स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ ५।१४।१ ॥
सु मुहूर्तमित्यादि । इवशब्दो वाक्यालङ्कारे । प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः रावणस्य गृहात् । अवलुप्तः प्राप्तः ॥ ५।१४।१ ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।
पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥ ५।१४।२ ॥
स त्विति । संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः । वसन्तादौ “पौर्णमास्या मासान् संपाद्य” इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तम् ॥ ५।१४।२ ॥
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् ।
उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि ॥ ५।१३।३ ॥
अथाम्रवणसंछन्ना लताशतसमावृताम् ।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ५।१४।४ ॥
सालान् सर्जकान् । भव्यान् शभानित्यशोकविशोषणम् । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दलाकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ ५।१४।३४ ॥
स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।
राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५।१४।५ ॥
स प्रविश्येत्यादि । काञ्चनैः काञ्चनमयैरिव स्थितैः ॥ ५।१४।५ ॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ॥ ५।१४।६ ॥
चित्रकाननां चित्रावन्तरवनाम्, चम्पकवनं चूतवनमित्येवंविधवनवतीम् ॥ ५।१४।६ ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
कौकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ५।१४।७ ॥
पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः, फलोपगैः फलसंपन्नैः ॥ ५।१४।७ ॥
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।
मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ५।१४।८ ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।
सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥ ५।१४।९ ॥
प्रहृष्टमनुजे काले वनन्ते । वसन्तस्य प्रचुरमन्मथत्वात् प्रहृष्टमनुजत्वम् ॥ ५।१४।८९ ॥
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ ५।१४।१० ॥
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः ।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ५।१४।११ ॥
दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ।
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ ५।१४।१२ ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।
रराज वसुधा तत्र प्रमदेव विभूषिता ॥ ५।१४।१३ ॥
तरस्विना ते तरवस्तरसा ऽभिप्रकम्पिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ ५।१४।१४ ॥
सालाः वृक्षाः । “अनोकहः कुटः सालः"इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ ५।१४।१०१४ ॥
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ ५।१४।१५ ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।
पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ ५।१४।१६ ॥
धूर्ताः अक्षधूर्ताः ॥ ५।१४।१५१६ ॥
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।
बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ ५।१४।१७ ॥
स्कन्धमात्राश्रयाः पुष्पादीनामनाश्रया इत्यर्थः । अत एव अगमाः अगम्यः, असेव्या इत्यर्थः । निर्धूताः कम्पिताः ॥ ५।१४।१७ ॥
निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।
निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षिता ॥ ५।१४।१८ ॥
तथा लांगूलहस्तैश्च चरणाभ्यां च मर्दिता ।
बभूवाशोकवनिका प्रभग्नवरपादपा ॥ ५।१४।१९ ॥
निर्धूतेति । मृदितवर्णका मृष्टाङ्गरागा । “अङ्गरागस्समालम्भो वर्णकश्च विलेपनम्” इत्युक्तेः । निष्पीतशुभदन्तोष्ठी निष्पीततया शुभदन्ततुल्योष्ठी ॥ ५।१४।१८१९ ॥
महालतानां दामानि व्यधमत्तरसाकपिः ।
यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ ५।१४।२० ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।
तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः ॥ ५।१४।२१ ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ ५।१४।२२ ॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ ५।१४।२३ ॥
महालतानामिति । लतानां दामानि प्रतानाति ॥ ५।१४।२०२३ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ ५।१४।२४ ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।
अमुतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ ५।१४।२५ ॥
नत्यूहाः दात्यूहाः ॥ ५।१४।२४२५ ॥
लताशतैरवतताः सन्तानकसमावृताः ।
नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ ५।१४।२६ ॥
ततो ऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ ५।१४।२७ ॥
सन्तानकाः कल्पवृक्षास्तैस्समावृताः । घनाः निबिडाः । नानागुल्मावृताश्च ताः घनाश्चेति समासः । करवीरकृतान्तराः करवीरैः कृतविशेषाः ॥ ५।१४।२६२७ ॥
शिलागृहैरवततं नानावृक्षैः समावृतम् ।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ ५।१४।२८ ॥
