तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ ५।३५।१ ॥
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथमासीत् समागमः ॥ ५।३५।२ ॥
तान्त्वित्यादि ॥ ५।३५।१२ ॥ ।
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ५।३५।३ ॥
यानीति । लिङ्गानि चिह्नानि ॥ ५।३५।३ ॥
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ५।३५।४ ॥
एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।
ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ॥ ५।३५।५ ॥
कीदृशमिति । संस्थानम् अवयवसंनिवेशः । रूपम् आकारः वर्णः कान्तिर्वा ॥ ५।३५।४५ ॥
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ५।३५।६ ॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ५।३५।७ ॥
बतेत्यामन्त्रेण । जानन्ती त्वं दिष्ट्या मां परिपृच्छतीति संबन्धः । लक्षितानि त्वया दृष्टानि । मे मतः । ॥ ५।३५।६,७ ॥
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ ५।३५।८ ॥
रामः सर्वाङ्गसुन्दरः । कमलपत्राक्षः कान्तिप्रवाहे आवर्त इव अत्यन्तमाकर्शकनयनशोभः । तादृशनयनसौन्दर्यसीमाभूमिमाह सर्वसत्त्वमनोहरः । तिर्यग्जातितया विटपाद्विटपं प्लवतो ममापि चित्तापहारकः, अविशेषज्ञस्यापि मनोहर इत्यर्थः । रूपदाक्षिण्यसम्पन्नः रूपमित्येतद्विग्रहगुणानामुपलक्षणम् । दाक्षिण्यमित्यात्मगुणानामुपलक्षणम् । देहगुणैरात्मगुणैश्चान्यून इत्यर्थः । संपन्नः प्रसूतः , इदं सर्वं नागन्तुकं किन्तु औत्पत्तिकमित्यर्थः । अत्युत्कटं वदसि किमेवंविधो ऽपरोप्यस्ति न वेत्यपेक्षायामाह जनकात्मज इति । भवती च तादृशीत्यर्थः ॥ ५।३५।८ ॥
तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ५।३५।९ ॥
रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ ५।३५।१० ॥
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ५।३५।११ ॥
सङ्ग्रहेणोक्तान् गुणान्विवृणोति तेजसेत्यादिना ॥ ५।३५।९११ ॥
अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ ५।३५।१२ ॥
ब्रह्मचर्यव्रते स्थितः गृहस्थस्यास्य ब्रह्मचर्यं नाम ऋतोरन्यत्र स्त्रीसङ्गमत्यागः । तदाह मनुः “षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाद्याश्चतस्रश्च विवर्जयेत् ॥ " प्रचारज्ञः प्रयोगज्ञः। ऐहि कामुष्मिकानां कर्मणां प्रचारं गतिं हेतुफलभावव्यवस्थां तत्त्वतो जानातीत्यर्थ इत्याप्याहुः ॥ ५।३५।१२ ॥
राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।
श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ॥ ५।३५।१३ ॥
राजविद्याविनीतश्च । चतस्रो राजविद्याः “आन्विक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः ।” इत्युक्ताः, तासु विनीतः शिक्षितः । श्रुतवान् अवधृतवान् । शीसम्पन्नः सदाचारसम्पन्नः । पूर्वं यज्ञादिकर्मानुष्टानुष्ठातृत्वमुक्तमिति न पुनरुक्तिः ॥ ५।३५।१३ ॥
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ ५।३५।१४ ॥
वेदेषु यजुर्व्यतिरिक्तवेदेषु । अनेन स्वस्य यजुर्वेदत्वं सूचितम् ॥ ५।३५।१४ ॥
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ ५।३५।१५ ॥
एवमात्मगुणानभिधाय विग्रहगुणानाशास्ते विपुलांस इत्यादिना । गूढजत्रुः अस्पष्टभुजसन्ध्यस्थिः ॥ ५।३५।१५ ॥
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ ५।३५।१६ ॥
समः अन्यूनातिरिक्तदेहप्रमाणः ॥ ५।३५।१६ ॥
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ ५।३५।१७ ॥
