विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।
हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ॥ ५।१३।१ ॥
विमानादित्यादि । इदानीं विमानादवतरणोक्त्या मध्ये विमानमधिरुढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाहविद्युदिति ॥ ५।१३।१ ॥
सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ ५।१३।२ ॥
सम्परिक्रम्येति । सम्परिक्रम्य, प्राकारमिति शेषः । अब्रवीत्, स्वयमिति शेषः ॥ ५।१३।२ ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।
नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनम् ॥ ५।१३।३ ॥
लोलिता बहुशो ऽन्विष्टेत्यर्थः ॥ ५।१३।३ ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ।
नद्यो ऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ॥ ५।१३।४ ॥
इह सम्पतिना सीता रावणस्य निवेशने ।
आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ ५।१३।५।
सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलप्रायवनप्रदेशाः ॥ ५।१३।४,५ ॥
किन्नु सीता ऽथ वैदेही मैथिली जनकात्मजा ।
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ॥ ५।१३।६ ॥
किंन्विति । सीता अयोनिजा । वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली आचारप्रधानकुलोत्कर्षवती । अथशब्दस्समुच्चये । एवंभूता जनकात्मजा दुष्टचारिणं रावणं विवशा कामपरवशा सती उपतिष्ठेत किंनु? नेत्यर्थः ॥ ५।१३।६ ॥
क्षिप्रमुत्पततो मन्ये सातामादाय रक्षसः ।
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ५।१३।७ ॥
अथास्या अदर्शने हेतूनुत्प्रेक्षते क्षिप्रमित्यादिना । रामबाणानां रामबाणेभ्यः ॥ ५।१३।७ ॥
अथवा ह्रियमाणायाः पथि सिद्धनिषेविति ।
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ५।१३।८ ॥
अथवेति । सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ५।१३।८ ॥
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ५।१३।९ ॥
पीडितेन पीडनेन ॥ ५।१३।९ ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तथा ।
विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ ५।१३।१० ॥
उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । “उपर्यध्यधसस्सामीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ॥ ५।१३।१० ॥
अहो क्षुद्रेण वा ऽनेन रक्षन्ती शीलमात्मनः ।
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ५।१३।११ ॥
अहो इति खेदे ॥ ५।१३।११ ॥
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ ५।१३।१२ ॥
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ ५।१३।१३ ॥
दुष्टभावाभिः सापत्न्यप्रयुक्तक्रोधाभिः ॥ ५।१३।१२,१३ ॥
हा राम लक्ष्मणेत्येवं हा ऽयोध्ये चेति मैथिली ।
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ ५।१३।१४ ॥
हा रामेति । न्यस्तरदेहा त्यक्तदेहा । भविष्यति भवेदित्यर्थः ॥ ५।१३।१४ ॥
अथवा निहिता मन्ये रावणस्य निवेशने ।
नूनं लालप्यते सीता पञ्जरस्थेव शारिका ॥ ५।१३।१५ ॥
निहिता भूगृहादौ गूढं स्थापिता । लालप्यते मुहुर्मुहुः प्रलपति ॥ ५।१३।१५ ॥
जनकस्य सुता सीता रामपत्नी सुमध्यमा ।
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ ५।१३।१६ ॥
एवं निरुद्ध्यमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति कथं व्रजेत्? न व्रजेदेवेत्यर्थः ॥ ५।१३।१६ ॥
विनष्टा वा प्र(ण)नष्टा वा मृता वा जनकात्मजा ।
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ ५।१३।१७ ॥
ननु किं चिन्तया, गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह विनष्टेति । विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । “णश अदर्शने” इति धातोर्निष्ठा । प्रनष्टा समुद्रपतनादिना त्यक्तजीविता । (“उपसर्गादसमासेपि णोपदेशस्य " इति णत्वम् ॥ ) मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ ५।१३।१७ ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।
कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ ५।१३।१८ ॥
निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धम् ॥ ५।१३।१८ ॥
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ।
भवेदिति मतं भूयो हनुमान् प्रविचारयत् ॥ ५।१३।१९ ॥
यदि सीतामदृष्ट्वा ऽहं वानरेन्द्रपुरीमितः ।
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ ५।१३।२० ॥
अस्मिन्निति । हनुमान् अस्मिन्कार्ये एवं गते एवं विषमत्वं प्राप्ते सति । किं प्राप्तकालं कालोचितं क्षमं समर्थं च भवेदिति मतं पक्षम् । भूयः प्रविचारयत् ॥ ५।१३।१९,२० ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ।
प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ॥ ५।१३।२१ ॥
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ।
किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ॥ ५।१३।२२ ॥
पुरुषार्थाभावमाह ममेदमिति ॥ ५।१३।२१२२ ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ।
न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ ५।१३।२३ ॥
निवेद्यमाने दोषः स्यादित्येतदुपपादयति गत्वेत्यादिना । अप्रियमिति च्छेदः ॥ ५।१३।२३ ॥
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ।
