०२७ त्रिजटास्वप्नः

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।

काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ ५।२७।१ ॥

इत्यक्ता इत्यादि । तत् मरणाध्यवसायम् ॥ ५।२७।१ ॥

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।

पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ ५।२७।२ ॥

तत इत्यादि । एकार्थं पूर्वोक्तवचनैरेकाभिधेयम् । अनर्थार्थम् अनर्थफलकम् । एकाक्ष्यादयः पूर्वोक्तार्थमेव परुषवचनं पुनरब्रुवन्नित्यर्थः ॥ ५।२७।२ ॥

अद्येदानीं तवानार्ये सीते पापविनिश्चये ।

राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ॥ ५।२७।३ ॥

अद्य अस्मिन् दिने । इदानीम् अस्मिन् क्षणे । भक्षयिष्यन्तीत्यब्रुवन्निति पूर्वेण सम्बन्धः ॥ ५।२७।३ ॥

सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।

राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ ५।२७।४ ॥

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।

जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५।२७।५ ॥

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।

राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ५।२७।६ ॥

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः ।

सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ।

कथयस्व त्वया दृष्टः स्वप्नो ऽयं कीदृशो निशि ॥ ५।२७।७ ॥

सीतामित्यादि । त्रिजटा विभीषणपुत्री । शयानेत्यनेन स्वप्नप्रवृत्तान्तकथनत्वरोच्यते ॥ ५।२७।४७ ॥

तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ॥ ५।२७।८ ॥

गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् । ५।२७।९ ॥

निशीत्यनन्तरमितिकरणं द्रष्टव्यम् । काले उषः काले यस्स्वप्रः तत्संश्रितम् ॥ ५।२७।८९ ॥

युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।

शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ॥ ५।२७।१० ॥

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।

सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।

रामेण सङ्गता सीता भास्करेण प्रभा यथा ॥ ५।२७।११॥

आगतः, लङ्कामिति शेषः ॥ ५।२७।१०११ ॥

राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम् ।

आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ॥ ५।२७।१२ ॥

ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा ।

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ॥ ५।२७।१३ ॥

राघवश्चेति । महागजमारूढ इति, शिबिकात इति शेषः । तथोक्तम् स्वप्नाध्याये “आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । विष्ठानुलेपो रुदितं मृतं च स्वप्नेष्वगम्यागमनं च धन्यम् ॥ " इति। चचार, सीतां प्रतीति शेषः ॥ ५।२७।१२१३ ॥

ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ।

भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ ५।२७।१४ ॥

ततस्तस्य नगस्याग्र इति । अत्र द्वादशसहस्रं श्लोका गताः, त्रयोदशसहस्रस्यादिमो ऽयं श्लोकः । गायत्र्यास्त्रयोदशमक्षरमत्र बोध्यम् ॥ ५।२७।१४ ॥

भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।

चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ॥ ५।२७।१५ ॥

ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।

सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥ ५।२७।१६ ॥

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।

इहोपयातः काकुत्स्थः सीतया सह भार्यया ॥ ५।२७।१७ ॥

भर्तुरिति । चन्द्रसूर्यौ पाणिना परिमार्जतीति । अत्र स्वप्नाध्यायवचनम् “आदित्यमण्डलं वा चन्द्रमण्लमेव वा । स्वप्ने गृह्णाति हस्ताभ्यां राज्यं संप्राप्नुयान्महत् ॥ " इति ॥ ५।२७।१५१७ ॥

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥ ५।२७।१८ ॥

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।

उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ ५।२७।१९ ॥

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।

लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ ५।२७।२० ॥

न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ।

राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ ५।२७।२१ ॥

अयमिह स्वप्नक्रमः शिबिकास्थितो रामो दृष्टः, श्वेतपर्वतस्था सीता च । ततः शिबिकाया गजमारुह्य लक्ष्मणेन सह पर्वतमभ्येत्य ततस्सीतां गजस्कन्धे ऽधिरोप्य लङ्काया उपरि स्थित्वा ताभ्यां सहाष्टर्षभयुक्तेन रथेनेहागत्य स्वं देशं प्रति ताभ्यां पुष्पकमधिरुह्य गत इति । अन्ये श्लोकाः प्रक्षिप्ताः । तेन ते न व्याख्याता इत्याहुः । लक्ष्मणेन सह भ्रात्रेति । एतत्पादस्यानन्तरम् सीतया सह वीर्यवान् आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः । एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ इति पाठक्रमः । विमाने पुष्पके स्थितः । साण्डं त्रिभुवनमित्यारभ्य रामः सत्यपराक्रम इत्यन्तो ग्रन्थः प्रिक्षिप्तः प्रकृतासङ्गतश्च । विष्णुरेव स्वयं भूत्वेति प्रक्षिप्तवचनस्य विष्णुपराक्रम इत्यनेन विरोधात् ॥ ५।२७।१८२१ ॥

रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।

रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ॥ ५।२७।२२ ॥

विमानात् पुष्पकादद्य रावणः पतितो भुवि ।

कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥ ५।२७।२३ ॥

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।

पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।

गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥ ५।२७।२४ ॥

पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।

पतितो ऽवाविछरा भूमौ गर्दभाद्भयमोहितः ॥ ५।२७।२५ ॥

सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ।

उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ॥ ५।२७२६ ॥

दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ।

मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ॥ ५।२७।२७ ॥

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना ।

काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ॥ ५।२७।२८ ॥

एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः ।

रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ॥ ५।२७।२९ ॥

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।

उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥ ५।२७।३० ॥

रावणश्चेति । पिबन्निति । तैलसमुक्षित इत्यनेन तैलमित्युपस्थाप्यते । करवीरकृतस्रज इत्यकारान्तत्वमार्षम् । “हलन्ताद्वा “इत्यापो विधानात् स्रक्छन्दस्याबन्तत्वेन वा निर्वाहः ॥ ५।२७।२२३० ॥

एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ ५।२७।३१ ॥

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।

शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ॥ ५।२७।३२ ॥

एवं रावणविनाशसूचकमुक्त्वा विभीषणस्य राज्यप्राप्तिसूचकमाह एकस्तत्र मया दृष्टः श्वेतच्छत्र इत्यादिना ॥ ५।२७।३१३२ ॥

आरुह्य शौलसङ्काशं मेघस्तनितनिःस्वनम् ।

चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ।

चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ॥ ५।२७।३३ ॥

समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ।

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ ५।२७।३४ ॥

लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा ।

सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ ५।२७।३५ ॥

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।

दग्धा रामस्य दूतेन वानरेण तरस्विना ॥ ५।२७।३६ ॥

पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।

लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ॥ ५।२७।३७ ॥

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ॥ ५।२७।३८ ॥

वैहायसं विमानम् ॥ ५।२७।३३३८ ॥

अपगच्छत नश्यध्वं सीतामाप स राघवः ।

घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥ ५।२७।३९ ॥

अपगच्छत अपसरत । नश्यध्वम् अदर्शनं प्राप्नुत । आत्मनेपदमार्षम् । सीतामाप सीतामचिरेणाप्स्यतीत्यर्थः । सर्वैः राक्षसैस्सार्धम् घातयेत् । व इति सिद्धम् । अपगच्छत नश्यध्वमित्युक्तेः रावणमित्यध्याहारो वा ॥ ५।२७।३९ ॥

प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥ । ५।२७।४० ॥

नानुमंस्यति न सहिष्यत इत्यर्थः ॥ ५।२७।४० ॥

तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।

अभियाचाम वैदैहीमेतद्धि मम रोचते ॥ ५।२७।४१ ॥

यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते ।

सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ५।२७।४२ ॥

अभियाचाम, अभयमिति शेषः ॥ ५।२७।४१४२ ॥

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।

राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ ५।२७।४३ ॥

किं विवक्षया अस्मातभिस्तदा भर्त्सिता कथं प्रसन्ना भविष्यतीति वक्तुमिच्छया किम्? शङ्का न कर्तव्येत्यर्थः ॥ ५।२७।४३ ॥

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।

अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ ५।२७।४४ ॥

कुत इत्यत आह प्रणिपातप्रसन्ना हीति ॥ ५।२७।४४ ॥

अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।

विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ॥ ५।२७।४५ ॥

स्वप्नदर्शनकथनेन सीतायाः शोभनं भावीत्यभिधाय शरीरलक्षणप्रदर्शनेनापि शुभं भावीत्याह अपि चेति । लक्षणं दुःखप्राप्तिहेतुभूतं रेखोपरेखादिकम् ॥ ५।२७।४५ ॥

छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम् ।

अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥ ५।२७।४६ ॥

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।

राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ ५।२७।४७ ॥

तर्हि कुतस्तादृशदुःखानुभव इत्यत्राह छायेति । छायावैगुण्यमात्रम् उपलक्षय इत्यनुषज्यते । वैहायसं विमानम् । उपस्थितां प्राप्ताम्, दिव्यभोगार्हामिति यावत् । अन्वयस्तु छायावैगुण्यमात्रं तूपलक्षये अतः अदुःखार्हां दिव्यभोगार्हामिमां दुःखम् उपस्थितमिति शङ्क इति । अत्र छायावैगुण्यं नाम कान्तिवैकल्यम् । “छाया त्वनातपे कान्तौ” इत्यमरः । यद्वा छाया ऽत्रानातपः तद्वैगुण्यं तस्य विषमत्वम् । सर्वलक्षणलक्षिताया अपि छायावैगुण्यमेतावद्दुःखकरमासीदिति भावः ॥ ५।२७।४६४७ ॥

निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ॥ ५।२७।४८ ॥

इदानीं रामवार्ताश्रवणसूचकमाह निमित्तभूतमिति ॥ ५।२७।४८ ॥

दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।

ईषच्च हृषितो वा ऽस्या दक्षिणाया ह्यदक्षिणः ॥ ५।२७।४९ ॥

चक्षुरिति । अदक्षिणमित्येतदत्राप्यनुषज्यते ॥ हृषितो वा हृष्ट इव पुलकित इव । पद्मपत्रमित्यनेन रोगादिदृष्टहेत्वन्तरराहित्यमुक्तम् ॥ ५।२७।४९ ॥

अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।

वेपमानः सूचयति राघवं पुरतः स्थितम् ॥ ५।२७।५० ॥

अकस्मात् दृष्टहेत्वन्तरं विना ॥ ५।२७।५० ॥

पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।

सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥ ५।२७।५१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५।२७ ॥

