स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ ५।१५।१ ॥
सन्तानकलताभिश्च पादपैरुशोभिताम् ।
दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ ५।१५।२ ॥
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम् । ४।१५।३ ॥
स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः । मैथिलीं मार्गमाणः मैथिलीमार्गणाद्धेतोः । “लक्षणहेत्वोः क्रियायाः"इति शानच् । वीक्षमाणः विविधं चक्षुर्विक्षपन् महीं चावेक्षमाणः सर्वां ताम् अशोकवनिकाम् अन्ववैक्षतेत्यन्वयः ॥ ५।१५।१३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ५।१५।४ ॥
बह्वासनैः कुथैः आस्तरणैश्चोपेताम् । भूमिगृहाणि बिलगृहाणि ॥ ५।१५।४ ॥
सर्वर्तुकुसुमैः रम्यां फलवद्भिश्च पादपैः ।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५।१५।५ ॥
सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभाम् उद्यत्सूर्यप्रभाम् ॥ ५।१५।५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ५।१५।६ ॥
विहगैः निष्पत्रशाखां क्रियमाणामिव स्थिताम् । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥ ५।१५।६ ॥
विनिष्पितद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।
आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ ५।१५।७ ॥
पुष्पावतंसकैः चञ्चुपुटलग्नपुष्पालङ्कृतैरित्यर्थः । आमूलेति । आमूलं पुष्पैर्निचितैः । पुन्नागादौ तथा दृष्टम् ॥ ५।१५।७ ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ५।१५।८ ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।
पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥ ५।१५।९ ॥
शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ ५।१५।१० ॥
पुष्पभारः पुष्पसमूहः स एवातिभारो येषां तैः । अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षितां समुदैक्षतेति पर्वेणान्वयः ॥ ५।१५।८१० ॥
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ।
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ॥ ५।१५।११ ॥
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ।
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ ५।१५।१२ ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ।
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ॥ ५।१५।१३ ॥
अनेकग्रन्धप्रवहं पुण्यगन्धं मनोरमम् ।
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ ५।१५।१४ ॥
पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति नन्दनमित्यादिना श्लोकचतुष्टयेन । उद्यानम् अशोकवनम् । अत्र ददर्शेत्यपकृष्यते । नन्दनम् इन्द्रक्रीडावनम् । विविधोद्यानं विविधवृक्षषण्डम् । चैत्ररथं कुबेरक्रीडावनम् । नन्दनमतिवृत्तमिव अतिक्रम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः । आकाशसाम्ये साधारणधर्ममाह पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ ५।१५।१११४ ॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः ।
स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ॥ ५।१५।१५ ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ।
प्रवालकृतसोपानं तप्तकाञ्जनवेदिकम् ॥ ५।१५।१६ ॥
अशोकवनिकायामित्यादि । चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादम् ॥ ५।१५।१५१६ ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ।
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ ५।१५।१७ ॥
प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ ५।१५।१७ ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ॥ ५।१५।१८ ॥
मलिनसंवीतां मलिनवस्त्रेणावृताम्, मलिनैरङ्गैः संवीतां वा ॥ ५।१५।१८ ॥
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ।
मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥ ५।१५।१९ ॥
शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितम् । मन्दं प्रख्यायमानेन इदं तदिति कथ़ञ्चित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षिताम् ॥ ५।१५।१९ ॥
पिनद्धां धूमजालेन शिखामिव विभावसोः ।
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ ५।१५।२० ॥
पिनद्धामिति मलिनसंवीतत्वे उपमा । पिनद्धां बद्धाम् । उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः ॥ ५।१५।२० ॥
सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ।
व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ॥ ५।१५।२१ ॥
सपङ्कां भूमेराविर्भवन्तीमिव स्थिताम् । अनलङ्कारां पङ्कं निवर्त्य अलङ्कुर्वतो ऽसन्निधानादलङ्काररहिताम् । रामागमने ऽप्ययमाश्रयो नोत्सादयितुमर्हतीत्येवं मन्यमानाम् । विपद्मामिव पद्मिनीं पद्मरहितां सरसीमिव स्थिताम् ॥ ४।१५।२१ ॥
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ।
अश्रुपर्णमुखीं दीनां कृशामनशनेन च ॥ ५।१५।२२ ॥
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ।
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ॥ ५।१५।२३ ॥
