सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ ५।२२।१ ॥
सीताया इत्यादि ॥ ५।२२।१ ॥
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ ५।२२।२ ॥
सान्त्वयिता अनुनेताः ॥ ५।२२।२ ॥
सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।
द्रवतो ऽमार्गमासाद्य हयानिव सुसारथिः ॥ ५।२२।३ ॥
सन्नियच्छति निरुणद्धि । द्ववतः धावतः । अमार्गमिति च्छेदः ॥ ५।२२।३ ॥
वामः कामो मनुष्याणां यस्मिन् किल निबद्ध्यते ।
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ । ५।२२।४ ॥
वामः प्रतिकूलः । मनुष्याणां प्राणिनाम् । अनुक्रोशः कृपा । परिभवादिप्रदानेन मनुष्याणां प्रतिकूलः कामः यस्मिन् जने निबद्ध्यते तस्मिंस्त्वनुक्रोशः स्नेहश्च जायते किल ॥ ५।२२।४ ॥
एतस्मात्कारणान्न त्वां घातयामि वरानने ।
वधार्हामवमानार्हां मिथ्या प्रव्रजिते रताम् ॥ ५।२२।५ ॥
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् ।
तेषु तेषु वधो युक्तस्तव मैथिलिदारुणः ॥ ५।२२।६ ॥
मिथ्या प्रव्रजितं कपटेन वन्यवृत्तिभाजि रामे । रतां सक्ताम् ॥ ५।२२।५६ ॥
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ५।२२।७ ॥
क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां संयुक्तः ॥ ५।२२।७ ॥
द्वौ मासौ रक्षितव्यौ मे यो ऽवधिस्ते मया कृतः ।
ततः शयनमारोह त्वं वरवर्णिनि ॥ ५।२२।८ ॥
द्वौ मासाविति । ते मया यो ऽवधिः कृतः “मासान् द्वादश भामिनि” इत्यारण्यकाण्डोक्तो द्वादशमासात्मको ऽवधिः कल्पितः । अत्र द्वौ मासाववशिष्टौ । तौ द्वौ मासौ मे मया रक्षितव्यौ प्रतीक्षणीयौ । ततः तस्मात्कारणात् । मम शयानमारोहेत्यन्वयः ॥ ५।२२।८ ॥
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ ५।२२।९ ॥
तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।
देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ ५।२२।१० ॥
प्रातराशार्थं मासद्वयान्तर्गतरात्रिसमाप्त्यनन्तरं हिंसायां कालविलम्बं विना प्रातःकालिकाशनार्थमित्यर्थः । आरम्भते आलभन्ते । रलयोरभेदः । “आलम्भस्स्पर्शहिंसयोः"इत्यमरः । महानसे पाकशालायाम् ॥ ५।२२।९१० ॥
ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथा ऽपराः ।
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ५।२२।११ ॥
ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु भङ्गस्फुरणादयो ये विकारास्ते ओष्ठप्राकाराः, ओष्ठभङ्गादिरूपसंज्ञादिभिरित्यर्थः । एवं वक्त्रनेत्रैः वक्त्रनेत्रसंज्ञादिभिरित्यर्थः ॥ ५।२२।११ ॥
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।
उवाचात्महितं वाक्यं वृत्तशौष्डीर्यगर्वितम् ॥ ५।२२।१२ ॥
वृत्तशौण्डीर्यगर्वितं वृत्तं पातिव्रत्यं तस्या शौण्डीर्यं बलं तेन गर्वितमिति क्रियाविशेषणम् ॥ ५।२२।१२ ॥
नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः ।
निवारयति यो न त्वां कर्मणो ऽस्याद्विगर्हितात् ॥ ५।२२।१३ ॥
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसा ऽपि कः ॥ ५।२२।१४ ॥
नूनमिति । ते निःश्रेयसे स्थितः कश्चिज्जनः नास्ति । यः अस्मात् विगर्हितात् कर्मणस्त्वां निवारयति स चापि नास्ति नूनमिति योजना । तवेष्टप्रापकः अनिष्टनिवारकश्च नास्तीत्यर्थः ॥ ५।२२।१३१४ ॥
राक्षसाधमरामस्य भार्याममिततेजसः ।
उक्तवानसि यच्छापं क्व गतस्तस्य मोक्ष्यसे ॥ ५।२२।१५ ॥
तस्य मोक्ष्यसे तस्मान्मोक्ष्यसे ॥ ५।२२।१५ ॥
यथा दृप्तश्च मातङ्गः शशश्च सहितो वने ।
तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ॥ ५।२२।१६ ॥
यथा मातङ्गः शशश्च, सहितः युयुत्सादिना संगतः तथा ऽन्योन्यसङ्गतो रामस्त्वं च । अत्र रावणः स्वस्य मातङ्गसाम्यमुक्तमिति भ्राम्येदिति परिहरति तथेति । तत्र गज इव रामः । शश इव त्वम् ॥ ५।२२।१६ ॥
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।
चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ ५।२२।१७ ॥
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।
क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः ॥ ५।२२।१८ ॥
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।
कथं व्याहरतो मां तेन न जिह्वा व्यवशीर्यते ॥ ५।२२।१९ ॥
इक्ष्वाकुनाथं क्षिपन् मायामृगव्याजेन दूरं निस्सारयन् । इह स्वजनेषु न तावदुपगच्छसि । यद्युपगच्छसि तदा तत्प्रभावं वेत्स्यसीत्यर्थः ॥ ५।२२।१७१९ ॥
असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ॥ ५।२२।२० ॥
असन्देशादिति । रामस्य भर्तुः । असन्देशात् अपकारिषु शपेथा इति सन्देशाभावात् । तपसः पातिव्रत्यरूपस्य । कूर्मिं करोमि । उत्त्वविकरणप्रत्ययलोपावार्षौ । भस्मार्ह भस्मीकरणार्ह । तेजसा पातिव्रत्यप्रभावेन ॥ ५।२२।२० ॥
नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।
विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ ५।२२।२१ ॥
तस्य रामस्य तस्मात् रामात् । विधिः चौर्येणापहरणम् । विहितः, दैवेनेति शेषः ॥ ५।२२।२१ ॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।
अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ ५।२२।२२ ॥
बलैस्समुदितेन बलेन सर्वश्रेष्ठेनेत्यर्थः । अपोह्य रामं मृगच्छद्मना ऽपवाह्य ॥ ५।२२।२२ ॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ ५।२२।२३ ॥
विवृत्य विवर्त्य ॥ ५।२२।२३ ॥
नीलजीमूतसङ्काशो महाभुजशिरोधरः ।
सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः ॥ ५।२२।२४ ॥
सिंहस्येव बलगमने यस्यासौ सिंहसत्त्वगतिः । जिह्वाग्रं लोचने च दीप्तानि यस्य सो ऽयं दीप्तजिह्वाग्रलोचनः ॥ ५।२२।२४ ॥
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः ।
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ ५।२२।२५ ॥
कोपेन चलम् अग्रं यस्य तत् चलाग्रं च तत् मुकुटं च तेन प्रांशुः दीर्घः । चित्रमाल्यवत्त्वे ऽपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तम् । तप्ताङ्गदविभूषणः तप्तशब्देन तेजिष्ठत्वमुक्तम् ॥ ५।२२।२५ ॥
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः ।
अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥ ५।२२।२६ ॥
मेचकेन नीलेन । अमृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन ॥ ५।२२।२६ ॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।
शुशुभे ऽचलसङ्काशः श्रृङ्गाभ्यामिव मन्दरः ॥ ५।२२।२७ ॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ ५।२२।२८ ॥
ताभ्यां प्रसिद्धाभ्याम् ॥ ५।२२।२७२८ ॥
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् ।
श्मशानचैत्यप्रितिमो भूषितो ऽपि भयङ्करः ॥ ५।२२।२९ ॥
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।
उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ ५।२२।३० ॥
अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।
नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥ ५।२२।३१ ॥
अलङ्कृतत्वे कल्पकसाम्यम् । भयङ्करत्वे पुनश्चैत्यसाम्यम् । चैत्यं श्मशानवृक्षः, श्मशानमण्डपो वा । सीताया अत्यन्तभयङ्करत्वज्ञापनाय रावणवर्णनं कृतम् ॥ ५।२२।२९३१ ॥
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
सन्दिदेश ततः सर्वां राक्षसीर्घोरदर्शनाः ॥ ५।२२।३२ ॥
एकाक्षीमेककर्णां च कर्णप्रावराणां तथा ।
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ ५।२२।३३ ॥
हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् ।
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ५।२२।३४ ॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।
अतिमात्रास्यनेत्रं च दीर्घजिह्वामजिह्विकाम् ॥ ५।२२।३५ ॥
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥ ५।२२।३६ ॥
इत्युक्त्वेत्यादि । प्रधानाप्रधानभूते द्वे एकाक्ष्यौ । अतो न पुनरुक्तिः । अथवा अक्षम् इन्द्रियम्, एकाक्षीम् एकैकेन्द्रियाम् । श्रोत्रनासादावेकमात्रवतीमित्यर्थः ॥ ५।२२।३२३६ ॥
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ ५।२२।३७ ॥
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥
काममन्युपरीतात्मा जारकीं पर्यतर्जयत् ॥ ५।२२।३८ ॥
प्रतिलोमानुलोमैः प्रतिकूलानुकूलाचरणैः । सामदानादिभैदनैः सामदानमुख्यैर्भेदैः । प्रथमप्रयुक्तसामदानैरित्यर्थः । आवर्जयत वशीकुरुत ॥ ५।२२।३७३८ ॥
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ ५।२२।३९ ॥
मया क्रीड महाराज सीतया किं तवानया ।
विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥ ५।२२।४० ॥
उपगम्येति । धान्यमालिनी रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणम् । उत्तरत्र वानरान् प्रति हनुमद्वचने तथा वक्ष्यमाणत्वात् ॥ ५।२२।३९४० ॥
नूनमस्या महाराज न दिव्यान् भोगसत्तमान् ।
विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् ॥ ५।२२।४१ ॥
अकामां कामयानस्य शरीरमुपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ५।२२।४२ ॥
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।
प्रहसन् मेघसङ्काशो राक्षसः स न्यवर्तत ॥ ५।२२।४३ ॥
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ।
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ ५।२२।४४ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः ।
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ५।२२।४५ ॥
अस्यास्सीतायाः । अमरश्रेष्ठो ब्रह्मा । दिव्यान् भोगान्न विदधाति, अस्या दिव्यभोगे भाग्यं नास्तीत्यर्थः ॥ ५।२२।४१४५ ॥
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ।
विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ५।२२।४६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः ॥ ५।२२ ॥
सर्गार्थं संग्रहेण दर्शयति स इति ॥ ५।२२।४६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभुषणे श्रृङ्गारतिलके सुन्दरकाण्डे द्वाविंशः सर्गः ॥ ५।२२ ॥