भूय एव महातेजा हनुमान् मारुतात्मजः ।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ ५।३६।१ ॥
भूय इत्यादि ॥ ५।३६।१ ॥
वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ ५।३६।२ ॥
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ५।३६।३ ॥
इत्थं सन्देशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गुलीयकदानेन दृढं विश्वासयति वानरो ऽहमित्यादिना ॥ ५।३६।२३ ॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।
भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ॥ ५।३६।४ ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५।३६।५ ॥
गृहीत्वेति । गृहीत्वा देशान्तरादागतं बन्धुं दृष्ट्वेव स्वयं गृहीतवती । प्रेक्षमाणा । वर्तमानार्थेन शानचा दत्तदृष्टिं न विचालितवतीत्युच्यते । सा पूर्वं रावणत्वेन शङ्कितवती । भर्तुः करविभूषणं पाणिग्रहणकाले हस्तस्पृष्टमाभरणम् । करविभूषणमित्यनेन भोगातिशयात् प्रणवकोपे प्रवृते परस्परमालोकनभाषणादिविरहदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते रामो ऽङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन च्युतमङ्गुलीयकमिति सीतया ऽभिहेति प्रणयकोपशैथिल्यात् परस्परसंश्लेषो भूयो ऽप्यभूत् । एवं घटकभूतं करविभूषणं भर्तारमिव संप्राप्ता अङ्गुलीयकदर्शनात्तस्य कान्तस्य करं स्मृतवती, तत्स्मृत्या बाहुं तत्स्मरणेन तद्विग्रहम् । एवं भावनाप्रकर्षेण तं पुरःस्थितमिव मत्वा तमालिङ्गितवती । जननीबुद्ध्या मुनिस्सम्प्राप्तेवेत्याह, जननीकृतभोगस्यावर्ण्यत्वात् । जानकी शोकहर्षाभ्यां क्लेष्टुमनर्हे कुले जाता । मुदिता ऽभवत् इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान इत्याहर्षिः ॥ ५।३६।४५ ॥
ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ ५।३६।६ ॥
प्रियं कृत्वा संमानं कृत्वा ॥ ५।३६।६ ॥
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ५।३६।७ ॥
शतयोजनविस्तीर्णः सागरो मकरालयः ।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ५।३६।८ ॥
विक्रान्त इत्यादिपदत्रयेण तद्व्यत्क्रमेण ज्ञानशक्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता । त्वयैकेनेति सामर्थ्यम् । प्रधर्षितमिति विक्रमः ॥ ५।३६।७८ ॥
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।
यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ॥ ५।३६।९ ॥
प्राकृतं क्षुद्रम् । संभ्रमः व्यग्रता ॥ ५।३६।९ ॥
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।
यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ ५।३६।१० ॥
प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ५।३६।११ ॥
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ ५।३६।१२ ॥
अर्हस इति । यद्यपीति निपातसमुदायो यस्मादित्यर्थे । अव्ययानामनेकार्थत्वात् ॥ ५।३६।१०१२ ॥
कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ ५।३६।१३ ॥
अथ प्रणयरोषेण दूतसन्निधौ रामं गर्हते कुशलीति । काकुत्स्थः परपरिभावसहकुले जातः । अनेन परपरिभाव एव परिहरणीयः न स्वीय इति नियमो ऽस्ति किम् । किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थः दहति किंनु न दहतीत्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्य चैकेन बाणेन भवितव्यं किम् । सागरं सलिलमेवं तैलं कृत्वा महीं दग्धुं समर्थो न किमित्यर्थः । यद्वा स्वपत्नीं वा सुरक्षितपरिधानां करोतीति भावः । अनादिकृतभार्यादा मही कथं दग्धुं शक्येत्यत्राह युगान्तेति । महीमर्यादा तन्नयनरागपर्यन्तैवेति भावः । किं न सागरमेखलामित्यपि पाठः । काकुत्स्थः कुशली यदि तदा किं न दहति । शक्तश्चेद्दहत्येव, न दहति अतो न शक्त इत्यर्थः ॥ ५।३६।१३ ॥
