प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ ५।२६।१ ॥
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।
उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ ५।२६।२ ॥
प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः” इत्युक्तेः । प्रमत्ता अनवधाना । “प्रमादो ऽनवधानता” इत्यमरः । भ्रान्तचित्ता अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता । किशोरीव बडवेव ॥ ५।२६।१२ ॥
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ ५।२६।३ ॥
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ ५।२६।४ ॥
राघवस्येत्यादि । प्रमत्तस्य अनवहितस्य ॥ ५।२६।३४ ॥
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।
वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ ५।२६।५ ॥
अश्मसारमिदं नूनमथवाप्यजरामरम् ।
हृदयं मम येनेदं न दुःखेनावशीर्यते ॥ ५।२६।६ ॥
धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ ५।२६।७।
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।
भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥ ५।२६।८ ॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ ५।२६।९ ॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ ५।२६।१० ॥
न हीति । मे जीवितैर्जीवनैः को ऽप्यर्थो नास्ति । केवलजीवितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् नेत्याह नैवार्थैर्न च भूषणैः । भूषणैरर्थैश्च सहितैर्जीवनैर्मेनार्थः । कुत इत्यत्राह वसन्त्या इति । राक्षसीमध्यवासाद्रामविरहाच्च सर्वोपकरणसहितमपि जीवितं नापेक्षितमित्यर्थः ॥ ५।२६।५१० ॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ ५।२६।११ ॥
प्रत्याख्यातं प्रत्याख्यानम् । भावे निष्ठा । आत्मानं स्वस्वरूपम् ॥ ५।२६।११ ॥
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ ५।२६।१२ ॥
छिन्नेति । छिन्ना द्विखण्डतया कृता । भिन्ना दलिता । विभक्ता अवयवशः कृता । दीप्तेव अग्नौ प्रदीपिता वा ॥ ५।२६।१२ ॥
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ ५।२६।१३ ॥
एवं पातिव्रत्यदार्ढ्यमुक्त्वा रामस्यानागमने कारणानि बहुधा शङ्कते– ख्यात इत्यादिना । प्राज्ञः दोषवत्यपि गुणदर्शी । “न ते ऽम्बा मध्यमा माता गर्हितव्या कथंचन” इत्युक्तम् । कृतज्ञः “कथंचिदुपकारेण कृतेनैकेन तुष्यति” इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कारं सर्वदा मनसिकुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कारकरणे “भृशं भवति दुःखितः” इत्युक्तरीत्या तेषां व्यसने सति अतिदुःखितः राघवः, जनित्वार्जितानां गुणान्तराणामुपसंग्रहणमिदम् । सद्वृत्तः परसमृद्ध्येकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठ्यामपि प्रसिद्धः । निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभावात् नृशंसमाशङ्के । मद्भाग्यसंक्षयात् मद्भाग्यविपर्ययेणैवं वैपरीत्यं जातम् ॥ ५।२६।१३ ॥
राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ ५।२६।१४ ॥
एकमात्रसहायः स किं करिष्यतीत्यत्राह राक्षसानामिति । जनस्थाने रक्षसां चतुर्दशसहस्राणि एकेन येन रामेण निरस्तानि घातितानि सः नाभिपद्यते न रक्षति ॥ ५।२६।१४ ॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ ५।२६।१५ ॥
प्रबलो रावणः कथं निरस्य इत्यत्राह निरुद्धेति ॥ ५।२६।१५ ॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।
रणे रामेण निहतः स मां किं नाभिपद्यते ॥ ५।२६।१६ ॥
सामर्थ्यं निदर्शयति–विराध इति ॥ ५।२६।१६ ॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।
न तु राघवबाणानां गतिरोधीह विद्यते ॥ ५।२६।१७ ॥
अस्तु रामः समर्थः, तथापि समुद्रमध्यस्था लङ्का दुष्प्रधर्षेत्याशङ्क्याह काममिति । गतिरोधि गतिप्रतिबन्धकम्, किंचिदिति शेषः ॥ ५।२६।१७ ॥
किं तु तत्कारणं येन रामो दृढपराक्रमः ।
रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ ५।२६।१८ ॥
एतत्फलितमाह किन्त्विति ॥ ५।२६।१८ ॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ ५।२६।१९ ॥
इहेति । लक्ष्मणपूर्वज इत्यनेन निरनुक्रोशत्वादिप्रसक्त्यभावः सूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसन्धेया ॥ ५।२६।१९ ॥
हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।
गृध्रराजो ऽपि स रणे रावणेन निपातितः ॥ ५।२६।२० ॥
इहास्तीत्यज्ञाने हेतुमाह हृतेति ॥ ५।२६।२० ॥
कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ ५।२६।२१ ॥
यदि मामिह जानीयाद्वर्तमानां स राघवः ।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ ५।२६।२२ ॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ ५।२६।२३ ॥
प्रसङ्गादाहकृतमिति । अभ्यवपद्यता रक्षता । रावणद्वन्द्वे रावणद्वन्द्वयुद्धे ॥ ५।२६।२१२३ ॥
ततो निहतनाथानां राक्षसीनां गृहे गृहे ।
यथा ऽहमेवं रुदती तथा भूयो न संशयः ॥ ५।२६।२४ ॥
अहं यथा एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्षसीनां गृहे गृहे भूयः भूरि रुदन्त्यः भविष्यन्तीत्यर्थः ॥ ५।२६।२४ ॥
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ ५।२६।२५ ॥
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।
अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ ५।२६।२६ ॥
अन्विष्येति । रक्षसां लङ्कामन्विष्य कुर्यात्, रिपुनाशनमिति शेषः ॥ ५।२६।२५२६ ॥
अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।
दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ॥ ५।२६।२७ ॥
दुष्प्रस्थानः दुर्मार्गः, दुराचार इति यावत् ॥ ५।२६।२७ ॥
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।
अचिरेण तु कालेन भविष्यति हतप्रभा ॥ ५।२६।२८ ॥
अशुभानि अशुभसूचकानि । हतप्रभेत्यत्र लङ्केत्यनुकर्षः । लङ्का अचिरेण कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि स्युः इह लङ्कायां तादृशान्यशुभानि दृश्यन्त इत्यन्वयः ॥ ५।२६।२८ ॥
नूनं लङ्का हते पापे रावणे राक्षसाधमे ।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ ५।२६।२९ ॥
नूनमिति । दुर्धर्षेति लङ्काविशेषणम् ॥ ५।२६।२९ ॥
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।
भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ॥ ५।२६।३० ॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ५।२६।३१ ॥
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ ५।२६।३२ ॥
पुण्योत्सवेभ्यस्समुत्था निकृत्तपुण्योत्सवेत्यर्थः । सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः ।
इयं लङ्कापुरी । नष्टभर्त्री सराक्षसी अर्थात् हतराक्षसा नष्टभ्रर्त्री अङ्गनेव पुण्योत्सवसमुत्था भविष्यतीत्यन्वयः ॥ ५।२६।३०३२ ॥
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ ५।२६।३३ ॥
यदीति । रामः रावणस्य निवेशने मां वर्तमानाम् जानीयाद्यदि तदा लङ्का निर्दग्धा भविष्यतीति पुर्वेण सम्बन्धः ॥ ५।२६।३३ ॥
अनेन तु नृशंसेन रावणेनाधमेन मे ।
समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ॥ ५।२६।३४ ॥
समयः द्वादशमासात्मकः सङ्केतः । तस्य कालः आगतः सन्निहितः मासद्वयमात्रपरिशेषादिति भावः ॥ ५।२६।३४ ॥
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ॥ ५।२६।३५ ॥
पापकारिणः ये नैर्ऋताः अधर्माद्धेतोः अकार्यं न जानन्ति, तैर्महोत्पातस्संभविष्यति ॥ ५।२६।३५ ॥
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥ ५।२६।३६ ॥
सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥ ५।२६।३७ ॥
एतदेव विवृणोति नैत इति ॥ ५।२६।३६३७ ॥
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।
क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ॥ ५।२६।३८ ॥
यदीति । पतिनेति नाभावः आर्षः ॥ ५।२६।३८ ॥
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।
जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥ ५।२६।३९ ॥
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ ५।२६।४० ॥
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥ ५।२६।४१ ॥
नाजानादिति । जीवतीं जीवन्तीम् । न न कुर्यातां कुर्यातामेव । तदाह वामनः “संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ” इति ॥ ५।२६।३९४१ ॥
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।
मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ ५।२६।४२ ॥
अथवेति । धर्मकामस्य तस्य कामानपेक्षिण इत्यर्थः । मया भार्यया को ऽर्थः । परमात्मनः उत्कृष्टस्वभावस्य ॥ ५।२६।४२ ॥
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ॥ ५।२६।४३ ॥
दृश्यमान इति । सौहृदं नास्त्यपश्यतः अदृश्यमाने प्रीतिर्न भवति । तस्माददृश्यायां मयि रामस्य किं प्रीतिर्नासीदित्यर्थः । एवमाशङ्कितं प्रतिषेधति नाशयन्तीति । कृतघ्नाः प्रथममुत्पन्नां प्रीतिं नाशयन्ति । नतु सामो नाशयिष्यति, मयि प्रीतिमिति शेषः ॥ ५।२६।४३ ॥
किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।
या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ॥ ५।२६।४४ ॥
किन्न्विति । न गुणाः दुष्कृतानि ॥ ५।२६।४४ ॥
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ॥ ५।२६।४५ ॥
श्रेय इति । मर्तुमिति भावार्थे तुमुन्, मरणमित्यर्थः । महात्मनः रामाद्विहीनायाः महात्मना रामेण हीनायाः । तृतीयार्थे प़ञ्चमी ॥ ५।२६।४५ ॥
अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ॥ ५।२६।४६ ॥
अथवेति । न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ॥ ५।२६।४६ ॥
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।
छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ ५।२६।४७ ॥
सादितौ हतौ ॥ ५।२६।४७ ॥
सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।
न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ॥ ५।२६।४८ ॥
वर्तति वर्तमाने ॥ ५।२६।४८ ॥
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥ ५।२६।४९ ॥
महात्मानः महाधैर्याः । त्यक्तकिल्बिषाः त्यक्तपापाः । जितात्मानः जितान्तःकरणाः । महाभागाः महाभाग्याः ॥ ४।२६।४९ ॥
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५।२६।५० ॥
प्रियान्न संभवेद्दुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः । अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयम् अधिकं दुःखम् । ताभ्यां प्रियाप्रियाभ्याम् । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः ॥ ५।२६।५० ॥
सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥ ५।२६।५१ ॥
इत्यार्षो श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः ॥ ५।२६ ॥
सा ऽहमिति । सा ऽहं तद्विलक्षणा अहम्, केवलप्रियपरेत्यर्थः । प्रियेण त्यक्ता अप्रियं प्राप्ता , प्राणांस्त्यक्ष्यामीत्यर्थः ॥ ५।२६।५१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षड्विंशः सर्गः ॥ ५।२६ ॥