तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ।
रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥ ५।१९।१ ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।
प्रावेपत वरारोहा प्रवाते कदली यथा ॥ ५।१९।२ ॥
आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ५।१९।३ ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ ५।१९।४ ॥
असंवृतायामासीनां धरण्यां संशितव्रताम् ।
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ ५।१९।५ ॥
तस्मिन्नित्यादिश्लोकद्वयमेकान्वयम् । ततः रावणागमनानन्तरम् । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसम्पन्नं रावणं ततो दृष्ट्वैव तत्र दूरदेश एव दृष्ट्वा प्रावेपतेति संबन्धः ॥ ५।१९।१५ ॥
मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ।
मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ ५।१९।६ ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः ।
सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ५।१९।७ ॥
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् ।
दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ ५।१९।८ ॥
मलमण्डनचित्राङ्गीं मलरूपमण्डनेन चित्राङ्गीम्, मलावृतामप्याश्चर्यावहदेहामित्यर्थः । मृणाली पङ्कदिग्धेवेत्यत्र येत्यध्याहार्यम् ॥ ५।१९।६८ ॥
वेष्टमानां तथा ऽ ऽविष्टां पन्नगेन्द्रवधूमिव ।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ५।१९।९ ॥
आविष्टां मणिमन्त्राद्यभिभूताम् । धूप्यमानां सन्तप्यमानाम् । धूमः केतुरिव धूमकेतुः , केतुना ग्रहेणेत्यर्थः । यद्वा ग्रहेण ग्राहकेण आच्छादकेनेति धूमकेतुर्विशिष्यते ॥ ५।१९।९ ॥
वृत्तशीलकुले जातामाचारवति धार्मिके ।
पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥ ५।१९।१० ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ५।१९।११ ॥
वुत्तेति । वृत्तं दृढं शीलं स्वाभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिके यज्ञादिधर्मप्रधाने एवंभूते कुले जाताम् । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नाम् । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थिताम् । कुमाराणामुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म । “वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः” इति स्मृतेः ॥ ५।१९।१०११ ॥
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।
पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ ५।१९।१२ ॥
सन्नां क्षीणाम् । श्रद्धामिव विमानिताम् अवमानितामित्यर्थः । अवमाने हि कृते अवमन्तरि श्रद्धा मन्दी भवति । पूजामिव परिक्षीणां स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां निष्फलाम् ॥ ५।१९।१२ ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ।
दीप्तामिव दिशं काले पूजामपहृतामिव ॥ ५।१९।१३ ॥
आयतीं धनलाभम् । विध्वस्तां मन्दीभूताम् । प्रतिहताम् अननुष्ठिताम् । दीप्तां दाहयुक्ताम् । काले उत्पातकाले । पूजामपहृतामिव । अत्र पूजाशब्देन पूजाद्रव्यमुच्यते ॥ ५।१९।१३ ॥
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ ५।१९।१४ ॥
विध्वस्तां हिमादिहताम् । तमोध्वस्तां तमस्संवृताम् । उपक्षीणां स्वल्पजलामित्यर्थः । ५।१९।१४ ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।
पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ ५।१९।१५ ॥
परामृष्टां, शूद्रादिभिरिति शेषः ॥ ५।१९।१५ ॥
उत्कृष्टापर्णकमलां वित्रासितविहङ्गमाम् ।
हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ ५।१९।१६ ॥
उत्कृष्टपर्णकमलाम् उद्धृतपत्रकमलाम् ॥ ५।१९।१६ ॥
पतिशौकातुरां शुष्कां नदीं विस्रावितामिव ।
परया मृजया हीनां कृष्णपक्षनिशामिव ॥ ५।१९।१७ ॥
विस्रावितां रोधोभङ्गादिना अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्तनाद्यङ्गशोधनेन ॥ ५।१९।१७ ॥
सुकुमारीं सुजाताङ्गी रत्नगर्भगृहोचिताम् ।
तप्यभानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ ५।१९।१८ ॥
सुजाताङ्गी सुन्दराङ्गीम् ॥ ५।१९।१८ ॥
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ।
निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ ५।१९।१९ ॥
एकया दीर्घया वेण्या सोभमानामयत्नतः ।
नीलया नीरदापाये वनराज्या महीमिव ॥ ५।१९।२० ॥
आलितां बद्धाम् ॥ ५।१९।१९२० ॥
उपवासेन शोकेन ध्यनेन च भयेन च ।
परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ ५।१९।२१ ॥
अल्पाहारां तोयमात्राहारामित्यर्थः । यद्वा अल्पाहारां मितभोजिनीमित्युत्तमस्त्रीलक्षणमुच्यते ॥ ५।१९।२१ ॥
आयाचमानां दःखार्तां प्राञ्जलिं देवतामिव ।
भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ ५।१९।२२ ॥
आयाचमानामिति । रघुमुख्यस्य कर्तुः दशग्रीवपराभवं भावेन मनसा आयाचमानां प्रार्थयन्तीमिव स्थिताम् ॥ ५।१९।२२ ॥
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायलोचनाम् ।
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ ५।१९।२३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंश सर्गः ॥ ५।१९ ॥
समीक्षमाणां रक्षकं समीक्षमाणाम् । सुपक्ष्मेति अन्ते ताम्रं मध्ये शुक्लमस्या लोचनमित्युच्यते ॥ ५।१९।२३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ ५।१९ ॥