हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ ५।३०।१ ॥
हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वं सर्ववृत्तान्तम् । तर्जनं तर्जनवचनम् ॥ ५।३०।१ ॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ ५।३०।२ ॥
अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ॥ ५।३०।२ ॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ५।३०।३ ॥
यामिति, सर्ववानराभिलषितो ऽर्थो मयैकेन लब्ध इति विस्मितवान् ॥ ५।३०।३ ॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥ ५।३०।४ ॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५।३०।५ ॥
इदं वक्ष्यमाणम् । तावत् कार्त्स्न्येन ॥ ५।३०।४,५ ॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ॥ ५।३०।६ ॥
समाश्वासयितुं युक्तं न्याय्यम् ॥ ५।३०।६ ॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ ५।३०।७ ॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥ ५।३०।८ ॥
अहमिति । आश्वासयामि “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ॥ ५।३०।७८ ॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ५।३०।९ ॥
दोषवत्त्वमुपपादयति गते हीति ॥ ५।३०।९ ॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ ५।३०।१० ॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ ५।३०।११ ॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ ५।३०।१२ ॥
समाश्वासयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ॥ ५।३०।१०१२ ॥
रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ ५।३०।१३ ॥
सीतासन्देशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ ५।३०।१४ ॥
सीता ऽब्रवीद्वच इत्यत्रेतिकरणं द्रष्टव्यम् ॥ ५।३०।१३१४ ॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ ५।३०।१५ ॥
भर्त्तारं सुग्रीवम् । व्यर्थम् अनाश्वास्य गमने तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ ५।३०।१५ ॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ ५।३०।१६ ॥
राक्षसीनाम् अन्तरम् अवकाशं विच्छेदं वा, राक्षस्यासन्निधानसमयमित्यर्थः ॥ ५।३०।१६ ॥
अहं त्वति तनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् । ५।३०।१७ ॥
अहं त्विति । अतितनुः अतिसूक्ष्मतनुः । संस्कृतां प्रयोग-सौष्ठव-लक्षण-संस्कार-युक्ताम् ॥ ५।३०।१७ ॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।
वानरस्य विशेषेण कथं स्यादभिभाषणम् ॥ ५।३०।१८ ॥
गीर्वाणभाषया व्यवहारे दोषमाह–यदीति ॥ ५।३०।१८ ॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ ५।३०।१९ ॥
अथ मानुषभाषया व्यवहर्तव्यत्वं निश्चिनोति– अवश्यमिति । अत्र वाक्यस्य मानुषत्वं कोसलदेशवर्तिमनुष्यसंबन्धित्वं विवक्षितम् । तादृग्वाक्यस्यैव देवीपरिचितत्वात् ॥ ५।३०।१९ ॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ ५।३०।२० ॥
एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य संप्रति तयापि भाषया ऽनेन वानररूपेण पुरः स्थित्वा ऽभिभाषणे दोषो ऽस्तीति विचारयति सेयमिति ॥ ५।३०।२० ॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।
जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ ५।३०।२१ ॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ ५।३०।२२ ॥
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ ५।३०।२३ ॥
जानमाना जानाना । मुमागम आर्षः ॥ ५।३०।२१२३ ॥
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ ५।३०।२४ ॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ ५।३०।२५ ॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ ५।३०।२६ ॥
प्रशाखाः उपशाखाः । विपरिधावर्तं, मामिति शेषः ॥ ५।३०।२४२६ ॥
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ॥ ५।३०।२७ ॥
उद्विग्नकारिणः उद्वेगकारिणः । ५।३०।२७ ॥
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ॥ ५।३०।२८ ॥
