सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।
सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ ५।२८।१ ॥
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।
कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ ५।२८।२ ॥
सा राक्षसेन्द्रस्येत्यादि ॥ ५।२८।१२ ॥
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।
यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ॥ ५।२८।३ ॥
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।
विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ५।२८।४ ॥
सत्यमिति । यत्र येन किंचिज्जीवामि कुत्सितं जीवामि ॥ ५।२८।३४ ॥
नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य ।
भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥ ५।२८।५ ॥
नन्वात्महनने महान् दोषः स्यादित्याशङ्क्य आह नैवेति । दोषं दोषः । आर्षं नपुंसकम् । अत्र आत्महनने कथमदेष इत्याशङ्क्य रावणकृतान्मरणादात्मनैव मरणं श्रेय इत्याह वध्येति । अप्रियदर्शनस्य अस्य रावणस्य । दुर्मरणत्वाविशेषेपि दुष्टराक्षसेन मरणमतिकष्टमिति भावः । तर्हि तदनुप्रवेशेनात्मा रक्ष्यताम् “सर्वत आत्मानं गोपायेत्” इति श्रुतेरित्याशङ्याह भावमिति । अस्य अस्मिन् रावणे भावं हृदयम् अनुप्रदातुं नालं न शक्ता । रामस्वत्वादस्य, न ह्यन्यस्य स्वमन्यो ऽन्यस्मै दातदुमर्हतीति भावः । अनर्हश्चायं भावो ऽन्यप्रदानस्येत्यमुमर्थं दृष्टान्तमुखेनाह द्विज इति । मन्त्रं वेदम् । अद्विजाय शूद्राय । ५।२८,५ ॥
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ ५।२८।६ ॥
नूनमिति । अनागच्छति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्तोः निरुद्धनिर्गमस्य गर्भस्थजन्तोः । शल्यकृन्तः नापितः ॥ ५।२८।६ ॥
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।
बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ ५।२८।७ ॥
चिराय दुःखिताया मम द्वौ मासौ वधस्यावधिभूतौ अधिगमिष्यतः । इदं दुःखं बत । कस्य दुःखमिव? राजापराधात् बद्धस्य तथा निशान्ते वध्यस्य तस्करस्येव दुःखम् । यथेति पाठे इवशब्दो वाक्यालङ्कारे ॥ ५।२८।७ ॥
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।
एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ॥ ५।२८।८ ॥
हा रामेति । मूढो वात्यारूपो वातो यस्यास्सा मूढवाता, वात्याहतेत्यर्थः । “मूढस्तन्द्रितवात्ययोः"इति विश्वः ॥ ५।२८।८ ॥
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।
नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ॥ ५।२८।९ ॥
तरस्विनाविति । मृगस्य रूपं धारयता सत्त्वेन जन्तुना । मम कारणात् मन्निमित्तम् । विशस्तौ हिंसितौ । द्वौ सिंहर्षभाविव द्वौ सिंहाविव द्वौ ऋषभाविवेत्यर्थः । वैद्युतेन अशनिना ॥ ५।२८।९ ॥
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।
यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ ५।२८।१० ॥
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र ।
रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ॥ ५।२८।११ ॥
लुलुभे प्रलोभयामास । यत्र यस्मिन् काले । विससर्जेति सृजेर्लिट्युत्तमपुरुषैकवचनम् । “रामानुजं लक्ष्मणपूर्वजं च “परस्परस्य सदृशौ” इत्युक्तपरस्परसादृश्यात्, बाल्यात् प्रभृति सुस्निग्धतया च परस्परनिरूपकभूतौ ॥ ५।२८।१०११ ॥
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।
पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ ५।२८।१२ ॥
मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् ।
या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ ५।१८।१३ ॥
