प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः ।
गुणाभिरामं रामं च पुनश्चिन्तापरो ऽभवत् ॥ ५।१६।१ ॥
प्रशस्य त्वित्यादि । प्रशस्तव्यां प्रशंसितव्याम् । रामं सीतां च प्रशस्येति । अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ ५।१६।१ ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ॥ ५।१६।२ ॥
स इति । सीतामाश्रित्य सीतां विषयीकृत्य ॥ ५।१६।२ ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ।
यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ॥ ५।१६।३ ॥
मान्येति । गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरतिक्रमः कालो दुरतिक्रम एवेत्ययमर्थः सिद्धो भवतीत्यर्थः । हिशब्धो ऽवधारणे अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं प्राप्तं तदा कालो दुरतिक्रम एवेति भावः ॥ ५।१६।३ ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ५।१६।४ ॥ ।
रामस्येति । व्यवसायज्ञा स्वयत्नं विहाय तद्व्यवसायमेव प्रेक्षमाणा एतद्व्रतं मम । अप्यहं जीवितं जह्याम्ऽ इत्येवं रामव्यवसायं जानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः रामे मायामृगानुसारिण्यपि मारीचो ऽयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थं क्षुभ्यते अत्यर्थमिति क्षोभाभावविशेषणम्, क्षोभविशेषणत्त्वे यत्किंचित्क्षोभः प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्याल्लभ्यवती । गङ्गेव जलदागमे, क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यते तथेत्यर्थः ॥ ५।१६।४ ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवो ऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५।१६।५ ॥
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् ।
जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ५।१६।६ ॥
तुल्येति । तुल्यशीलवयोवृत्ताम्, शीलं स्वभावः, “अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रितष्ठितम्” इति प्रक्रियया तुल्यस्वभावाम् । तुल्यवयस्काम् षोडशवार्षिकस्य द्वादशवार्षिकी तुल्या अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च । अत एव विष्णुः– “वर्षैरेकगुणां भार्यामुद्वहेत् त्रिगुणो वरः । द्व्यष्टवर्षो ऽष्टवर्षां वा वयोमात्रावरा च या ॥ " इति। तुल्यवृत्ताम् “दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्” इति रामवृत्तम्, “पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम। कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ " इत्युक्तवत्यास्सीताया वृत्तेन तुल्यम् । तुल्यशब्दो ऽनुरूपपरः । रामानुरूपशीलवयश्चारित्रामित्यर्थः । तुल्याभिजनलक्षणाम् अभिजनः कुलम्, लक्षणं सामुद्रिकं, सार्वभौमलक्षणवतो भार्याया यैस्सामुद्रिकलक्षणैर्भाव्यं तैर्युक्तामित्यर्थः । एवंविधत्वाद्राघवो वैदेहीमर्हति, वैदेही राघवमर्हति । लोके सौन्दर्यादिमतः सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादिमत्या न सौन्दर्यादिसर्ववान् । अनयोस्तु सर्वं सम्पन्नमिति विस्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रामापेक्षया सीताया नयनसौन्दर्यमधिकमित्युच्यते । अत एव रामो वक्ष्यति “न जीवेयं क्षणमपि विना तामसितेक्षणाम् ।” इति ॥ ५।१६।५६ ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः ।
रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ५।१६।७ ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः ।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ५।१६।८ ॥
चतुर्दश सहस्रीणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ५।१६।९ ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः ।
दूषणश्च महातेजा रामेण विदितात्मना ॥ ५।१६।१० ॥
अस्या हेतोरिति । “सर्वनाम्नस्तृतीया च " इति षष्ठी । अन्या हेतुनेत्यर्थः ॥ ५।१६।७१० ॥
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् ।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम् ॥ ५।१६।११ ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः ।
अस्या होतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ ५।१६।१२ ॥
ऐश्वर्यमिति । अस्या निमित्ते “निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्” इति षष्ठी सप्तम्यर्थे । अस्यां निमित्ते सत्यामित्यर्थः ॥ ५।१६।१११२ ॥
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्त् ।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ ५।१६।१३ ॥
परिवर्तयेत् अधरोत्तरां कुर्यात् । अस्याः कृते एतदर्थम् । जगच्चापि, न केवलं मेदिनीं सर्वलोकानपि परिवर्तयेदित्यर्थः ॥ ५।१६।१३ ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥ ५।१६।१४ ॥
राज्यं वेति । राज्यमुत्कृष्टं वा सीता उत्कृष्टा वा, इति विचार्यमाणा इति शेषः । कलां लेशम् ॥ ५।१६।१४ ॥
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः ।
सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ ५।१६।१५ ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ ४।१६।१६ ॥