तैः परितः संरुद्धः अत एव रक्षसां बलं विधमन् प्रहरन् अहं महोदधेः परं पारं प्राप्तुं न शक्नुयामित्यन्वयः ॥ ५।३०।२८ ॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ ५।३०।२९ ॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ ५।३०।३० ॥
अगृहीतार्था अविदितरामसन्देशार्था ॥ ५।३०।२९३० ॥
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।
सागरेण परिक्षिप्ते गुप्त वसति जानकी ॥ ५।३०।३१ ॥
उद्देश इति । उद्देश प्रदेशे । नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसति इत्यन्वयः ॥ ५।३०।३१ ॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ॥ ५।३०।३२ ॥
विशस्ते वेति । सहाय एव साहाय्यः तम् । कार्यसाधने
सीतादर्शननिवेदनलक्षणकार्यसाधने ॥ ५।३०।३२ ॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ॥ ५।३०।३३ ॥
कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।
नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ५।३०।३४ ॥
विमृशन्निति । यो लङ्घयेत तं न पश्यामीत्यन्वयः ॥ ५।३०।३३३४ ॥
असत्यानि च युद्धानि संशयो मे न रोचते ।
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ ५।३०।३५ ॥
असत्यानि अनिश्चितजयापजयानि । क्लेशस्तु भूयानिति भावः । ततो नैतन्मम मतमित्याह संशय इति । संशयः संशयितार्थः । स च सङ्ग्रामः । अथापि तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं चेत्याशयोनाह कश्चेति । प्राज्ञः कः ससंशयं कार्यं निस्संशयं निर्विचारम् कुर्यात्? ॥ ५।३०।३५ ॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ॥ ५।३०।३६ ॥
अनभिभाषणे रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतीसंत्रासाक्रोशतन्निमित्तराक्षसागमनादिः । सीताभिभाषणे वानररूपेण पुरः स्थित्वा ऽभिभाषणे ॥ ५।३०।३६ ॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ५।३०।३७ ॥
भूताश्चार्थाः निष्पन्नार्थाः । विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति तथा विनश्यन्तीति सम्बन्धः ॥ ५।३०।३७ ॥
अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ५।३०।३८ ॥
अत्र विक्लवं दूतमासाद्येत्यनुषज्यते । अर्थानर्थान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्य न शोभते । अकिंचित्करा भवतीत्यर्थः । एतदेवोपपादयति घातयन्तीति ॥ ५।३०।३८ ॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ५।३०।३९ ॥
प्रागुक्ता दूतदोषाः स्वस्मिन्यथा न स्युस्तथा कर्तव्यमित्याह न विनश्येदिति । कार्यं स्वामिकार्यम् । कथं केन प्रकारेण न विनश्येत् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत् । समुद्रलङ्घनं कथं न वृथा भवेत्, तथा कर्तव्यमिति शेषः ॥ ५।३०।३९ ॥
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ॥ ५।३०।४० ॥
कथमिति । अत्र सीतेत्यध्याहार्यम् । हनुमान् मे वाक्यं सीता कथं केन प्रकारेण श्रृणुयात्कथं नोद्विजेतेति विचार्य मतिमान् प्रशस्तमतिः । मतिं तत्कालोचितकर्तव्यविषयाम् । चकार निष्पादयामास ॥ ५।३०।४० ॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ॥ ५।३०।४१ ॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ५।३०।४२ ॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ ५।३०।४३ ॥
राममिति । स्वबन्धुं राममनुकीर्तयन् “लक्षणहेत्वोः–” इति हेत्वर्थे शतृप्रत्ययः । नैनामुद्वेजयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेण रामस्य कीर्तनेनैवानुद्विग्नां करिष्यामीत्यर्थः । तद्बन्धुगतमानसां स चासौ बन्धुश्च तद्बन्धुः रामः तद्गतमानसाम् ॥ ५।३०।४१४३ ॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ५।३०।४४ ॥
इत्यार्षे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः ॥ ५।३० ॥
इतीति । जगतिपतेः इति दीर्घाभाव आर्षः । जगादेति वक्ष्यमाणसर्गार्थसंग्रहः ॥ ५।३०।४४ ॥
इति श्रगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ५।३० ॥