०३१ हनुमता रामकथावर्णनम्

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।

संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ ५।३१।१ ॥

एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूचते ऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा “पाठ्ये गेये च मधुरम्” इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्सृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो जायते लोके, अत्र न तथा यत्र शब्दसंसर्गो जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञानमपि तद्द्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना स्वयं रसजलकम् । वैदेह्याः वैदेही निमित्तम् । कुलानुरोधेन देहे निस्स्पृहायाः देहमपि दत्त्वा रसावहत्वमुच्यते ॥ ५।३१।१ ॥

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।

पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ॥ ५।३१।२ ॥

राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।

चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥ ५।३१।३ ॥

अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।

मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥ ५।३१।४ ॥

राजेत्यादि । वितरणविक्रमादिजनितत्वेन कीर्तियशसोर्भेदो ऽवगन्तव्यः ॥ ५।३१।२४ ॥

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।

पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ ५।३१।५ ॥

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।

रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ ५।३१।६ ॥

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥ ५।३१।७ ॥

पार्थिवव्यञ्जनैः राजलक्षणैः ॥ ५।३१।५७ ॥

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।

सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥ ५।३१।८ ॥

तस्य पितुर्वचनाद्वनं प्रव्राजितः गतः । स्वार्थे णिच् ॥ ५।३१।८ ॥

तेन तत्र महारण्ये मृगयां परिधावता ।

राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ ५।३१।९ ॥

मृगयां परिधावता मृगयामुद्दिश्य परिधावता । अनेन लीलया खरादिवधः सूच्यते ॥ ५।३१।९ ॥

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।

ततस्त्वमर्षापहृता जानकी रावणेन तु ।

वञ्जयित्वा वने रामं मृगरूपेण मायया ॥ ५।३१।१० ॥

स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।

आससाद वने मित्रं सुग्रीवं नाम वानरम् । ॥ ५।३१।११ ॥

ततः स वालिनं हत्वा रामः परपुरञ्जयः ।

प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ॥ ५।३१।१२ ॥

सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।

दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥ ५।३१।१३ ॥

अहं संपातिवचनाच्छतयोजनमायतम् ।

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ॥ ५।३१।१४ ॥

जनस्थानवधं जनस्थानरक्षोवधम् । अमर्षेणापहृताः अमर्षपहृता । मृगरूपेण मृगसौन्दर्येण प्रशस्तमृगेण वा । “प्रशंसायां रूपप्” ॥ ५।३१।१०१४ ॥

यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।

अश्रौषं राघवस्याहं सेयमासादिता मया ॥ ५।३१।१५ ॥

विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।

जानकी चापि तच्छृत्वा विस्मयं परमं गता ॥ ५।३१।१६ ॥

यथारूपां यादृशशरीराम् । यथावर्णां यादृशरूपाम् । यथालक्ष्मीं यादृशकान्तिम् । राघवस्य राघवात् ॥ ५।३१।१५१६ ॥

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।

उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ॥ ५।३१।१७ ॥

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।

स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ ५।३१।१८ ॥

तत इति । सुकेशी नीलसूक्ष्मकेशी, वक्रिम्णः पूर्वमुक्तत्वात् ॥ ५।३१।१७१८ ॥

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।

ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ ५।३१।१९ ॥

इत्यार्षे श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ५।३१ ॥

सेति । पार्श्वम् आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा भूमिं भित्त्वा कश्चिन्नरः रामनामानि कीर्तयेत्तथा ऽन्यत्रापीत्यपिना संभावनोच्यते । शिंशुपावृक्षस्याधस्तात्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श । तद्वपुरवलोकनात्पूर्वं तस्य हृदयमेवं परिच्छिनत्ति स्म । इह लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतरमतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वरविशेषेणायं वानरः, तत्रापि न स्वतन्त्रः, किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्यो ऽयम्, तद्राज्यकार्यमेतद्धस्तगतमिति निश्चितवती । वातात्मजं रामप्राणहेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणनहेतुत्वेन वायुपुत्रो ऽयमित्यवगतवती । सूर्यमिवोदयस्थं रामदिवाकरस्योदयसूचकमुदयगिरिस्थमरुणमिव स्थितम् । सूरः सूर्यः । “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः” इत्यमरः । “सूरसूतो ऽरुणो ऽनुरुः” इत्युक्तेस्सूरस्य सम्बन्धी सूर्यः । दिगादित्वाद्यत् । भवतापि सम्बन्धः विशेष एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते । “सूर्यो ऽरुणे च सूर्ये च” इति निघण्टुरस्तीत्याहुः । औचित्यादत्र सूर्यो ऽरुणः ॥ ५।३१।१९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डाव्याख्याने एकत्रिंशः सर्गः ॥ ५।३१ ॥