त्रिस्थिर इति । त्रिषुस्थानेषु स्थिरः । तथोक्तं सामुद्रिके “उरश्च मणिबन्धश्च मुष्टिश्च स्थिराःऽ इति । त्रिप्रलम्बः त्रिषु प्रलम्बः । “दीर्घश्रूबाहुमुष्कस्तु चिरजीवी धनी नरः” इति वचनात् । अन्यत्र तु “त्रयश्च यस्य विद्यन्ते प्रलम्बा मेढ्रबाहवः ।” इति । त्रिसमः त्रिषु समः । “केशाग्रं वृषणं जानु समा यस्य स भूपतिः” इति वचनात् । त्रिषु चोन्नतः । तदाह वराहमिहिरः “उन्नतकुक्षिः क्षितिपः परिमण्डलोन्नतनाभयः क्षितिपाः । हृदयं न वेपनं पृथु समोन्नतं मांसलं च नृपतीनाम् ॥ " त्रिताम्रः त्रिषु ताम्रः। “श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी पादौ करावपि सुरक्तनखात्मरेखौ” इति वचनात्। “नेत्रान्तनखपाण्यङ्घ्रितलैलस्ताम्रैस्त्रिभिस्सुखी” इति च। त्रिषु स्निग्धः। " स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः। तथा लिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत् ॥ " इति सामुद्रिकवचनात् । त्रिषु गम्भीरः । अत्र वररुचिः “स्वरः सत्त्वं च नाभिश्च गम्भीरः शस्यते बुधैः” इति । ब्राह्मे तु “स्वरे गतौ च नाभौ च गम्भीरास्त्रिषु शस्यते” इति । नित्यश इति सर्वत्र विशेषणीयम् । तेन रोगाद्युपाधिकृतरागादिनिवृत्तिः ॥ ५।३५।१७ ॥
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ॥ ५।३५।१८ ॥
त्रिवलीवान् उदरे वलित्रयवान्, कण्ठे वलित्रयवान् वा । अत्र गर्गः “स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता । न चातिदीर्घा चतुरङ्गुला च ग्रीवा सुदीर्घा भवतीह धन्या ॥ " इति। त्र्यवनतः त्रीण्यवनतानि निम्नानि यस्यासौ त्र्यवनतः। तानि स्तनचूचुकपादरेखाः। अत्र मिहिरः–“पीनोपचितैर्निम्नैः क्षितिपतयश्चूचुकैः स्तनैः सुखिनः। स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निस्स्वानाम् ॥ " इति । चत्वारि व्यङ्गानि ह्रस्वानि यस्यासौ चतुर्व्यङ्गः । अत्र वररुचिः–” ग्रीवा प्रजननं पृष्ठं ह्रस्वं जङ्घा च पूज्यते” इति । यद्वा चत्वारो व्यङ्गाः विकलाः यस्य सः चतुर्व्यङ्गः । ते च शिराविकलः पादः, रोमान्तरविकलो रोमकूपः, दैर्घ्यविकलो मेढ्रः, मांसविकलो बस्तिः । अत्र नारदः–“पादैः प्रस्वेदरहितैः शिराहीनैश्च पार्थिवः । एकरोमा भवेद्राजा द्विरोमा पाण्डितो भवेत् । त्रिरोमा चतुरोमा च भवेद्भाग्यविवर्जितः । समपादोपविष्टस्य गुल्फं स्पृशति मेहनम् । यस्येश्वरं तं जानीयात्सुखिनं चैव मानवम् । निर्मांसः संहतो बस्तिर्येषां ते सुखभागिनः ॥ " इति। त्रिशीर्षवान् त्रिभिर्लक्षणैर्युक्तं शीर्षं तदस्यास्तीति त्रिशीर्षवान्। तानि लक्षणान्यावर्ताः। “आवर्तत्रयरुचिरं यस्य शिरः स क्षितिभृतां नेता”। इति कथनात्। यद्वा त्रिप्रकारं समवृत्तं छत्राकारं विशालं च शीर्षमस्यास्तीति त्रिशीर्षवान्। अत्र नारदः “समवृत्ताशिराश्चैव छत्राकारशिरास्तथा। एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति ॥ " इति । चतस्रः कलाः वेदाः यस्य चतुष्कलः । अत्र शरीरलक्षणप्रकरणे कलाशब्दस्तत्सूचकरेखापरः । अत्र नन्दी “मूले ऽङ्गुष्ठस्य वेदानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा ज्ञेया द्विजान्मनाम् ॥ " इति। चतुर्लेखः ललाटे पादयोः पाण्योश्चतस्रो लेखा रेखा यस्य स चतुर्लेखः। “ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः। शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिस्तथा ॥ " इति कात्यायनः । " यस्य पादतले वज्रध्वजशङ्खाङ्कुशोपमाः । रेखास्सम्यक् प्रकाशन्ते मनुजेन्द्रं तमादिशेत् ।” इति नारदः । “पाणौ चतस्रो रेखाश्च यस्य तिष्ठन्त्यभङ्गुराः” इति ब्रह्मा । चत्वारः किष्कवः यस्य स चतुष्किष्कुः । चतुर्विंशत्यङ्गुलात्मको हस्तः किष्कुः, षण्णवत्यङ्गुलोत्सेध इत्यर्थः । “षण्णवत्यङ्गुलोत्सेधो यः पुमान् स दिवोकसः” इति ब्रह्मपुराणवचनम् । चतुःसमः चत्वारः समा यस्य स चतुःसमः, ते च बाहुजानूरुगण्डाः । तदुक्तं ब्रह्माण्डे– “बाहुजानूरुगण्डाश्च चत्वार्यथ समानि च” इति ॥ ५।३५।१८ ॥