ग्रहेण क्रूरग्रहेण । द्वितीय इवशब्दो वाक्यालङ्कारे । अश्र्विति । कृशां दीनामिति पुनःपुनरुक्तिः कार्श्यदैन्ययोरतिशयप्रदर्शनाय । अत्र उपवासकृशां कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपायसाशनवृत्तान्तः कल्पित इति तत्रैवोक्तम् ॥ ५।१५।२२,२३ ॥
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ।
नीलनागाभया वेण्या जघनं गतयैकया ॥ ५।१५।२४ ॥
नीलनागाभया कृष्णसर्पतुल्यया ॥ ५।१५।२४ ॥
नीलया नीरदापाये वनराज्या महीमिव ।
सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम् ॥ ५।१५।२५ ॥
नीरदापाये शरदि ॥ ५।१५।२५ ॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ ५।१५।२६ ॥
उपपादिभिः उपपादनशीलैः । मन्दं प्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपादिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ ५।१५।२६ ॥
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ।
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ ५।१५।२७ ॥
एवं लिङ्गैः सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह ह्रियमाणेति । इति तर्कयामासेति शेषः ॥ ५।१५।२७ ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ॥ ५।१५।२८ ॥
पूर्णचन्द्राननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्तमेकं वाक्यम् । सुभ्रूं सुभ्रुवम् । उवङ्भाव आर्षः । कुर्वन्तीमिति । दशमासान् स्नानेन विना मलिनापि प्रभया दिशः वितिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः ॥ ५।१५।२८ ॥
तां नीलकेशीं बिम्बोष्ठीं सुमघ्यां सुप्रतिष्ठिताम् ।
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ ५।१५।२९ ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ।
भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ ५।१५।३० ॥
सुप्रतिष्ठितां सुप्रतिष्ठितपादतलाम् ॥ ४।१५।२९,३० ॥
निश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ।
शोकजालेन महता विततेन न राजतीम् ॥ ५।१५।३१ ॥
न राजतीं न राजन्तीम् । तां प्रसिद्धाम् ॥ ४।१५।३१ ॥
संसक्तां धूमजालेन शिखामिव विभावसोः ।
तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ॥ ५।१५।३२ ॥
स्मृतिं मन्वाद्युक्तिम् । सन्दिग्धां सन्दिग्धार्थाम् ॥ ऋद्धिं सम्पदम् । निपतितां क्षणाम् ॥ ५।१५।३२ ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव ।
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥ ५।१५।३३ ॥
विहताम् अविश्वासबहुलाम् । प्रतिहताम् अलब्धकार्याम् । सोपसर्गां सविघ्नाम् । सकलुषां सकालुष्याम् । भावप्रधानो निर्देशः ॥ ५।१४।३३ ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ।
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ॥ ५।१५।३४ ॥
अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ।
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥ ५।१५।३५ ॥
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनःपुनः ॥ ५।१५।३६ ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ ५।१५।३७ ॥
अभूतेन असत्येन । रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथिताम् ॥ ५।१५।३४३७ ॥
तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ५।१५।३८ ॥
पुनः शीताशब्दो व्यवहितानुस्मरणार्थः । आम्नायानां वेदानाम् । अयोगेन असम्बन्धेन । प्रशिथिलाम् अप्राप्तप्रतिष्ठाम् । विद्यां वेदबाह्यविद्याम् । यद्वा आम्नायानाम् अभ्यासानामभावेन प्रशिथिलाम् अस्थिरपदां विद्यामिव सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः सन्दिदिहे इत्यन्वयः । कार्श्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ५।१५।३८ ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ५।१५।३९ ॥
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ ५।१५।४० ॥
दुःखेनेति । संस्कारः शब्दव्युत्पत्तिः तेन हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिषितार्थं वक्तुमशक्नुवन्तीमविवक्षितमर्थं बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरं गतां व्युत्पत्त्यनन्तरं स्वार्थं प्रतिपादयन्तीमिव स्थितामित्यर्थः ॥ ५।१५।३९४० ॥
वैदेह्या यानि चाङ्गेषु तदा रामो ऽन्वकीर्तयत् ।
तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥ ५।१५।४१ ॥
वैदेह्या इति । शाखायां शोभन्त इति शाखाशोभीनि । भर्तृविरहकाले भूषणधारणस्यानुचितत्वत् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ॥ ५।१५।४१ ॥
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ।
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ॥ ५।१५।४२ ॥
कर्णवेष्टौ कुण्डले । " कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम्” इति सज्जनः । श्वदंष्ट्रः त्रिकर्णकाख्यः पुष्पाकारः कर्णपार्श्वभूषणविशेषः । “त्रिकर्णकः श्वदंष्ट्रश्च” इत्यभिधानरत्नमाला । हस्तेषु हस्तावयवेषु । श्यामानि विरहतापौष्ण्यवशाच्छ्यामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् संस्थानवन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ॥ ५।१५।४२ ॥
