०१८ अशोकवाटिकायां रावणागमनम्

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।

विचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ॥ ५।१८।१ ॥

तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । " यस्य च भावेन।" इत्यर्थे षष्ठी ॥ ५।१८।१ ॥

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।

शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ ५।१८।२ ॥

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ।

प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ५।१८।३ ॥

विबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान् ।

स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ५।१८।४ ॥

विरात्रे अपररात्रे । “अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः” इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तो ऽच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसाम् । ब्रह्मघोषान् वेदघोषान् ॥ ५।१८।२४ ॥

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।

न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५।१८।५ ॥

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।

तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ ५।१८।६ ॥

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।

सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ ५।१८।७ ॥

नियुक्तः प्रेरितः ॥ ५।१८।५७ ॥

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।

वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ ५।१८।८ ॥

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।

अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ ५।१८।९ ॥

वीथीः उद्यानवीथीः ॥ ५।१८।८९ ॥

अङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत् ।

महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ ५।१८।१० ॥

महेन्द्रं देवगन्धर्वयोषित इव व्रजन्तं तम् अङ्गनाशतमात्रम् अनुव्रजत् अन्वव्रजत् ॥ ५।१८।१० ॥

दीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः ।

वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ५।१८।११ ॥

तालवृन्तानि व्यजनानि ॥ ५।१८।११ ॥

काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः ।

मण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ॥ ५।१८।१२ ॥

भृङ्गारैः कनकालुकाभिः । “भृङ्गारः कनकालुका " इत्यमरः । मण्डलाग्रान् असिविशेषान् । " मण्डलाग्रो नतार्थकः” इति वैजयन्ती । बृसीम् आस्तरणम् । गृह्य गृहीत्वा ॥ ५।१८।१२ ॥

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना ।

दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ ५।१८।१३ ॥

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।

सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ ५।१८।१४ ॥

निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।

अनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ॥ ५।१८।१५ ॥

काचिदिति । पानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णाम् । “पूरणगुण०” इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । स्थालीं पात्रीम् ॥ ५।१८।१३१५ ॥

व्याविद्धहारकेयूराः समामृदितवर्णकाः ।

समागलितकेशान्ताः सस्वेदवदनास्तथा ॥ ५।१८।१६ ॥

घूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः ।

स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥ ५।१८।१७ ॥

प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ।

बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ ५।१८।१८ ॥

व्याविद्धेति । व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदितवर्णकाः सम्मृष्टानुलेपनाः । “अङ्गरागः समालम्भो वर्णकश्च विलेपनम् ।” इति निघण्टुः ॥ ५।१८।१६१८ ॥

स च कामपराधीनाः पतिस्तासां महाबलः ।

सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ ५।१८।१९ ॥

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ।

शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ ५।१८।२० ॥

मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ॥ ५।१८।१९२० ॥

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।

द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ ५।१८।२१ ॥

तं चेत्यादि । द्वारदेशम् अशोकवनद्वारदेशम् ॥ ५।१८।२१ ॥

दीपिकाभिरनेकाभिः समन्तादवभासितम् ।

गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ ५।१८।२२ ॥

गन्धतैलं गन्धवासिततैलम् ॥ ५।१८।२२ ॥

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।

समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ ५।१८।२३ ॥

समक्षं प्रत्यक्षम् । अपविद्धशरासनम् अधृतशरासनम् ॥ ५।१८।२३ ॥

मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ।

सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ ५।१८।२४ ॥

मथितामृतफेनाभं मथितं तक्रम् अमृतं धारोष्णं तयोर्यत् फेनं तदाभम् । " निरम्बु बोलं मथितं धारोष्णं त्वमृतं पयः" इत्युभयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितम् अङ्गदे सक्तं वस्त्रं सलीलं यथा भवति तथा अनुकर्षन्तमित्यन्वयः ॥ ५।१८।२४ ॥

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।

समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥ ५।१८।२५ ॥

अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।

रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ ५।१८।२६ ॥

तमिति । पत्रविटपे पत्रवति विटपे । लीनः छन्नः । पत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । इवशब्दो वाक्यालङ्कारे । यद्वा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । तं निध्यातुं द्रष्टुमुपचक्रमे । “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्” इत्यमरः ॥ ४।१८।२५२६ ॥

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।

तन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ॥ ५।१८।२७ ॥

प्रमदावनम् अन्तःपुरोद्यानम् ॥ ५।१८।२७ ॥

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।

तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ ५।१८।२८ ॥

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।

तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ ५।१८।२९ ॥

क्षीब इति । क्षीबः मत्तः । शङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥ ५।१८।२८२९ ॥

रावणो ऽयं महाबाहुरिति संचिन्त्य वानरः ।

अवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥ ५।१८।३० ॥

अवप्लुतः अवरुढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानादधःशाखां समाश्रित इत्यर्थः ॥ ५।१८।३० ॥

स तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा ।

पत्रगुह्यान्तरे सक्तो हनुमान् संवृतो ऽभवत् ॥ ५।१८।३१ ॥

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।

दुदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ ५।१८।३२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः ॥ ५।१८ ॥

सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य । तेजसा निर्धूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतो ऽभवत् गूढो ऽभवत् ॥ ५।१८।३१३२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डाव्याखयाने अष्टादशः सर्गः ॥ ५।१८ ॥