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।
महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ॥ ५।३५।१९ ॥
चतुर्दशसमद्वन्द्वः चतुर्दशसङ्ख्यानि समानि द्वन्द्वानि यस्य सः । तथात्र सामुद्रिकम्– “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी । करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः ॥ " इति। चत्वारो दंष्ट्राकारा दन्ता यस्य स चतुर्दंष्ट्रः। तदाह मिहिरः– “स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः” इति। चतुर्गतिः चतुर्णां सिंहशार्दूलगजवृषभाणां गतिरिव गतिर्यस्य सः। “गजसिंहगती वीरौ शार्दूलवृषभोपमौ” इति बालकाण्डोक्तेः। महोष्ठहनुनासश्च। ओष्ठस्य महत्त्वं बन्धुजीवबिम्बफलारुणमांसलत्वम्, हनोस्तु परिपूर्णमांसलत्वम्, नासिकाया दीर्घतुङ्गत्वम्। तथाच संहिता “बन्धुजीवकुसुमोऽधरो मांसलो रुचिरबिम्बरूपधृत्। पूर्णमांसलहनुस्तु भूमिपस्तुङ्गतुण्डरुचिराकृतिस्तथा ॥ " इति । तुण्डशब्देन नासिकोच्यते पञ्चस्निग्धः । पञ्च स्निग्धाः अवयवाः यस्य सः, ते च वाक्यवक्त्रनखलोमत्वचः केशनेत्रदन्तत्वकपादतलानि वा । अत्र वररुचिः– “चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । त्वचः स्नेहेन शयनं पादस्नेहेन वाहनम् ॥ " इति। स्निग्धनीलमृदुकुञ्चितास्तथा मूर्धजाः सुखकराः समं शिरः” इति मिहिरः। पूर्वं त्रिषु स्निग्ध इत्युक्तेः अत्र पञ्चस्निग्ध इतीदं मतभेदमाश्रित्योक्तम्। अष्टवंशवान् अष्टौ वंशाः आयतावयवा यस्य सः, आयताष्टावयव इत्यर्थः। अत्र सामुद्रिकम्– “पृष्ठवंशः शरीरं च हस्तपादाङ्गुली करौ। नासिका चक्षुषी कर्णौ प्रजनो यस्य चायताः ॥ " इति । प्रजनस्यायतत्वमार्जवम् ॥ ५।३५।१९ ॥
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।
षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ॥ ५।३५।२० ॥
दशपद्मः दश पद्माकारावयवाः यस्य सः दशपद्मः । “मुखनेत्रास्यजिह्वोष्ठतालुस्तननखाः करौ । पादौ च दश पद्मानि पद्माकाराणि यस्य च ॥ " इति। दशबृहत् दश बृहदवयवा यस्य सः। ते च– " उरः शिरो ललाटं च ग्रीवा बाह्वंसनाभयः। पार्श्वपृष्ठस्वराश्चेति विशालास्ते शुभप्रदाः ॥ " इति सामुद्रिकम् । ब्राह्मे तु– " शिरो ललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादौ च पृष्ठं दश बृहन्ति च ॥ " इति। त्रिभिर्व्याप्तः ॥ " त्रिभिर्वाप्तिश्च यस्य स्तात्तेजसा यशसा श्रिया” इति ब्राह्मोक्तरीत्या त्रिभिर्व्याप्तः । द्विशुक्लवान् द्वे दन्तनेत्रे शुक्ले यस्य सः द्विशुक्लवान् । षडुन्नतः षट् उन्नता अवयवा यस्य सः । ते च– “कक्षः कुक्षिश्च वक्षश्च घ्राणं स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नताङ्गाः शुभप्रदाः ॥ " इति वररुचिः। अत्र मतभेदेनोक्तेर्न पुनरुक्तिः। मतभेदश्रवणं च रामस्य सकलशास्त्रोक्तमहापुरुषलक्षणपरिपूर्णत्वद्योतनाय। नवतनुः नव तनवः सूक्ष्मा यस्य । तानि च केशश्मश्रुनखलामत्वगङ्गुलिपर्वशेफोबुद्धिदर्शनानि। “सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः। शेफश्च येषां सूक्ष्माणि ते नरा दीर्घजीविनः ॥ " इति वररुचिः । त्रिभिर्व्याप्नोति त्रिभिः पूर्वाह्णमध्याह्नापराह्णैः कालैः धर्मार्थकामान् व्याप्नोति अनुतिष्ठतीति । तदुक्तं ब्राह्मे–” धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनिष्ठिताः” इति ॥ ५।३५।२० ॥
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।
देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ ५।३५।२१ ॥
संग्राहानुग्रह इति । संग्रह अर्जनम् । अनुग्रहः फलदानम् ॥ ५।३५।२१ ॥