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ ५।३६।१४ ॥
पक्षान्तरमाह अथवेति ॥ ५।३६।१४ ॥
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ ५।३६।१५ ॥
कच्चिदिति । न व्यथितः न कृशः । उत्तराणि कार्याणि मत्प्राप्तिसाधकानि कच्चित्कुरुते? ॥ ५।३६।१५ ॥
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।
कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ॥ ५।३६।१६ ॥
न दीनः कच्चित् सम्भ्रान्तः सन् कार्येषु न मुह्यति कच्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ॥ ५।३६।१६ ॥
द्विविधं त्रिविधोपायमुपायमपि सेवते ।
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ॥ ५।३६।१७ ॥
तान्येवाह द्विविधमिति । परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि सेवते कच्चित् । चकारेणामित्रास्समुच्चीयन्ते । अमित्रेषु विषये विजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान् सेवते प्रयुङ्क्ते कच्चित्? । सुहृत्सु कदाचिदपि भेददण्डौ न कार्यौ, शत्रुषु न सामेति भावः । योजनान्तरे विजिगीषुसुहृत्यपदयोः प्रयोजनं मृग्यम् ॥ ५।३६।१७ ॥
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ ५।३६।१८ ॥
अभिगम्यते लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकारं मित्रादपेक्षते कच्चिदित्यर्थः । कल्याणमित्रः पुरस्कृतमित्र इत्यर्थः ॥ ५।३६।१८ ॥
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ॥ ५।३६।१९ ॥
कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ॥ ५।३५।२० ॥
आशास्ति आशास्ते । पुरुषाकारं स्वबलम् । एकैकस्यानर्थहेतुत्वादिति भावः ॥ ५।३६।१९२० ॥
सुखानामुचितो नित्यमसुखानामनूचितः ।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ ५।३५।२१ ॥
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।
अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ॥ ५।३५।२२ ॥
सुखानामिति । अनूचित इति दीर्घ आर्षः । उत्तरम् उत्कृष्टम् ॥ ५।३६।२१२२ ॥
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ ५।३६।२३ ॥
मन्निमित्तेन मया हेतुना । अन्यमनाः कार्यान्तरासक्तः ॥ ५।३६।२३ ॥
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ ५।३६।२४ ॥
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ ५।३६।२५ ॥
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ॥ ५।३६।२६ ॥
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ ५।३६।२७ ॥
कच्चिदक्षैहिणीमिति । ध्वजिनीं सेनाम् ॥ ५।३६।२४२७ ॥
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ ५।३६।२८ ॥
हेमशब्देन तद्वर्ण उच्यते । अभेदेन हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानम् । शोकदीनमित्यातपस्थानम् ॥ ५।३६।२८ ॥
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ॥ ५।३६।२९ ॥
धर्मापदेशाद्धर्मोद्देशार्थम्, धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धेतोः । राज्यत्यागाद्व्यथा नासीत् । अरण्यसञ्चाराद्भीर्नासीत् । मत्पादसञ्चारच्छोको नासीत् । सः तादृशधैर्ययुक्तो रामो मद्विश्लेषे ऽपि हृदये धैर्यं करोति कच्चित्? ॥ ५।३६।२९ ॥
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ॥ ५।३६।३० ॥
