०१७ हनुमता राक्षस्यावृतसीतादर्शनम्

ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् ।

प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ ५।१७।१ ॥

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।

चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ ५।१७।२ ॥

तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः ॥ ५।१७।१२ ॥

स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ।

शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ५।१७।३ ॥

स इति । शोकभारैर्न्यस्तामिव आक्रान्तामिव स्थिताम् । अत एव भारैर्न्यस्ता नावमिव स्थिताम् ॥ ५।१७।३ ॥

दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः ।

स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ५।१७।४ ॥

एकाक्षीमेककर्णां च कर्णप्रावराणां तथा ।

अकर्णां शङ्कुकर्णां च मस्तकीच्छ्वासनासिकाम् ॥ ५।१७।५ ॥

अतिकायोत्तमाङ्गीं च तनुदार्घशिरोधराम् ।

ध्वस्तकेशीं तथा ऽकेशीं केशकम्बलधारिणीम् ॥ ५।१७।६ ॥

दिदृक्षमाण इत्यादि । कर्णौ प्रावरणे शिरस आच्छादकौ यस्याः सा कर्णप्रावरणा ताम् । शङ्कुवत्कर्णौ यस्यास्तां शङ्कुकर्णाम् । मस्तकोच्छ्वासनासिकाम् ऊर्ध्वमुखनासिकामित्यर्थः ॥ ५।१७।४६ ॥

लम्बकर्णललाटां च लम्बोदरपयोधराम् ।

लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ ५।१७।७ ॥

अतिकायोत्तमाङ्गीम् । अत्रातिकायशब्देन महत्त्वमुच्यते । महाशिरस्कामित्यर्थः । ध्वस्तकेशीं स्वल्पकेशीम् । अकेशीम् अनुत्पन्नकेशीम् । केशकम्बलधारिणीं कम्बलरूपकेशधारिणीम् । लम्बे कर्णललाटे यस्यास्सा लम्बकर्णललाटा ताम् ॥ ५।१७।७ ॥

ह्रस्वदीर्घां तथा कुब्जां विकटां वामनां तथा ।

करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ५।१७।८ ॥

ह्रस्वदीर्घाम् अधःकाये ऊर्ध्वकाये च क्वचित् ह्रस्वां क्वचिद्दीर्घामित्यर्थः । कुब्जां स्थगुमतीम् । विकटां स्थूलजङ्घाम् । करालां दन्तुराम् । " करालो दन्तुरे तुङ्गे" इत्यमरः । भुग्नवक्त्रां निम्नवक्त्राम् । विकृताननां नासिकोष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददर्शेत्यनेनान्वयः । । ४।१७।८ ॥

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।

कालायसमहाशूलकृटमुद्गरधारिणीः ॥ ५।१७।९ ॥

विकृता इत्यादेरुत्तरेण ददर्शेत्यनेनान्वयः । एता एकाक्ष्यादि राक्षसीभ्यो ऽन्याः । विकृताः विकृतवेषाः ॥ ४।१७।९ ॥

वराहमृगशार्दूलमहिषाजशिवामुखीः ।

गजोष्ट्रहयपादीश्च निखातशिरसो ऽपराः ॥ ५।१७।१० ॥

निखातशिरसः गात्रान्तर्वर्तिशिरसः ॥ ५।१७।१० ॥

एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः ।

गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथा ऽपराः ॥ ५।१७।११ ॥

अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ।

गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः ॥ ५।१७।१२ ॥

हरिकर्णीः कपिकर्णीः ॥ ५।१७।१११२ ॥

हस्तिपादा महापादा गोपादाः पादचूडिकाः ।

अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ ५।१७।१३ ॥

अतिमात्रास्यनेत्रश्च दीर्घजिह्वानखास्तथा ।

अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ ५।१७।१४ ॥

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।

शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ ५।१७।१५ ॥

पादे चूडिका यासां ताः पादचूडिकाः । “शिखा चूडा केशपाशी " इत्यमरः ॥ ५।१७।१३१५ ॥

कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ।

पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ ५।१७।१६ ॥

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।

ता ददर्श कपिश्रेष्ठो सोमहर्षणदर्शनाः ।

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ ५।१७।१७ ॥

राक्षसीर्विकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थम् ॥ ५।१७।१६१७ ॥

तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ।

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम् ॥ ५।१७।१८ ॥

निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम् ॥ ५।१७।१९ ॥

लक्ष्मीवान् सीतादर्शनजनितशोभायुक्तः ॥ ५।१७।१८१९ ॥

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।

चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ ५।१७।२० ॥

च्युतां स्थानाच्चलिताम् । चारित्रव्यपदेशाढ्यां पतिव्रताधर्माचरणख्यातिसम्पन्नाम् । भर्तृदर्शनेन दुर्गतां दरिद्राम्, भर्तृदर्शनरहितामित्यर्थः ॥ ५।१७।२० ॥

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम् ।

राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ ५।१७।२१ ॥

भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहमात्रवाचि ॥ ५।१७।२१ ॥

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।

चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ।

क्लुष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । ॥ ५।१७।२२ ॥

पयोदान्ते वर्षान्ते । चन्द्ररेखायाः स्पष्टास्पष्टत्वद्योतनायेदं विशेषणम् । असंस्पर्शात् उद्वर्तनादिसंस्कारराहित्यात् । अयुक्ताम् अनारोपिततन्त्रीम् । वल्लकीं वीणाम् ॥ ५।१७।२२ ॥

सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥ ५।१७।२३ ॥

अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।

ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ४।१७।२४ ॥

सीतामित्यादिपरशेषः । राक्षसीवशे अयुक्ताम् अनवस्थिताम्, तद्वचनान्यश्रृण्वन्तीमित्यर्थः ॥ ५।१७।२३२४ ॥

ददर्श हनुमान् देवीं लतां कुसुमितामिव ।

सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता ।

मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ ५।१७।२५ ॥

लतां कुसुमितामिव तथा दर्शनीयामित्यर्थः ॥ ५।१७।२५ ॥

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ ५।१७।२६ ॥

संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ।

तां देवीं दीनवदनामदीनां भर्तृतेजसा ।

रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ ५।१७।२७ ॥

मलिनेनेत्यादिश्लोकद्वमेकं वाक्यम् ॥ ५।१७।२६२७ ॥

तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ॥ ।१७।२८ ॥

मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ।

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ॥ ५।१७।२९ ॥

ता क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ ५।१७।३० ॥

तामित्यादिश्लोकत्रयमेकं वाक्यम् । क्षमां क्षमामिव स्थिताम् । निगीर्याध्यवसानादभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्यनयोर्विशेषणविशेष्यभेदान्न पौनरुक्त्यम् । दूरप्रयुक्तस्यानुस्मरणार्थं वा पुनरुक्तिः ॥ ५।१७।२८३० ॥

हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।

मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ५।१७।३१ ॥

हर्षजानीति । राघवं नमश्चक्रे । उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ॥ ५।१७।३१ ॥

नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ।

सीतादर्शनसंहृष्टो हनुमान् संवृतो ऽभवत् ॥ ५।१७।३२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ॥ ५।१७ ॥

नमस्कृत्वेति । संवृतः राक्षस्यदर्शनाय शिंशुपापर्णैर्गूढो ऽभूत् ॥ ५।१७।३२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥ ५।१७ ॥