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ ५।३५।२२ ॥
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ ५।३५।२३ ॥
भ्राता च तस्येति । द्वैमात्रः सपत्नीपुत्रः ॥ ५।३५।२२२३ ॥
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ ५।३५।२४ ॥
ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ ५।३५।२५ ॥
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।
परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ॥ ५।३५।२६ ॥
मृगपतिं सुग्रीवम् । पूर्वजेन वालिना । अवरोपितम्, राज्यादिति शेषः ॥ ५।३५।२४२६ ॥
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ ५।३५।२७ ॥
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ ५।३५।२८ ॥
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।
तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ ५।३५।२९ ॥
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ ५।३५।३० ॥
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ॥ ५।३५।३१ ॥
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।
तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥ ५।३५।३२ ॥
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ५।३५।३३ ॥
ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ ५।३५।३४ ॥
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ५।३५।३५ ॥
तत इति । पाणिनावितिनान्तत्वमार्षम् ॥ ५।३५।२७३५ ॥
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।
तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ५।३५।३६ ॥
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।
यान्याभरणजालानि पातितानि महीतले ॥ । ५।३५।३७ ॥
स श्रुत्वेति । अत्यर्थं (बिष्मभ) इति । आत्मवद्रामस्यापि दुःखहेतुश्रवणादिति भावः ।
यद्वा रामापेक्षया अत्यन्तनिष्प्रभः । रामः सीताविरहेण निष्प्रभो ऽभूत्, सुग्रीवस्तु तयोस्साहित्यादर्शनाद्रामक्लेशदर्शनाच्चात्यर्थं निष्प्रभो ऽभूत् ॥ ५।३५।३६३७ ॥
तानि सर्वाणि रामाय आनीय हरियूथपाः ।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ५।३५।३८ ॥
तानीत्यादि । आनीय हरियूथपा इति । पूर्वं सुग्रीवेणानयनमुक्तं तद्धरियूथपद्वारेत्यत्रोच्यते । गतिं रावणस्थानम् ॥ ५।३५।३८ ॥
तानि रामाय दत्तानि मयैवोपहृतानि च ।
स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ॥ ५।३५।३९ ॥
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।
तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ५।३५।४० ॥
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ॥
प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ॥ ५।३५।४१ ॥
तानीति । दत्तानि, सुग्रीवेणेति शेषः । मयैवोपहृतानि, पूर्वं पतनकाल इति शेषः, इदानीं हरियूथपैरानीत्वोक्तेः । स्वनवन्ति आकाशात्पतनकाले ॥ ५।३५।३९४१ ॥
शयितं च चिरं तेन दुःकार्तेन महात्मना ।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ॥ ५।३५।४२ ॥
शयितं मूर्च्छितम् ॥ ५।३५।४२ ॥
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।
राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ॥ ५।३५।४३ ॥
सुग्रीवे संन्यवेदयत् सुग्रीवहस्ते न्यस्तवानित्यर्थः ॥ ५।३५।४३ ॥
स तवादर्शनादार्ये राघवः परितप्यते ।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ५।३५।४४ ॥
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।
तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ॥ ५।३५।४५ ॥
