०११ हनुमता रावणान्तःपुरे सीतान्वेषणम्

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।

जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ ५।११।१ ॥

अवधूयेत्यादि । तां बुद्धिं मन्दोदर्यां सीताबुद्धिम् । अवस्थितौ बभूव स्वस्थचित्तो बभूव ॥ ५।११।१ ॥

न रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी ।

न भोक्तुं नाप्यलङ्कर्तुं न पानमुसेवितुम् ॥ ५।११।२ ॥

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।

नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ।

अन्येयमति निश्चित्य पानभूमौ चचार सः ॥ ५।११।३ ॥

न रामेणेत्यादि । त्रिदशेष्वपीत्यनन्तरम् अन्येयमित्यर्धम् । पानभूमौ ततो ऽन्यत्रेत्यर्थः ॥ ५।११।२,३ ॥

क्रीडितेनापराः क्लान्ता गीतेन च तथा ऽपराः ।

नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ।

मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ॥ ५।११।४ ॥

तथा ऽ ऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ ५।११।५ ॥

क्रीडितेनेत्यादि अपराः स्त्रिय इत्यन्तमेकं वाक्यम् । ददर्शेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः क्लान्ता इत्यर्थः । संस्थिताः उपधानीकृत्य शयिताः । संविष्टाः सुप्ताः ॥ ५।११।४,५ ॥

अङ्गनानां सहस्रेण भूषितेन विभूषणैः ।

रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ।

देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥ ५।११।६ ॥

रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ ५।११।७ ॥

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ।

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ५।११।८ ॥

तत्र सीताया अदर्शनात् पुनरपि रावणस्थानमागत्य ददर्शेत्याह अङ्गनानामिति । रूपसँल्लापशीलेन स्वसौन्दर्यवर्णनशीलेन, रावणविषयरूपप्रशंसाशीलेन वा । युक्तगीतार्थभाषिणा युक्तम् उपपन्नं गीतार्थं भाषितुं शीलमस्येति युक्तगीतार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धादिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तथा तम् । स्नातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ५।११।६८ ॥

स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ।

करेणुभिर्यथा ऽरण्ये परिकार्णो महाद्विपः ॥ ५।११।९ ॥

स इति । परिकीर्णः परिवृतः ॥ ५।११।९ ॥

सर्वकामैरुपेतां च पानभूमिं महात्मनः ।

ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ ५।११।१० ॥

सर्वकामैरिति । पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥ ५।११।१० ॥

मृगाणां महिषाणां च वराहाणां च भागशः ।

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ५।११।११ ॥

मगाणामिति । भागशः पिण्डशाः ॥ ५।११।११ ॥

रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ।

ददर्श हरिशूर्दूलो मयूरान् कुक्कुटांस्तथा ॥ ५।११।१२ ॥

रौक्मेष्विति । मयूरादिशब्दाः मयूरादिविकारमांसपराः ॥ ५।११।१२ ॥

वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ।

शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ॥ ५।११।१३ ॥

वराहेति । वार्ध्राणसाः छागविशेषाः ।“त्रिपिबन्त्विन्द्रियक्षीणं यूपस्याग्रचरं तथा । रक्तवर्णं च राजेन्द्र च्छागं वार्ध्राणसं विदुः ॥ " इति स्मृतेः। पक्षिविशेष इत्यन्ये। खड्गमृग इत्यपरे। “वार्ध्राणसः खड्गमृगः” इति हलायुधः। दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यां संस्कृतानित्यर्थः। सौवर्चलं रुचकाख्यो लवणविशेषः। “सौवर्चलेक्षरुचके"इत्यमरः।स शल्यान् श्वाविधः। “श्वावित्तु शल्यः” इत्यमरः। मृगमयूरादीनां पुनः कथनं प्रदेशभेदात् ॥ ५।११।१३ ॥

क्रकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान् ॥ ५।११।१४ ॥

महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान् ।

लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानि च ॥ ५।११।१५ ॥

क्रकरान् पक्षिविशेषान् । “कृकणक्रकरौ समौ” इत्यमरः । सिद्धान् पक्वान् । एकशल्यान्मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तपक्वान् । “युगपर्याप्तयोः कृतम्” इत्यमरः ॥ ५।११।१४,१५ ॥

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः ।

हारनूपुरकेयूरैरपविद्धैर्महाधनैः ॥ ५।११।१६ ॥

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।

कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ ५।११।१७ ॥

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ।

पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ ५।११।१८ ॥

तथेत्यादि । आम्ललवणोत्तंसैः आम्लप्रधानैः लवणप्रधानैश्च । रागषाडवैः रागयुक्तैः षाडवैः । रागः श्वेतसर्षपः । “रागस्सिद्धार्थको ज्ञेयः” इति सूदशास्त्रम् । षाडवाः षड्रससंयोगकृता भक्ष्यविशेषाः । प्रदीपे त्वन्यतोक्तम्"सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागस्सान्द्रश्चेत् षाडवः स्मृतः ॥ " इति ॥ ५।११।१६१८ ॥

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।

मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथम् ॥ ५।११।१९ ॥

बहुप्रकारैरित्यादि । कुशलसंयुक्तैः समर्थसूदसंयोजितैः । एवंभूतैः मांसैः सह दृष्टा इति वक्ष्यमाणेनान्वयः ॥ ४।११।१९ ॥

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ।

शर्करासवमाध्वीकपुष्पासवफलासवाः ॥ ५।११।२० ॥

दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । माध्वीकाः मधुना कृत्ताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । ततोक्तमर्णवे “पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजम् ॥ " इति ॥ ५।११।२० ॥

वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक् ।

सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ ५।११।२१ ॥

वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः, हनुमतेति शेषः । बहुप्रकारैर्मांसैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति सम्बन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैर्मांसविशेषैस्सुराविशेषैर्वासचूर्णैश्च पृथक्पृथक् सन्ततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥ ५।११।२१ ॥

हिरण्मयैश्च विविधैर्भाजनैः स्पाटिकैरपि ।

जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ ५।११।२२ ॥

राजतेषु च कुम्भेषु जाम्बनदमयेषु च ।

पानश्रेष्ठं तदा भूरिकपिस्तत्र ददर्श सः ॥ ५।११।२३ ॥

हिरण्मयैरिति । अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । “कृताकृतं हेम रूप्यं हिरण्यमभिधीयते” इति वचनात् । तैस्तैः पृथक्पृथक् सन्तता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि भाजनैस्सन्तता जाम्बूनदमयैरन्यैः करकैश्चाभिसंवृता भूमिः शुशुभ इति सम्बन्धः ॥ ५।११।२२,२३ ॥

सो ऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ।

राजतानि च पूर्णानि भाजनानि महाकपिः ॥ ५।११।२४ ॥

शीधोः मद्यस्य ॥ ५।११।२४ ॥

क्वचिदर्धावशेषाणि क्वचित् पीतानि सर्वशः ।

क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ ५।११।२५ ॥

पानानि पानपात्राणि ॥ ५।११।२५ ॥

क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः ।

क्वचिदन्नावशेषाणि फश्यन् वै विचचार ह ॥ ५।१।२६ ॥

क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ।

क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ ५।११।२७ ॥

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः ।

परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥ ५।११।२८ ॥

काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च ।

आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ ५।११।२९ ॥

क्वचिद्भक्ष्यानित्यादि निद्राबलपराजिता इत्यन्तमेकं वाक्यम् । क्वचित्प्रभिन्नैरित्यादिषु सहयोगे तृतीया, हेतौ तृतीया वा । प्रभिन्नत्वादालोलितत्वाच्च संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि । पश्यन्वै विचचारेति पूर्वेणान्वयः ॥ ५।११।२६२९ ॥

तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।

नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ ५।११।३० ॥

तासामिति । गात्रजं गात्रस्थम् । मन्दमनिलं प्राप्येव अत्यर्थं न स्पन्दत इत्यन्वयः ॥ ५।११।३० ॥

चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ।

विविधस्य च माल्यस्य धूपस्य विविधस्य च ।

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ॥ ५।११।३१ ॥

चन्दनस्येत्यादि । उद्वहन् प्रववावित्यपकृष्यते ॥ ५।११।३१ ॥

रसानां चन्दनानां त धूपानां चैव मूर्च्छितः ।

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ ५।११।३२ ॥

रसादीनां सुरभिर्गन्धः विमाने मूर्च्छितः व्याप्तः सन् प्रववौ चचार ॥ ५।११।३२ ॥

श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः ।

काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ ५।११।३३ ॥

श्यामा इति । वदाताः अवदाताः । भागुरिमतेनाल्लोपः । शुभ्रा इत्यर्थः ॥ ५।११।३३ ॥

तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ।

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥ ५।११।३४ ॥

एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।

ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ५।११।३५ ॥

तासामिति । चकारो ऽप्यर्थकः । निद्रापरवशानामपि तासां रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीदित्यर्थः ॥ ५।११।३४३५ ॥

निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ।

जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ॥ ५।११।३६ ॥

निरीक्षमाण इत्यादि । धर्मसाध्वसशङ्कितः धर्मलोपभयाच्छङ्कितः । परदारावरोधस्य परदाररूपान्तःपुरस्य ॥ ५।११।३६ ॥

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ।

नहि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ ५।११।३७ ॥

अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ५।११।३८ ॥

न हीति । मे दृष्टिः कदाचिदपि परदाराणां विषयवर्तिनी नहि, परदारसम्बन्धिविषयपरा नहीत्यर्थः । तथाप्ययं परदारपरिग्रहः दृष्टः, इदमसङ्गतमित्यर्थः ॥ ५।११।३७,३८ ॥

तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ।

निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ५।११।३९ ॥

तस्येति । निश्चितैकान्तचित्तस्य नियतैकरूपचित्तस्य ॥ ५।११।३९ ॥

कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ।

नहि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ५।११।४० ॥

काममिति । वैकृत्यं विकारः । उपपद्यते उत्पद्यते ॥ ५।११।४० ॥

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने ।

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ५।११।४१ ॥

मन इति । शुभाशुभास्ववस्थासु शुभकरणाशुभकरणेषु विषयेषु इन्द्रियाणां प्रवर्तने मन एव हेतुः । सुव्यवस्थितं न तदभिलाषि जातमित्यर्थः ॥ ५।११।४१ ॥

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।

स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥ ५।११।४२ ॥

ननु परदारदर्शनमपि परिहरणीयम्, तत्किमर्थं कृतम्? तत्राहनान्यत्रेति । अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये । स्त्रीष्विव हि स्त्रियो दृश्यन्ते ॥ ५।११।४२ ॥

यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्ग्यते ।

न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ५।११।४३ ॥

तदिदं मार्गितं तावच्छुद्धेन मनसा मया ।

रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥ ५।११।४४ ॥

यस्येति । योनिः जातिः, सजातीय इत्यर्थः ॥ ५।११।४३४४ ॥

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ।

अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ॥ ५।११।४५ ॥

तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ।

अपक्रम्य तदा वीरः प्रघ्यातुमुपचक्रमे ॥ ५।११।४६ ॥

देवेति । अपश्यत अपश्यत् ॥ ५।११।४५४६ ॥

स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः ।

आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ॥ ५।११।४७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः ॥ ५।११ ॥

स भूयस्तु परमिति । तत् रावणान्तःपुरम् ॥ ५।११।४७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ५।११ ॥