एवं देहनिमित्तमुक्त्वा शाकुनमप्याह पक्षीति । पक्षी पिङ्गलिका । शाखानिलयः प्रहृष्टः । पुनः पुनश्चोत्तमसान्त्ववादी भूयो भूयो मधुरवादी । उत्तरोत्तरमुत्तमसान्त्वस्वरवादी वा । सुस्वागतां शोभनबन्ध्वागमनमिति यावत् । “बन्धुस्वस्वजनास्समाः” इत्यमरः । वाचं स्वरमुदीरयानः चोदयतीव रामागमनं कथयतीव । यद्वा पूर्वोक्तराघव एव कर्म । राघवमुपपादयतीवेत्यर्थः । आचार्यास्तु पक्षावस्य स्त इति पक्षी गरुत्मान् । भूम्निप्रशंसायां च मत्वर्थीयः । तदुक्तम् “भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गे ऽस्तिविवक्षायां भवन्ति मतुबादयः” इति । तथाच पक्षौ विस्तार्य प्रदक्षिणं सञ्चरन् । शाखानिलयः कुसुमितपल्लवितशाखायां दृढतरं स्थितः । आर्द्रतरतरुभाग एव शाखात्वव्यपदेशः । प्रदक्षिणभ्रमणम् आर्द्रशाखावरोहणं दृढतरावस्थानं च शुभशंसीत्यर्थः । प्रहृष्टः तत्र फलभोजनादिना सन्तुष्टः । पुनः पुनश्चोत्तमसान्त्ववादी उत्तरोत्तरं सान्त्ववचनं कुर्वन्निव स्थितः । मा शुचः सद्यः समागमिष्यति ते भर्ता नायमवसरश्शोकस्य इत्येवं सान्त्वयन्निव स्थितः । तदुपरि सुस्वागतां वाचमुदीरयानः । एतावन्मात्रं न भवति तस्य सन्तापातिरेक इति कथयन्निव स्थितः । विरहक्लिष्टायास्सुस्वागतवचनं हि नाम प्रतियोगिनः सन्तापातिशयकथनमेव । उक्तं हि “तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथाहि कुमुद्वतीं दिवसः” इति । पुनः पुनश्चोदयतीव प्रियागमने निश्चिते मज्जनालङ्करणादिकं किमर्थं न करोषीत्येवं सीतां चोदयतीवेत्युत्प्रेक्षा । हृष्टः,नायिकागमनकालिकहर्षः स्वस्यैवेत्येतद्वैलक्षण्यं हृषिततनूरुहैस्सूचयन्निव स्थितः । इदं हि रामायणमुत्तमं काव्यम् । तथाहि काव्यं तावत्त्रिविधम्, उत्तमं मध्यममधमं चेति । यत्र वाच्यातिशायिव्यङ्ग्यं तदुत्तमम् । स एव ध्वनिरित्युच्यते । यत्र वाच्यानतिशायिव्यङ्ग्यं तन्मध्यमं काव्यम् । तदेव गूणीभूतव्यङ्ग्यमित्युच्यते । यत्र व्यङ्ग्यमेव नास्ति तदधमम् । तदेव चित्रमित्युच्यते । व्यङ्ग्यं च पदगतं वाक्यगतं प्रबन्धगतं चेति त्रिविधं भवति । एतत्काण्डरूपप्रबन्धेन अनादिभगवत्सम्बन्धवतश्चेतनस्योज्जीवने प्रवृत्तस्याचार्यस्य प्रवृत्तिरभिव्यज्यते । उक्तश्चायमर्थः “ततो रावणनीतायाः” इति श्लोके । अत्र लङ्कापदेन शरीरं द्योतितम् । एकाक्षीप्रभृतय इन्द्रियाणि । रावणकुम्भकर्णावहङ्कारममकारौ । इन्द्रजित्प्रभृतयः कामक्रोधलोभमोहमदमात्सर्यदम्भादयः । तादृशलङ्कानिरुद्धसीतासदृशश्चेतनः । तस्य भगवज्ज्ञानोपदेष्ट्राचार्यतुल्यो मारुतिः । तादृशाचार्यलक्षणमनेन श्लोकेन सूच्यते पक्षी । पक्षिशब्देन गमनसाधनत्वात् ज्ञानकर्मणी उच्येते । तदुक्तम्"उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां नियता परमा गतिः ॥ " इति। ज्ञानकर्मणोरङ्गाङ्गिभावेनात्र समुच्चयो विवक्षितः। “ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन” इति श्रुतेः। अनेनाचार्यशब्दनिर्वचनमुक्तम्, ऽआचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि। स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥ " इति । शाखाशब्देन वेदशाखा उच्यन्ते । निलयशब्देन तदेकपरत्वम् त्यागे प्रत्यवायश्रवणात् । तदुक्तं शिक्षायाम् “अधीतमपि यो वेदं विमुञ्चति नराधमः । भ्रूणहा स तु विज्ञेयो वियोनिमभिगच्छति ॥ " इति। किं च निलय इत्यनेन तदर्थविषयकश्रवणमनननिदिध्यासनरूपतदनुष्ठानान्युच्यन्ते। अनेनाचार्यलक्षणमुक्तम्। तथाहुः"आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः। मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः। गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः। एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥ " इति । पुनः पुनश्चोत्तमसान्त्ववादी । उत्तमः “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इत्युक्तः परमात्मा, तद्विषयं सान्त्वं शिष्येभ्यो वदतीत्युत्तमसान्त्ववादी । “त्वं मे ऽहं मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेतच्चानादिसिद्धादनुभवविभवात्तर्हि साक्रोश एव । क्वाक्रोशः कस्य गीतादिषु मम विदितः को ऽत्र साक्षी सुधीस्स्याद्धन्त त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत्वम् ॥ “इत्युक्तरीत्या भगवति मनुष्याणां कलहे “यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः । तेन चेदपि वादस्ते मा गङ्गां मा कुरून् गमः ॥ " इति सान्त्ववादशील इत्यर्थः। पुनः पुनरित्यनेन कर्षकः कदाचिन्न फलितमित्येतावता यथा कृषिं न परित्यजति पुनः पुनस्तत्रैव प्रवर्तते तथा आचार्योऽपि कदाचित् स्ववचनाश्रवणेपि न निवर्तते इत्युक्तम्। अनेनाचार्यस्य भगवतोऽप्यतिशय उक्तः। स हि पार्थाय गीतामुपदिश्य पुनराश्वमेधिके तेन पूर्वोक्तमर्थं विस्मृत्य पुनः पृष्टे नाहं वक्ष्यामीत्युक्तवान् “नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव” इत्यादिना। किंच सुस्वागतां वाचमुदीरयानः। सुष्ठु संप्रदायाविच्छेदो यथा तथाचार्यपरम्परया स्वस्मै आगतां वाचम् अष्टाक्षरादिमन्त्रराजरूपां निर्हेतुक्यैव दयया समुदीरयन्।” आचार्याणामसावसावित्या भगवत्तः” इति गुरुपरम्पराया अनुसन्धेयत्वमनेन सूचितम्। पुनः पुनश्चोदयतीव। उक्तार्थस्यानुष्ठानाय चोदनां दर्शयति। अन्यथा ह्युपदेशोऽप्यनर्थक एव स्यात्। अत एवाहुर्निगमान्ताचार्याः"स्खालित्ये शासितारम्” इति। हृष्टः, एतेन शिष्यशिक्षणं स्वप्रयोजनमाचार्यस्येत्युक्तम् ॥ ५।२७।५१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ॥ ५।२७ ॥