तवादर्शनशोकेन राघवः प्रविचाल्यते ।
महता भूमिकम्पने महानिव शिलोच्चयः ॥ ५।३५।४६ ॥
काननानि सुरम्याणि नदीः प्रस्रवणानि च ।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ ५।३५।४७ ॥
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ५।३५।४८ ॥ ऀ
सहितौ रामसुग्रीवावुभावकुरुतां तदा ।
समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ ५।३५।४९ ॥
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ ५।३५।५० ॥
ततो निहत्य तरसा रामो वालिनमाहवे ।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥ ५।३५।५१ ॥
आग्निपर्वतो नाम मेरुशिखरवर्ती कश्चिद्गिरिः । उक्तं च भारते– ऽअत्र माल्यवतः श्रृङ्गे दृश्यते हव्यावाट् सदा । नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥ " इति ॥ ५।३५।४४५१ ॥
रामसुग्रीवयोरैक्यं देव्येवं समजायत ।
हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ ५।३५।५२ ॥
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ ५।३५।५३ ॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५।३५।५४ ॥
ननु “वानराणां नराणां च कथमासीत्समागमः” इति वामदक्षिणहस्तवैषम्यमप्यविजानानां शाखायाश्शखामाप्लुत्य जीवतां तिरश्चां वसिष्ठाशिष्यतया निरतिशयाचारसम्पन्नयोश्चक्रवर्तिपुत्रयोश्च कथं समागमो जात इति पृष्टम्, तस्य किमुत्तरमुक्तमित्यत्राह– रामसुग्रीवयोरिति । रामसुग्रीवयोरैक्यमेवं समजायत । एवमिति प्रत्यक्षनिर्देशः, स्वानुजे विद्यमाने ऽपि यथा ऽहं सुग्रीवदूतो ऽन्तःपुरकार्यसमाधानायागतः तथा तयोरैक्यं मैत्री जातेत्यर्थः । यद्वा एवं समजायत अहमप्येवं दृष्टोवान्, न योग्यतामवगच्छामीत्यर्थः ॥ ५।३५।५२५४ ॥
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५।३५।५५ ॥
सुग्रीववचनातुराः सुग्रीवाज्ञाभीताः सुग्रीववचनानुगा इति च पाठः ॥ ५।३५।५५ ॥
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।
प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ॥ ५।३५।५६ ॥
अङ्गद इति । त्रिभागबलसंवृतः तृदीयांशेन बलेन सैन्यैन संवृत इत्यर्थः ॥ वृत्तिविषये पूरणार्थत्वं संख्याशब्दस्येष्यते ॥ ५।३५।५६ ॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।
भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५।३५।५७ ॥
तेषामिति । विप्रनष्टानां बिले अदर्शनं गतानाम् ॥ ५।३५।५७ ॥
ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५।३५।५८ ॥
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ ५।३५।५९ ॥
ते वयमिति । कालस्य सुग्रीवकल्पितमासस्य । कपिराजस्य सुग्रीवात् ॥ ५।३५।५८५९ ॥
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ ५।३५।६० ॥
तवनाशं च वैदेहि वालिनश्च वधं तथा ।
प्रायोववेशमस्माकं मरणं च जटायुषः ॥ ५३।५।६१ ॥
दृष्ट्वेत्यादिश्लोकद्वयमेकं वाक्यम् । परिदेवनकर्माह तवेति ॥ ५।३५।६०६१ ॥
तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।
कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ॥ ५।३५।६२ ॥
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ५।३५।६३ ॥
यवीयान् केन म भ्राता हतः क्व च निपातितः ।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ५।३५।६४ ॥
अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ५।३५।६५ ॥
जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।
त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ५।३५।६६ ॥
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।
अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ॥ ५।३५।६७ ॥