भर्तृदृढव्रता भर्तिरि दृढव्रता । केदारपांसुभिः यज्ञक्षेत्रपांसुभिः ॥ ४।१६।१५।१६ ॥
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ ५।१६।१७ ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।
इयं सा दयिता भार्या राक्षसीवशमागता ॥ ५।१६।१८ ॥
आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ ५।१६।१७१८ ॥
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता ।
अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ ५।१६।१९ ॥
सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता ।
या परां भजते प्रीतिं वने ऽपि भवने यथा ॥ ५।१६।२० ॥
सर्वान् भोगान्, भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनेव त्यक्त्वा । अयं च परित्यागो न स्ववशेनेत्याह भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणाभावे ऽपि गन्तव्यदेशीयदुःखं वा किं स्मरति? नेत्याह अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसम्भावनेति भावः । प्रविष्टा निर्जनं वनम्, भोगस्यैकान्तस्थलमिति ह्यस्या हृदि लग्नमिति भावः ॥ ५।१६।१९२० ॥
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ।
सहते यातनामेतामनर्थानामभागिनी ॥ ५।१६।२१ ॥
यातनां तीव्रवेदनाम् । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥ ५।१६।२१ ॥
इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः ।
रावणेन प्रमथितां प्रपामिव पिपासितः ॥ ५।१६।२२ ॥
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव नेदिनीम् ॥ ५।१६।२३ ॥
प्रपां पानीयशालिकाम् । “प्रपा पानीयशालिका " इत्यमरः ॥ ५।१६।२२२३ ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च ।
धारयत्यात्मनो देहं तत्समागमकांक्षिणी ॥ ५।१६।२४ ॥
काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥ ५।१६।२४ ॥
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् ।
एकस्थहृदया नूनं राममेवानुपश्यति ॥ ५।१६।२५ ॥
भर्ता नाम परं नार्या भूषणं भूषणादपि ।
एषा तु रहिता तेन भूषणार्हा न शोभते ॥ ५।१६।२६ ॥
दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ ५।१६।२७ ॥
नैषा पश्यति राक्षस्यः राक्षसीर्न पश्यति । नेमान् पुष्पफलद्रुमान्, रामविरहक्लेशातिशयेन राक्षसीदर्शनवत् सुपुष्पफलवतां द्रुमाणमपि दर्शनमस्याः असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति ध्यायतीत्यर्थः । रामागमनसंभावनावती दिशो ऽबलोकयतीति वा ऽर्थः । यद्वा निरन्तरेण रामानुभवेन परिसरवर्ती को ऽपि पदार्थो न दृष्टिपथं गच्छतीत्यर्थः ॥ ५।१६।२५२७ ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ ५।१६।२८ ॥
क्षितिक्षमापुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् ।
सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले ॥ ५।१६।२९ ॥
इमामिति । असित केशान्तः यस्यास्ताम् । केशानामग्रे नैल्यं स्त्रीणां दुर्लभम् । अतस्तदेवाह असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीम् । शतपत्रनिभेक्षणं यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयम् । कमलपत्राक्षस्यापि व्यामोहदायिनीम् । सुखार्हां रामोत्सङ्गे स्थातुमर्हाम् । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः, शाखामृगस्य ममापि मनो व्यथितम्, किमुत परमदयालो रामस्येति भावः । शोकहर्षयोरपदस्य ममापि मनो व्यथितम् किंपुनः कामिन इति वा ॥ ५।१६।२८२९ ॥
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया ऽतिपीड्यामाना ।
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ ५।१६।३० ॥
हिमहतेति । हिमहतेति विशेषणेन नलिन्याः पूर्वं बहुकालशोभितत्वं सिद्धम्, तद्वन्नष्टशोभा द्वादशवर्षं निष्प्रतिबन्धं भोगान् भुञ्जनाया आगन्तुको हि विश्लेषः तेन हि नष्टशोभेत्युक्तम् । व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये नागत्य निवृत्तः व्यसनमेव नैरन्तर्येण वृत्तम् । अतिपीड्यमाना अतिक्रम्य पीड्यमाना, आश्रयाननुरूपं व्यसनमनुभवन्तीत्यर्थः । सहचररहितेव चक्रवाकी लाभकालमवगम्य दुःखं सोढुमसमर्था । चक्रवाकीसाम्येनायमर्थो लभ्यते सा हि रात्रिविरामकालं प्रबुध्य दुःखं सोढुमदक्षेति प्रसिद्धम् । जनकसुता एवं व्यसनं भविष्यतीति ज्ञात्वा न संवर्धिता, केवलं सुखसंवर्धितेत्यर्थः । कृपणां दशां प्रपन्ना । पूर्वोक्तनलिन्यादिकं नोपमानं भवितुमर्हति । किञ्चिदुक्तिमात्रम् । वाङ्मनसा ऽपरिच्छेद्यां दुर्दशां प्राप्तेत्यर्थः ॥ ५।१६।३० ॥
अस्या हि पुष्पवनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः ।
हिमव्यपायेन च मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ ५।१६।३१ ॥
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः ।
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरवस्वी ॥ ५।१६।३२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षोडशः सर्गः ॥ ५।१६ ॥
हिमव्यपायेनवसन्तेन । नैकसहस्ररश्मिरभ्युत्थितः । मन्दरश्मिः सूर्योपेक्षया मन्दकरः, चन्द्र इति यावत् । शोकं जनयतीति वचनविपरिणामेन सम्बन्धः ॥ ५।१६।३१३२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षोडश सर्गः ॥ ५।१६ ॥