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ ५।१३।२४ ॥
परुषं श्रवणकटुकम् । दारुणं भयंकरम् । क्रूरम् उग्रम् । तीक्ष्णम् असह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । सीतानिमित्तं सीताविषयम् ॥ ५।१३।२४ ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ।
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ ५।१३।२५ ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति ।
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ ५।१३।२६ ॥
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः ।
कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ ५।१३।२७ ॥
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ।
रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ ५।१३।२८ ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ।
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ ५।१३।२९ ॥
वालिजेन तु दुःखेन पीडिता शोककर्शिता ।
पञ्जत्वं च गते राज्ञि तारापि न भविष्यति ॥ ५।१३।३० ॥
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ।
कुमारो ऽप्यङ्गदः कस्माद्धारयिष्यति जावितम् ॥ ५।१३।३१ ॥
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ।
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ५।१३।३२ ॥
तं त्विति । पञ्चत्वगतमानसं मरणे कृतनिश्चयम् ॥ ५।१३।२५३२ ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ।
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ५।१३।३३ ॥
सान्त्वेनेति । मानेन प्रत्युत्थानादिना ॥ ५।१३।३३ ॥
न वनेषु न शैलेषु न निरोधेषु वा पुनः ।
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ५।१३।३४ ॥
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ।
शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ५।१३।३५ ॥
न वनेष्विति । निरोधेषु गृहादिसंवृतप्रदेशेषु ॥ ५।१३।३४,३५ ॥
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ।
उपवासमथो शास्त्रं प्रचरिष्यन्ति वानराः ॥ ५।१३।३६ ॥
विषमिति । प्रचरिष्यन्ति करिष्यन्तीत्यर्थः । शस्त्रं शस्त्रपतनम् ॥ ५।१३।३६ ॥
घोरमारोदनं मन्ये गते मयि भविष्यति ।
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ५।१३।३७ ॥
सो ऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ५।१३।३८ ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ।
आशया तौ धरिष्येते वानराश्च मनस्विनः ॥ ५।१३।३९ ॥
घोरमिति । आरोदनम् आ समन्ताद्रोदनम् ॥ ५।१३।३७३९ ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ।
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥ ४।१३।४० ॥
हस्तेति । हस्तादानः हस्तपतितभोजी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ॥ ५।१३।४० ॥
सागरानूपजे देशे बहुमूलफलोदके ।
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ ५।१३।४१ ॥
सागरानूपज इति । बहुमूलफलोदक इति स्वरूपकथनम् । अरणीसुतम् अरण्युत्पन्नम् ॥ ५।१३।४१ ॥
उपविष्टस्य वा सम्यग् लिङ्गिनीं साधयिष्यतः ।
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ५।१३।४२ ॥
उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीम्, लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी ताम् साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः, शरीरादात्मानां मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ ४।१३।४२ ॥
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ।
सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ५।१३।४३ ॥
न चैवमात्मत्यागे दोष इत्याह इदमिति । निर्याणं मरणम् । आपः अपः ॥ ५।१३।४३ ॥
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ।
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ ५।१३।४४ ॥
सुजातेति । सुजातमूला आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्याता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना
समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । “कृदिकारादक्तिनः” इति दीर्घः ॥ ५।१३।४४ ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ।
नेतः प्रतिगमिष्यामि तामदृष्ट्वा ऽसितेक्षणाम् ॥ ५।१३।४५ ॥
आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह तापस इति । वाशब्दो ऽवधारणे । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ॥ ५।१३।४५ ॥
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ।
अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति ॥ ५।१३।४६ ॥
मा भूत् सुग्रीवसमीपगमनम् । अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह यदीत इति ॥ ५।१३।४६ ॥
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ।
तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥ ५।१३।४७ ॥
एवं बहुविधं दुःखं मनसा धारयन् मुहुः ।
नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ५।१३।४८ ॥
विनाश इति । बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगम श्रेयस्संगमः ॥ ५।१३।४७४८ ॥