धैर्याकरणे हेतुमाह न चास्येति । प्रवृत्तिं मदानयनवार्ताम् । प्रणयरोषपक्षे किमेष पितृवचनपरिपालनाय वनं प्राप्तः? न, किन्तु ममैव हिंसायै इति भावः । रामस्यैव दोषः न ममेति सीतयोक्ते वयमेव किं सम्यक् स्थितवन्तः रामविश्लेषानन्तरक्षणे न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वा ऽ ऽह न चास्येति । रामस्य मात्रादयः अन्यो बन्धुश्च स्नेहाद्विशिष्टा न भवन्ति । लोके कस्यचिन्माता पिता भ्रातेत्येवं स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु संभावितः । सर्वो ऽपि मय्येकमार्गः कृतः । यावत्प्रियस्य प्रवृत्तिं श्रृणुयां श्रृणोमि तावज्जिजीविषेयं जीवेयम् । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणां जीवनमिहाभिधीयते । रामः न मांसं राघवो भुङ्क्तेऽ इत्युक्तरीत्या भोजनम् अनिद्रः सततं रामःऽ इति निद्रां च हित्वा समुद्रं बद्ध्वा समागच्छन् तापार्ते प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवितव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं वानरेति संबोध्य संप्रति दूतेत्याह, रामविषयप्रणयरोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु भवानपीति भावः । प्रणयरोषाभावपक्षेपि न चास्येति । अस्य माता चास्मिन् स्नेहात् मत्तः न विशिष्टा मया न समा च । यथा ऽहमस्मिन् स्निग्धा तथा नान्य इत्यर्थः । एतदेवोत्तरार्धेन समर्थयति तावदिति ॥ ५।३६।३० ॥
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।
श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ॥ ५।३६।३१ ॥
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ५।३६।३२ ॥
इतीव पूर्वं कतिपयानर्थान् विविच्योक्तवान्, संप्रति प्रणयधारासूक्ष्ममृषीणामपदं हि, तत इतीवेत्याह । देवी वल्लभाया व्यवहारो बहिष्ठानां न प्रतिभाति हि, वचनं महार्थं न केवलं बहिष्ठानाम् देशिकानामस्माकमपीत्यर्थः, महार्थमित्युक्तेः । तं वानरेन्द्रम् सुग्रीवस्य शेषत्वे ऽभिषिक्तत्वे ऽपि पारतन्त्र्ये हनुमानभिषिक्त इत्यर्थः । मधुरार्थं माधुर्येण मध्ये हनुमान्न
वक्तुमारभतेति भावः । उक्त्वा स तदीयाश्च यथा ऽभिवर्धन्ते तथोक्त्वा । श्रोतुं पुनस्तस्य वचो ऽभिरामं स्ववचनानुरूपोत्तरं श्रोतुम् । रामार्थयुक्तं रामप्रयोजनयुक्तम्, रामरूपाभिधेययुक्तं वा । विरराम स्वयं चिरभाषणात् स्वामिन्यां भाषमाणायां मध्ये भृत्येनोक्त्ययोगाच्च तूष्णींभूतस्यावकाशप्रदानमकरोत् । रामा पारम्पर्य्यं विना साक्षाद्वचःसौन्दर्यदर्शनं रामेण न लब्धं हीति मुनिः खिद्यति ॥ ५।३६।३१३२ ॥
न त्वामिहस्थां जानीते रामः कमललोचने ।
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥ ५।३६।३३ ॥
न त्वामिति । रमः “न जीवेयं क्षणमपि विना तामसितेक्षणाम्” इत्यध्यवसायी कथं नागच्छेत् । कमललोचने त्वन्नयनसौन्दर्यं दर्पणतले ऽपि किन्न दृष्टवती भवती । एतत्सैन्दर्यवतीं कथं त्वां विना स तिष्ठेत् । तेन अनेन हेतुना । आशु त्वां नानयति । शचीं पुरन्दर इव । अनुह्लादहस्तगतां शचीमिन्द्रः कञ्चित्कालमविज्ञाय ज्ञानानन्तरं यथा आनीतवान् तथेति भावः ॥ ५।३६।३३ ॥
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ॥ ५।३६।३४ ॥
मह्यं मम । व्यत्यनेन षष्ट्यर्थे चतुर्थी ॥ ५।३६।३४ ॥
विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ५।३६।३५ ॥
समुद्रं कथमतिक्रमिष्यतीत्यात्राह विष्टम्भयित्वेति । विष्टम्भयित्वा स्तब्धं कृत्वेत्यर्थः ॥ ५।३६।३५ ॥
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ॥
