तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।
दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ ५।३४।१ ॥
तस्या इत्यादि । दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ॥ ५।३४।१ ॥
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ ५।३४।२ ॥
अहमिति । तव दुतः प्रति प्रेषितो दुतः ॥ ५।३४।२ ॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ५।३४।३ ॥
लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।
कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ॥ ५।३४।४ ॥
य इति । वेद वेत्ति । वेदविदां वेदार्थज्ञानवताम् ॥ ४।३४।३४ ॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।
प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ५।३४।५ ॥
सेति । प्रीतिसंहृष्टसर्वाङ्गी प्रीत्या पुलकितसर्वाङ्गी ॥ ५।३४।५ ॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ५।३४।६ ॥
दुःखबाहुल्येपि रामदर्शनप्रत्याशया कृच्छ्रेण जीवन्त्याः देव्याः जीवनफलस्य लब्धत्वीत्तत्संवादिनीं गाथां स्तौति कल्याणीति । कल्याणी सत्यार्था । मा प्रतिभाति मां प्रतिभाति । वर्षशतादपीत्यन्ते इतिकरणं बोद्ध्यम् ॥ ५।३४।६ ॥
तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ५।३४।७ ॥
तया सीतया तस्मिन् हनुमति विषये अद्भुता प्रीतिरुत्पादिता । परस्परेणेत्यादिकं वक्ष्यमाणस्य सर्गस्य संग्रहः ॥ ५।३४।७ ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।
सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ५।३४।८ ॥
तस्या इति । उपचक्रमे, गन्तुमिति शेषः । प्रापेति वा ऽर्थः ॥ ५।३४।८ ॥
यथा यथा समीपं स हनुमानुपसर्पति ।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ५।३४।९ ॥
यथा यथेति । रावणं परिशङ्कते रामकुशलकथनेन सञ्जातरावणमायास्मरणां पुनः शङ्कितवतीत्यर्थः ॥ ५।३४।९ ॥
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।
रूपान्तरमुपागम्य स एवायं हि रावणः ॥ ५।३४।१० ॥
मे मया अस्य पुरतः यत्कथितं तत् दुष्कृतम् अनुचितं कृतम् । इदम् अनालोच्य कथनं धिक् । अहो इति खेदे । खेदहेतुमाह रूपान्तरमिति । वर्तत इति शेषः ॥ ५।३४।१० ॥
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ५।३४।११ ॥
यद्यपि पूर्वं शिंशुपाशाखावलम्बनमुक्तं तथापि शिंशुपाशाखा अशोकसंवलितेति क्वचिच्छिंशुपेत्युच्यते क्वचिदशोक इति । अतो न कश्चिद्दोषः ॥ ५।३४।११ ॥
हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ॥ ५।३४।१२ ॥
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ । ५।३४।१३ ॥
भयवित्रस्ता भयहेतुना वित्रस्ता ॥ ५।३४।१२१३ ॥
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।
उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ॥ ५।३४।१४ ॥
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ ५।३४।१५ ॥
उपवासकृशां दीनां कामरूप निशाचर ।
सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ॥ ५।३४।१६ ॥
मायावीस्वत एव मायावान् । “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । इदानीं मायां प्रविष्टः आश्रितः । स्वयं रावणस्सन् मम सन्तापसुत्पादयसीति यदि उत्पादयसीति यत् तत्सन्तापोत्पादनं ते न शोभनम् ॥ तवाप्यभीष्टविरहसन्तापो भविष्यतीत्यर्थः ॥ ५।३४।१४१६ ॥
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ ५।३४।१७ ॥
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।
गुणान् रामस्य कथय प्रियस्य मम वानर ॥ ५।३४।१८ ॥
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ ५।३४।१९ ॥
हनुमन्तं रावणमाशङ्क्य तज्जनितमनःप्रसादमालोच्य तां शङ्कां निराचष्टे अथवेति । मया यत् परिशङ्कितम् एतन्नैवं हि नैवमेव । कुत इत्यत आह मनस इति ॥ ५।३४।१७१९ ॥
अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।
प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ ५।३४।२० ॥
इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्बहुधा शङ्कते अहो इत्यादिना ॥ ५।३४।२० ॥
स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।
पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ॥ ५।३४।२१ ॥
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।
न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ ५।३४।२२ ॥
स्वप्ने ऽपीति । स्वप्ने ऽपि यद्यहं वीरम् । राक्षसीमध्यवासकृतं दुःखं स्वप्नदृष्टो ऽपि निवर्तयितुं क्षम इति वीर्यातिशयोक्तिः । राघवं सहलक्ष्मणम् । विश्लेषदशायामुभयोर्दर्शनात् स्वप्नदर्शने ऽप्युभयोर्दर्शनं भवेति । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं परस्परं संयुक्तौ न वेति शङ्कते । पश्येयं नावसीदेयम् एवमुभयोस्स्वप्ने दर्शनेपि महत् दुःखं निवर्तेत, कथंजिद् जीवितं धारयेयम् । स्वप्नोपि मम मत्सरी । मद्दशां विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ॥ ५।३४।२१२२ ॥
किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥ ५।३४।२३ ॥
एवं यथार्थस्वप्रपक्षौ निरस्य पुनश्चतुरो विभ्रमपक्षानुत्प्रेक्षते किन्नु स्यादिति । चित्तमोहः रामक्षेमवार्ताश्रवणकुतूहलकन्दलितनिरन्तरचिन्तासन्ततिपरिणतिवेशेषरूपः कोपि मनसो विभ्रम इत्यर्थः । असत्यश्चित्तसङ्कल्पो वा । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तदध्यारोपो वा यथा त्वरूपस्य वायोः पांसुपुञ्जरूपविशेषो ऽध्यारोपः । उन्मादजो विकारो वा । उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः, तज्जो विकारो भ्रमः । मृगतृष्णिका अन्यस्यान्यरूपेणावभासः । चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातगतिमृगतृष्णिके तु प्रकृतिस्थस्य ॥ ५।३४।२३ ॥
अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।
संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ॥ ५।३४।२४ ॥
अनन्तरोक्तचतुष्टयं निराकरोति अथवेत्यादिना । अथवा अयं वानरतद्भाषणादिप्रतिभासः उन्मादो न । मोहोप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य स तथोक्तः । अतः उन्मादनिराकरणेनैव सोपि निराकृत इत्यर्थः । अनयोर्निराकरणमितरपक्षद्वयनिराकरणस्योपलक्षणं कुत इत्यत आह संबुध्य इति । अहम्। आत्मानमिमं वनौकसं चापि संबुध्ये सम्यके जानामि ॥ ५।३४।२४ ॥
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥ ५।३४।२५ ॥
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।
न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ ५।३४।२६ ॥
इत्येवमिति । बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलवत्त्वं च ॥ ५।३४।२५२६ ॥
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ॥ ५।३४।२७ ॥
सीताया इति । संप्रहर्षयत् संप्राहर्षयत् ॥ ५।३४।२७ ॥
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ ५।३४।२८ ॥
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।
रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥ ५।३४।२९ ॥
आदित्य इत्यादि । राजेति कुबेरस्य सर्वलोकराजत्वमुक्तम् “राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे” इति । सत्यमधुरावाक्त्वं बृहस्पतेर्वाचस्पतित्वादेव । रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । श्रीमान् कान्तिमान् ॥ ५।३४।२८२९ ॥
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।
रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥ ५।३४।२९ ॥ ।
स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥ ५।३४।३० ॥
स्थाने क्रोधस्थाने क्रोधः यस्यासौ स्थानक्रोधः । प्रहर्ता क्रोधविषये प्रहर्ता । आदित्य इवेत्यादिना उक्तैर्विशेषणैर्विशिष्टो राम इति योज्यम् ॥ ५।३४।३० ॥
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ५।३४।३१ ॥
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।
शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ॥ ५।३४।३२ ॥
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ५।३४।३३ ॥
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ ५।३४।३४ ॥
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥ ५।३४।३५ ॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ५।३४।३६ ॥
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ५।३४।३७ ॥
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ ५।३४।३८ ॥
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ५।३४।३९ ॥
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।
त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ॥ ५।३४।४० ॥
बहुच्छायामित्यादि । लोकः महात्मनो यस्य बाहुच्छायाम् अवष्टव्यः आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना आश्रमपदादपकृष्य शून्ये येनापनीतासि तस्य रावणस्य यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना । यद्वा बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः असावादित्य इव तेजस्वीत्येवं योजना ॥ ५।३४।३१४० ॥
नाहमस्मि तथा देवि यथा मामवगच्छसि ।
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ५।३४।४१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ५।३४ ॥
नाहमिति । वञ्चनार्थं परिगृहीतवेष इति मां यथा ऽवगच्छिसि तथा नास्मीत्यर्थः ॥ ५।३४।४१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ५।३४ ॥