तेषामिति । स्वामिसन्देशात् मासादूर्ध्वमनागतानां भयमित्येवंरूपात् । तेषां कार्यहेतोः ॥ ५।३५।६२६७ ॥
विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।
त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ५।३५।६८ ॥
हृष्टाः उत्साहवन्तः । तुष्टा आनन्दवन्तः ॥ ५।३५।६८ ॥
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥ ५।३५।६९ ॥
तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ॥ ५।३५।७० ॥
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥ ५।३५।७१ ॥
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ ५।३५।७२ ॥
वेलोपान्तं वेला सिन्धुपूरः तस्योपान्तम् । “वेला ऽम्बुधेस्तीरवृद्ध्योः कालमर्यादयोरपि” इति दर्पणः ॥ ५।३५।६९७२ ॥
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।
सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ॥ ५।३५।७३ ॥
रामकृतोद्योगं रामकृतोत्साहम् ॥ ५।३५।७३ ॥
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ५।३५।७४ ॥
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।
अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ५।३५।७५ ॥
गुरोः ज्येष्ठस्य आराधने शुश्रूषेण रतः लक्ष्मणश्च कुशली ॥ ५।३५।७४७५ ॥
मयेयमसहायेन चरता कामरूपिणा ।
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ ५।३५।७६ ॥
मयेयमिति । विचयैषिणा अन्वेषणेच्छुना ॥ ५।३५।७६ ॥
दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥ ५।३५।७७ ॥
दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ ५।३५।७८ ॥
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ ५।३५।७९ ॥
दिष्ट्येति । तवाभिगमशंसनात् त्वत्समीपप्राप्तिकथनात् ॥ ५।३५।७७७९ ॥
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ५।३५।८० ॥
बुद्ध्यस्व पवनात्मजम्ऽ इति पवनात्मजत्वमुक्तम्, तत्कथं वानरस्येत्यपेक्षायामाह माल्यवानिति । गच्छति अगच्छत् ॥ ५।३५।८० ॥
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।
तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ५।३५।८१ ॥
सः गोकर्णं गतः । देवर्षिभिः तत्रत्यैः दिष्टः नियुक्तः । शम्बसादनं तीर्थोपद्रवकारिणमसुरं शम्बसादनाख्यम् । उद्धरत् उदहरत् । देवर्षिप्रार्थनया अवधीदित्यर्थः ॥ ५।३५।८१ ॥
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ ५।३५।८२ ॥
हरिणः हरेः केसरिणः क्षेत्रे पत्न्याम् अञ्जनायां जातः पितुर्देशान्तरगमनकाले जातः । अनेनान्यक्षेत्रे कथमनयेनोत्पादनमिति शङ्का पराकृता ॥ ५।३५।८२ ॥
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।
अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ॥ ५।३५।८३ ॥
नयिता नेता ॥ ५।३५।८३ ॥
एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ ५।३५।८४ ॥
अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥ ५।३५।८५ ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५।३५।८६ ॥
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ५।३५।८७ ॥
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ५।३५।८८ ॥
अवगच्छति अवागच्छत् ॥ ५।३५।८४८८ ॥
हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।
ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ५।३५।८९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ५।३५ ॥
देवीनियुक्तार्थकरणे स्वस्य शक्तिरस्तीति द्योतयितुं स्वमाहात्म्यमाह हत इति । ततः असुरवधोपकरात् ॥ ५।३५।८९ ॥
इति श्रीगोविन्दराजविरचितचे श्रीरामायणभूषणे श्रृङ्गारतिलके सुन्दरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ५।३५ ॥