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ५।३६।३६ ॥
तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५।३६।३७ ॥
तत्रेति । स्थास्यन्ति, प्रतिबन्धकतयेति शेषः ॥ ५।३६।३६३७ ॥
मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।
दर्दुरेण च ते देवि शपे मूलफलेन च ॥ ५।३६।३८ ॥
गिरीणां स्वजीवनस्थानत्वात्तैः शपति मलयेनेति । दर्दुरो नाम मलयपरिसरवर्ती चन्दनप्रभवः कश्चित्पर्वतः ॥ ५।३६।३८ ॥
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ५।३६।३९ ॥
यथेति । तथा शप इति पूर्वेणान्वयः ॥ ५।३६।३९ ॥
क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥ ५।३६।४० ॥
क्षिप्रमिति । नाकपृष्ठो नाम इन्द्रस्यासाधारणस्वर्गस्थानविशेषः ॥ ५।३६।४० ॥
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ५।३६।४१ ॥
न मांसमिति । “दृङ्मनः सङ्गसङ्कल्पजागराः कृशता ऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दस ॥ " इति दशावस्थास्वरतिरनेनोच्यत्। मांसाद्यभोजनम् अरत्या ततः पूर्वं तद्भोजनोक्तेः। वन्यं वने भवं कन्दमूलादिकम्। सुविहितं वानप्रस्थयोग्यत्वेन विहितम्। भक्तम् अन्नम्। पञ्चमं प्रातःसङ्गवमध्याह्नापराह्णसायंरूपेषु कालेषु पञ्चमकालिकं शरीरधारणमात्रोपयुक्तं भुङ्क्त इत्यर्थः ॥ ५।३६।४१ ॥
नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।
राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ॥ ५।३६।४२ ॥
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।
नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ॥ ५।३६।४३ ॥
अथ मनःसङ्गावस्थामाह नैवेति । दंशास्तु वनमक्षिकाः तान् । मशकांश्चेत्यनेन दंशमशकापरिज्ञानमुक्तम् । कीटसरीसृपोक्त्या उपरिशरीरं चरतामनिवृत्तिरुच्यते । तत्र हेतुः त्वद्गतेनान्तरात्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानम्? तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः ॥ ५।३६।४२४३ ॥
अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ॥ ५।३६।४४ ॥
दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ५।३६।४५ ॥
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।
दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ ५।३६।४६ ॥
तथा ऽस्य जागरावस्थामाह अनिद्र इति । अनिद्रः सततं रामः निद्रया सर्वदा कालक्षेपार्हो ऽपि सन्ततमनिद्रो ऽभूत् । सुप्तो ऽपि चेत्यनेन परगतार्थानुसन्धानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे तथा ऽवस्थानमेव हि पुरुषोत्तमस्य लक्षणमिति भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वासनावशाद्विलपति । मधुरां वाणीम् वासनावशाद्विलपत्यपि शब्दस्वभावाद्रसना जलस्यान्दिनी भवतीत्यर्थः । प्रतिबुद्ध्यते क्लेशहीनदशाविगमात्पुनरपि बाधकोद्दीपनसन्दर्शनेन बाधार्हः स्थित इत्यर्थः ॥ ५।३६।४४४६ ॥
सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ॥ ५।३६।४७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ५।३६ ॥
सा रामेति । रामसद्भावातिशङ्कया कश्चिच्छोकः सीतायाः रामविरहेण कश्चिच्छोकः । तत्राद्यो हनुमदुक्त्या निवृत्तः, द्वितीयस्तु वर्तत इत्याह रामस्य शोकेन समानशोका । तद्विरकृतत्वेन तत्तुल्यशोका । अधिकशोकस्तु निवृत्त इति भावः । यद्वा रासङ्कीर्तनेन वीतशोकापि नैव दंशान्न मशकान्ऽ इत्यादिश्रवणेन रामतुल्यशोका प्रकाशाप्रकाशशरन्मुखनिशेवाभूदित्यर्थः ॥ ५।३६।४७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्त्रिशः सर्गः ॥ ५।३६ ॥