तान्येवैतानि मन्ये ऽहं यानि रामो ऽन्वकीर्तयत् ॥ ५।१५।४३ ॥
तान्येवेत्यर्धमेकं वाक्यम् ॥ ५।१५।४३ ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ५।१५।४४ ॥
तत्र ऋश्यमूके यान्यवहीनानि पतितानि तान्यहं नोपलक्षये । अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि तानीमानि तत्तुल्यत्वात् ॥ ५।१५।४४ ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ ४।१५।४५ ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले ।
अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ४।१६।४६ ॥
प्लवङ्गमैः सुग्रीवादिप्लवङ्गमैः । यदुत्तरीयं दृष्टं यानि द़ष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगासक्तमित्यनेन पतनदशायामुत्तरीयाग्रं वृक्षे किञ्चित्सक्तमिति द्योत्यते ॥ ५।१५।४५४६ ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।
तथापि नूनं तद्वर्णं तथा श्राद्यथेतरत् ॥ ५।१५।४७ ॥
इदमिति । इतरत् उत्सृष्टम् तदुत्तरीयं यथा यादृशवर्णयुक्तं यथा श्रीमत् इदम् इदानीं धार्यमाणं तद्वर्णं तथा श्रीमत् नूनमिति योजना ॥ ५।१५।४७ ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।
प्रनष्टापि सती या ऽस्य मनसो न प्रणश्यति ॥ ५।१५।४८ ॥
इयमिति । या रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति । सदा मनसा दृष्टा भवतीत्यर्तः । सा कनकवर्णाङ्गी इयम् । मया परिदृश्यमानेत्यर्थः ॥ ५।१५।४८ ॥
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ५।१५।४९ ॥
रामः कारुण्यादिभिश्चतुर्भिः यत्कृते परितप्यते सेयम् ॥ ५।१५।४९ ॥
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ५।१५।५० ॥
कारुण्यादीनां परितापहेतुत्वं विभज्य दर्शयति स्त्रीति । आपत्काले स्त्रियो रक्षणीयाः, तन्न कृतमिति कारुण्यात्परितप्यते । आनृशंस्यमक्रूरत्वम् । आश्रिसंरक्षणैकस्वभावत्वमिति यावत् । तस्मात् आश्रिता न रक्षितेति परितप्यते । " अर्धो वा एष आत्मनो यत्पत्नी" इत्युक्तरीत्या आत्मार्धभूता पत्नी नष्टेति शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥ ५।१५।५० ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।
रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ ५।१५।५१ ॥
अथानयोरन्योन्याभिरूप्यानुगुण्यमाह अस्या इति । अस्याः सीतायाः रूपं शरीरम् अङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेव रामस्यापि रूपम् अङ्गप्रत्यङ्गसौष्ठवं च । तथा रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेवास्यारूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेषः ॥ ५।१५।५१ ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५।१५।५२ ॥
तथा ऽनोयरन्योन्यस्यानुरागमाह अस्या इति । अस्या देव्याः मनस्तस्मिन् रामे प्रतिष्ठितम्, तेन हेतुना इयं मुहूर्तमपि जीवति । तस्य च मनो ऽस्यां प्रतिष्ठितम्, तेन कारणेन स मुहूर्तमपि जीवति । तयोरन्योन्यं मनोनिवेशनाभावे मुहूर्तजीवनमपि न घटत इति भावः ॥ ५।१५।५२ ॥
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५।१५।५३ ॥
माल्यवति शैले रामस्य सीताविरहक्लेशातिशयं निशाम्य हन्त वसिष्ठशिष्यः कस्याश्चित् स्त्रियाः कृते कथमेवमभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्ततया, संप्रत्यस्या वैलक्षण्यातिशयदर्शनेन विशेषज्ञतया एतद्विरहे रामस्य देहधारणं सर्वात्मना अशक्यमित्याह दुष्करमिति । दुष्करं कृतवान् रामः । इमां वियुज्य समाधानपरो रामः प्रकामशक्यं कृत्यमकरोत् । हीनो यदनया प्रभुः । अनया विना देहं धृत्वा ऽवस्थित इति यत्तदत्यन्तमशक्यम् । प्रभुः गजाश्वादिकं शिक्षयितुं राज्यं पालयितुं च जानाति । न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्यात्मनो देहम् । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहो ऽयं देहं भोगायतनं हीदं न दुःखायतनम् “दिह उपचये” इत्यस्माद्धातोः “इगुपधः” इत्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमिति भावः । विशेषज्ञेनापि कथमिदं त्यक्तुं शक्यम् । तत्राह न शोकेनावसीदति ॥ ५।१५।५३ ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ ५।१५।५४ ॥
उक्तमर्थं किञ्चिद्विशेषान्तरेण दर्शयति दुष्करं कुरुत इति ॥ ५।१५।५४ ॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५।१५।५५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पुञ्चदशः सर्गः ॥ ५।१५ ॥
एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा हृष्टः सन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं प्रशशंस च पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो राम इत्यस्तौषीत् । यद्वा एतादृशसौन्दर्यवतीं सीतां दृष्ट्वा एतद्विरहितस्य महान् शोकः प्राप्तः अतः युक्तमेव कृतवान् राम इत्यस्तौषीत् ॥ ५।१५।५५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ ५।१५ ॥