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ।
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ५।१३।४९ ॥
रावणमिति । प्रत्याचीर्णं प्रत्याचरितम्, प्रतिकृतमिति यावत् ॥ ५।१३।४९ ॥
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ।
रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५।१३।५० ॥
पशुपतेः अग्नेः पशुम् अजमिव । “इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे” इति श्रुतेः । अनेन सुप्रापत्वमुक्तम् ॥ ५।१३।५० ॥
इति चिन्तां समापन्नः सीतामनधिगम्य ताम् ।
ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ ५।१३।५१ ॥
इतीति । प्रथमं चिन्ताविचारः । ततो ध्यानं ज्ञातव्यविषयनिरन्तरप्रत्ययः । तत्तश्चिन्तेति दुरन्तचिन्तोच्यते ॥ ५।१३।५१ ॥
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ।
तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ ५।१३।५२ ॥
चिन्ताप्रकारमाह यावदिति ॥ ५।१३।५२ ॥
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ।
अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् ॥ ५।१३।५३ ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियाः ।
न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५।१३।५४ ॥
अशोकवनिका चेयं दृश्यते या महाद्रुमा ।
इमामधिगमिष्यामि न हीयं विचिता मया ॥ ५।१३।५५ ॥
वसून् रुद्रांस्तथा ऽ ऽदित्यानश्विनौ मरुतो ऽपि च ।
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५।१३।५६ ॥
यदि पूर्वमेव सम्पातिवचनप्रामाण्येन रामो ऽत्रानीयेत तदा महान् प्रमादः स्यादित्याह सम्पातीति ॥ ५।१३।५३५६ ॥
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम् ।
संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ॥ ५।१३।५७ ॥
स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ।
उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ॥ ५।१३।५८ ॥
सिद्धिं तपःफलम् ॥ ५।१३।५७,५८ ॥
नमो ऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमो ऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमो ऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५।१३।५९ ॥
“सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः” इत्युक्तरीत्या अभिमतलाभत्वरया सर्वान्नमस्करोति नमो ऽस्त्विति ॥ ५।१३।५९ ॥
स तेभ्यस्तु नमस्कृत्य सुग्रीवस्य च मारुतिः ।
दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ ५।१३।६० ॥
स गत्वा मनसा पूर्वमशोकवनिकां शूभाम् ।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ५।१३।६१ ॥
स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयम् । नमस्कृत्यालोकनरूपक्रियाभेदावच्छब्दद्वयम् । नमस्कृत्य अशोकवनिकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपे व्याख्यातः ॥ ५।१३।६०,६१ ॥
ध्रुवं तु हक्षोबहुला भविष्यति वनाकुला ।
अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ ५।१३।६२ ॥
ध्रुवमिति । रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना अशोकवनिका ध्रुवं चिन्त्या भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ॥ ५।१३।६२ ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ ५।१३।६३ ॥
रक्षिण इति । अत्र अशोकवनिकायाम् । विहिताः नियुक्ताः । सर्वात्मा सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि नातिक्षोभं प्रवाति । अतिकम्पनपूर्वकं नात्र सञ्चरतीत्यर्थः ॥ ५।१३।६३ ॥
संक्षिप्तो ऽयं मया ऽ ऽत्मा च रामार्थे रावणस्य च ।
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ५।१३।६४ ॥
एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्क्याह संक्षिप्त इति । मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थम् । रावणस्य चार्थे रावणादृश्यत्वार्थं च संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो यत्नः कृतः कार्यसिद्धिं तु देवाः विधास्यन्तीत्याह सिद्धिमिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ५।१३।६४ ॥
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ५।१३।६५ ॥
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ ५।१३।६६ ॥
ब्रह्मेत्यादि । शर्वः रुद्रः ॥ ५।१३।६५,६६ ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ५।१३।६७ ॥
उक्तमर्थं पुनः संग्रहेणाह सिद्धिं सर्वाणि भूतानीति । भूतानां प्रभुः उक्तब्रह्मरुद्राद्यधिपतिः, परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः गोचरः येषां ते पथिगोचराः मार्गवर्तिनः ॥ ५।१३।६७ ॥
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ ५।१३।६८ ॥
तदिति । तत्तस्मात् कारणात् । उन्नता नासिका यस्य तदुन्नम् । “उपसर्गाच्च” इति समासान्तो ऽच् प्रत्ययः नासादेश्च । अव्रणम् अनवद्यम् । तत् अभिज्ञातत्वेन रामेण निवेदितम् ॥ ५।१३।६८ ॥
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथे ऽद्य सा भवेत् ॥ ५।१३।६९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः ॥ ५।१३ ॥
सुदारुणालङ्कृतवेषधारिणा सुदारुणत्वे ऽप्यापातप्रसन्नवेषधारिणा ॥ ५।१३।६९ ॥
॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने त्रयोदशः सर्गः ॥ ५।१३ ॥