अनन्यदेवत्वमिति । अनन्यदेवत्वम् आश्रयणीया देवता ऽन्या ऽस्ति सा रक्षिष्यतीति बुद्धिर्मे नास्ति । “नारायणमुपागमात्” इत्यत्राप्यप्राधान्येन सह पत्न्येति ह्युक्तम् । नारायणमाराधयतो रामस्य परिचारिका ऽस्मीत्यर्थः । इयं क्षमा च । रावणपरुषाक्षराणि राक्षसीनां तर्जनभर्त्सनादीनि राममधुरालापश्रवणकुतूहलेन ह्यहं क्षान्तवती । भूमौ च शय्या । तवाङ्गे समुपाविशम्ऽ इत्येवंविधभोगः कदाचिदपि किन्न सेत्स्यतीत्याशया हि मया भूमौ शयनं क्रियते । नियमश्च धर्मे रक्षकत्वधर्मोपि तस्मिन्नेवेति मनीषया हि मया स्थितम् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसाऽ इत्युक्तिरपि दृष्ट्वैव । पतिव्रतात्वम् “एतद्व्रतं मम” इत्युक्तं व्रतं विना मम किञ्चिद्व्रतं नास्तीत्यर्थः । पत्युर्व्रतमेव व्रतं यस्यास्सा पतिव्रता तस्या भावः पतिव्रतात्वम् । विफलं ममेदम् अमोघमपि मोघमासीत् । कस्येवेति चेत्तत्राह कृतं कृतघ्नेष्विव मानुषाणाम् । “आत्मानं मानुषं मन्ये” इत्युक्तरीत्या मानुषत्वं रामस्याप्यस्ति । अतस्तदितरमानुषाणां मध्ये कृतघ्नेषु कृतं कार्यमिव । अस्य किं मूलमिति चेत्? ममेदं तस्मिन्न काचिन्न्यूनता ममैव दुष्कृतमत्र हेतुः ॥ ५।२८।१२१३ ॥
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥ ५।२८।१४ ॥
पितुर्निदेशम् आज्ञाम्, नियमेन अविच्छेदेन कृत्वा चरितव्रतः चरितवन्यवृत्तिव्रतः वनान्निवृत्तश्च सन् । स्त्रीभिस्तु मत्तोपि विलक्षणाभिः स्त्रीभिः त्वं रंस्यसे । वीतभयः गतवनवासभयः । कृतार्थः निष्पन्नसर्वपुरुषार्थः । मद्विनाशेन पुनर्बह्वीरूढ्वा रंस्यस इति भावः ॥ ५।२८।१४ ॥
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।
मोघं चरित्वा ऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ॥ ५।२८।१५ ॥
अहं त्वति । त्वयि जातकामा अत एव त्वयि निबद्धभावा निबद्धहृदया । विनाशाय त्वयि निबद्धभावेति दुःखातिरेकोक्तिः । तपः अनशनम् । व्रतं नियमम् । अल्पभाग्या जन्मान्तरसुकृतरहिता । इदानीमनुष्ठितानां तपोत्रतादीनां जन्मान्तरफलदत्वेन मोघत्वोक्तिः । अतः एवाल्पभाग्येत्युक्तम् ॥ ५।२८।१५ ॥
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ ५।२८।१६ ॥
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ॥ ५।२८।१७ ॥
सा जीवितमिति । वेश्मनि राक्षसस्य । एवं सम्यङ्मरणकारी क्रूरस्यास्य गृहं कथं लभ्यत इति भावः ॥ ५।२८।१६१७ ॥
शोकाभितप्ता बहुधा विचिन्त्य सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा ।
उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ ५।२८।१८ ॥
शोकेति । वेण्युद्ग्रथनं वेणीबन्धनम् । यमस्य मूलं यमस्य समीपम् । अत्रेतिकरणं बोध्यम् । इति विचिन्त्य नगोत्तमं शिंशुपामाससाद । शिंशुपां तामुपागमदिति पूर्वमुक्तम् । तस्य सामीप्येन गमनमद्योच्यते । पुष्पितं शुभसूचनम् । यद्वा पुष्पितमाससाद अग्निग्रवेशं कुर्वन्तीवेत्यर्थः ॥ ५।२८।१८ ॥
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य ॥ ५।२८।१९ ॥
उपस्थितेत्यर्धमेकं वाक्यम् । नगस्य शाखां गृहीत्वा उपस्थिता ॥ ५।२८।१९ ॥
तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ।
शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।
प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ॥ ५।२८।२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टाविंशः सर्गः ॥ ५।२८ ॥
तस्यास्त्विति । स्वं च कुलं विचिन्तयन्त्या इत्यनेन दुर्मरणात् भीतत्वं व्यज्यते । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्यार्जितानि अर्जितधैर्याणि, धैर्यकराणीत्यर्थः । लोके प्रवराणि लोके प्रसिद्धानीत्यर्थः, प्रवरं हि प्रसिद्धं भवति । प्रादुर्बभूवुरित्यन्वयः । पुरापि सिद्धान्युपलक्षितानि पूर्वमपि फलव्याप्तत्वेन दृष्टानि । तान्युत्तररसर्गे विवरिष्यति ॥ ५।२८।२० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ ५।२८ ॥