ॥