तथा तासां वदन्तीनां परुषं दारुणं बहु ।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ ५।२५।१ ॥
तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ॥ ५।२५।१ ॥
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ ५।२५।२ ॥
एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ॥ ५।२५।२ ॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ५।२५।३ ॥
खादत भक्षयत ॥ ५।२५।३ ॥
सा राक्षसीमध्यगता सीता सुरसुतोपमा ।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ ५।२५।४ ॥
शर्म सुखम् ॥ ५।२५।४ ॥
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ ५।२५।५ ॥
कोकैः ईहामृगैः । “कोकस्त्वीहामृगो वृकः” इत्यमरः ॥ ५।२५।५ ॥
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ ५।२५।६ ॥
अशोकस्य हमुमदधिष्ठतशिंशुपासन्निहितस्य ॥ ५।२५।६ ॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ॥ ५।२५।७ ॥
अन्तम् अवधिम् । अधिगच्छति अध्यगच्छत् ॥ ५।२५।७ ॥
सा वेपमाना पतिता प्रवाते कदली यथा ।
राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ॥ ५।२५।८ ॥
राक्षसीनां राक्षसीभ्यः ॥ ५।२५।८ ॥
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ५।२५।९ ॥
सीतयेति व्यत्ययेन षष्ठ्यर्थे तृतीया । परिसर्पती परिसर्पन्ती । नुमभाव आर्षः ॥ ५।२५।९ ॥
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ ५।२५।१० ॥
दुःखार्ता राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरहार्ता ॥ ५।२५।१० ॥
रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च ।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ ५।२५।११ ॥
सुमित्रेत्यत्र सम्बुद्धावाप एकारादेशाभाव आर्षः ॥ ५।२५।११ ॥
लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः ।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ ५।२५।१२ ॥
लोकप्रवाद इत्यादि श्लोकद्वयमेकं वाक्यम् । अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इति करणं बोध्यम् ॥ ५।२५।१२ ॥
यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ ५।२५।१३ ॥
यत्र यतः ॥ ५।२५।१३ ॥
एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ ५।२५।१४ ॥
भर्तारं तमपश्यन्ती राक्षसीवशमागता ।
सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ ५।२५।१५ ॥
एषेति । पूर्णा, पदार्थैरिति शेषः ॥ ५।२५।१४१५ ॥
तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् ।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ ५।२५।१६ ॥
सर्वथा तेन हीनाया रामेण विदितात्मना ।
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ ५।२५।१७ ॥
मम धनं सर्वेषां स्वं भविष्यतीत्याह तमिति । तम् “बहवो नृपकल्याणगुणाः पुत्रस्य सन्तु ते” इति प्रसिद्धम् । आत्मगुणानुक्त्वा विग्रहगुणानाह पद्मदलपत्राक्षम् । दलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्वा दलतीति दलं गर्भपत्रम् । विस्पष्टार्थमेकार्थे शब्दद्वयं वा । सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ॥ ५।२५।१६१७ ॥
कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ ५।२५।१८ ॥
पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणम् अत्यन्तघोरमित्यर्थः ॥ ५।२५।१८ ॥
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ ५।२५।१९ ॥
रक्ष्यन्त्या रक्ष्यमामया ॥ ५।२५।१९ ॥
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ॥ ५।२५।२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ ५।२५ ॥
परवश्यतां भर्तृपरतन्त्रताम् । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्मच्छन्देन मदिच्छया ॥ ५।२५।२० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प़ञ्चविंशः सर्गः ॥ ५।२५ ॥