जगति लोके रम्यम्, एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । पर्वतं ददर्शेत्यन्वयः ॥ ५।१४।२८ ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।
अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ ५।१४।२९ ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ५।१४।३० ॥
पुनरावृत्ततोयां च ददर्श स महाकपिः ।
प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ५।१४।३१ ॥
अथ नद्याः कुपितया निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ददर्श चेति । पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनः पर्वताभिमुखतोयप्रवाहाम् । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयम् ॥ ५।१४।२९३१ ॥
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ॥ ५।१४।३२ ॥
तस्येति । तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥ ५।१४।३२ ॥
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ५।१४।३३ ॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ ५।१४।३४ ॥
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ ५।१४।३५ ॥
कृत्रिमां क्रियया निर्वृत्ताम्, निर्मितामित्यर्थः ॥ । ५।१४।३३३५ ॥
ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः ।
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ ५।१४।३६ ॥
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।
काञ्चनीं शिंशुपामेकां ददर्श हनुमान् कपिः ।
वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ५।१४।३७ ॥
सो ऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।
सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ॥ ५।१४।३८ ॥
तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।
अमन्यत तदा वीरः काञ्चनो ऽस्मीति वानरः ॥ । ५।१४।३९ ॥
ये केचिदिति । सच्छात्राः सविताना इत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः विदर्दिकारोहणार्थं सुवर्णमयसोपानवेदिकायुक्ताः ॥ ५।१४।३६३९ ॥
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।
किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ ५।१४।४० ॥
तामिति । काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपाम् । किङ्किणीशतनिर्घोषाम्, किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा ताम् ॥ ५।१४।४० ॥
स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।
तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥ ५।१४।४१ ॥
स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यम् ॥ ५।१४।४१ ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।
इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ ५।१४।४२ ॥
इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ॥ ५।१४।४२ ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।
चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ॥ ५।१४।४३ ॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।
इमां सा राममहिषी नूनमेष्यति जानकी ॥ ५।१४।४४ ॥
सा रामा राममहिषी राघवस्य प्रिया सती ।
वनस़ञ्चारकुशला नूनमेष्यति जानकी ॥ ५।१४।४५ ॥
दुरात्मनः रावणस्य ॥ ५।१४।४३४५ ॥
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा ।
वनमेष्यति सा ऽ ऽर्येह रामचिन्तानुकर्शिता ॥ ५।१४।४६ ॥
अथेवेति पक्षान्तरे । विचक्षणा तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनम् । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति पदच्छेदः ॥ ५।१४।४६ ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ।
वनवासे रता नित्यमेष्येत वनचारिणी ॥ ५।१४।४७ ॥
एष्यते एष्यति ॥ ५।१४।४७ ॥
वनेचराणां सततं नूनं स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्य सुता सती ॥ ५।१४।४८ ॥
वनेचराणां स्पृहयते वनेचरेभ्यस्स्पृहयते ॥ ५।१४।४८ ॥
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ ५।१४।४९ ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ ५।१४।५० ॥
यदि जीवति सा देवी ताराधिपनिभानना ।
आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीम् ॥ ५।१४।५१ ॥
सन्ध्याकाले मनः यस्यास्सा सन्ध्याकालमनाः, सन्ध्योपासनतत्परेत्यर्थः । सन्ध्यार्थे एष्यति, प्रतिदिनमिति शेषः ॥ ५।१४।४९५१ ॥
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ ५।१४।५२ ॥
पर्णघने पर्णसमूहे । महात्मा स हनुमान् । पुष्पिताग्रत्वादिविशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीमित्यन्तेन यः प्रकार उक्तः एवमुक्तप्रकारेण मत्वा मनुजेन्द्रपत्नीं प्रतीक्षमाणः अवेक्षमाणः मार्गमाणः सुपुष्पिते पर्णघने निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ॥ ५।१४।५२ ॥
इत्यार्षे श्रीगोविन्दराजाविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ ५।१४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः ॥ ५।१४ ॥