०१० हनुमता रावणान्तःपुरप्रवेशः

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।

अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ ५।१०।१ ॥

दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।

महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ ५।१०।२ ॥

तत्र दिव्योपममित्यादि । शयनासनं शयनस्यासनं खट्वामित्यर्थः । दान्तानि दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अत एव चित्राणि नानावर्णानि अङ्गानि येषां तैः । प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैडुर्यनिर्मितैरित्यर्थः । महाधनैः महामूल्यैः । वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः । उपपन्नम् आवृत्तम् ॥ ५।१०।१,२ ॥

तस्य चैकतमे देशे सो ऽग्र्यमालाविभूषितम् ।

ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम् ॥ ५।१०।३ ॥

तस्येति । एकतमे देशे शिरोभाग इत्यर्थः ॥ ५।१०।३ ॥

जातरूपूपपरिक्षिप्तं चित्रभानुसमप्रभम् ।

अशोकमालाविततं ददर्श परमासनम् ॥ ५।१०।४ ॥

वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ।

गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५।१०।५ ॥

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।

दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ५।१०।६ ॥

उक्तमेव पर्यङ्कं पुनर्वर्णयन्नाह– जातरूपपरिक्षिप्तमित्यादिना । चित्रभानोः सूर्यस्य । आविकाजिनम् ऊर्णायुचर्म तेन पर्यङ्कस्योपरिफलका संधीयते । वरमाल्यानाम् अशोकातिरिक्तपुष्पाणाम् ॥ ५।१०।४६ ॥

तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् ।

लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ५।१०।७ ॥

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ।

सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ५।१०।८ ॥

तस्निन्नित्यादि । महारजतवाससं हेमचित्रितवाससम् । महारजतं हेम । महारजनवाससमिति पाठे कुसुम्भरागरञ्जिवस्त्रमित्यर्थः ॥ ५।१०।७,८ ॥

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।

सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ५।१०।९ ॥

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।

प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ।

पीत्वाप्युपरतं चापि ददर्श स महाकपिः ॥ ५।१०।१० ॥

भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ५।१०।११ ॥

निःश्वसन्तं यथा नागं रावणं वानरर्षभः ।

आसाद्य परमोद्विग्नः सो ऽपासर्पत् सुभीतवत् ॥ ५।१०।१२ ॥

सवृक्षवनगुल्माढ्यं सवृक्षैर्वनैः गुल्मैश्चाढ्यम् । प्रसुप्तं निश्चलमित्यर्थः ॥ ५।१०।९१२ ॥

अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।

सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ ५।१०।१३ ॥

अथ अपसर्पणानन्तरम् । आरोहणं सोपानम् । आसाद्य अधिरुह्य । वेदिकान्तरं सोपानपर्वमध्यम् ॥ ५।१०।१३ ॥

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् ।

गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ ५।१०।१४ ॥

यस्य गन्धेनान्ये हस्तिनो भीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरम् ॥ ५।१०।१४ ॥

काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः ।

विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ ५।१०।१५ ॥

ऐरावतविषाणाग्रैरापीडनकृतव्रणौ ।

वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ ५।१०।१६ ॥

पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ ।

सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ ५।१०।१७ ॥

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ।

विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ ५।१०।१८ ॥

काञ्चनाङ्गदेत्यादि । विक्षिप्तौ प्रसारितौ । विष्णुचक्रपरिक्षतौ विष्णुः उपेन्द्रः । सङ्गतौ देहानुरूपौ । संहतौ दृढसन्धिबन्धौ । विक्षिप्तौ शयने निहितौ । पञ्चाङ्गुलिमत्तया पञ्चशीर्षावित्युक्तम् । एतदन्तस्य ददर्शेत्यनेनान्वयः अत्र द्विभुजत्वैकमुखत्वोक्तिः स्त्रीणां कामनीयत्वाय ॥ ५।१०।१५१८ ॥

शशक्षतजकल्पेन सुशीतेन सुगन्धिना ।

चन्दनेन पारार्घ्येन स्वनुलिप्तौ स्वलङ्कृतौ ॥ ५।१०।१९ ॥

उत्तमस्त्री विमृदितौ गन्धोत्तमनिषेवितौ ।

यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ ५।१०।२० ॥

ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ।

मन्दरस्यान्तरे सुप्तौ महाही रूषिताविव ॥ ५।१०।२१ ॥

शशक्षतजेत्यादि । यक्षादीन् रावयितुं शीलमनयोरस्तीति तथा । ददर्शेति पुनरभिधानं विशेषणान्तरविवक्षया ॥ ५।१०।१९२१ ॥

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।

शुशुभे ऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ ५।१०।२२ ॥

ताभ्यामिति । परिपूर्णाभ्याम् दीर्घवृत्ताभ्यामित्यर्थः ॥ ५।१०।२२ ॥

चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः ।

मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः ॥ ५।१०।२३ ॥

तस्य राक्षससिंहस्य निश्चक्राम महामुखात् ।

शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥ ५।१०।२४ ॥

चूतेत्यादि । निःश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्सपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ ५।१०।२३,२४ ॥

मुक्तामणिविचित्रेण काञ्चनेन विराजितम् ।

मकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ ५।१०।२५ ॥

रक्तचन्दनदिग्धेन तथा हारेण शोभिना ।

पीनायतविशालेन वक्षसा ऽभिविराजितम् ॥ ५।१०।२६ ॥

पाण्डरेणापविद्धेन क्षौंमेण क्षतजेक्षणम् ।

महार्हेण सुसंवीतं पातेनोत्तमवाससा ॥ ५।१०।२७ ॥

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ।

गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ ५।१०।२८ ॥

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम् ।

प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥ ५।१०।२९ ॥

मुक्तामणीति । अपवृत्तेन स्थानात् किञ्चिच्चलितेन । अपविद्धेन पर्यस्तेन । क्षौमेण उत्तरीयरूपेण । विद्युद्गणैरिव विद्युत्समूहैरिव । रावणं तस्य पत्नीश्च ददर्शेत्यन्वयः ॥ ५।१०।२५२९ ॥

पादमूलगताश्चापि ददर्श सुमहात्मनः ।

पत्नीः स प्रियभारयस्य तस्य रक्षःपतेर्गृहे ॥ ५।१०।३० ॥

शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ।

अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ५।१०।३१ ॥

पादेति । रक्षःपतेर्गृह परशेषः ॥ ५।९।३०३१ ॥

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ।

वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ५।१०।३२ ॥

नृत्तेति । राक्षसेन्द्रस्य भजम् अङ्कं गच्छन्तीति राक्षसेन्द्रभुजाङ्कगः । उत्सङ्गोपवेशनालिङ्गनाभ्यां लालिता इत्यर्थः । वराभरणधारिण्य इति द्वितीयार्थे प्रथमा । निषण्णाः शयानाः । ददृश इत्यात्मनेपदमार्षम् ॥ ५।१०।३२ ॥

वज्रवैडूर्यगर्भाणि श्रावणान्तेषु योषिताम् ।

ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ५।१०।३३ ॥

तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ।

विरराज विमानं तन्नभस्तारागणैरिव ॥ ५।१०।३४ ॥

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ।

तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ५।१०।३५ ॥

वज्रेति । श्रवणान्तेष्वङ्गदर्शनं बाहूनुपधाय शयनात् ॥ ५।९।३३३५ ॥

अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी ।

विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ५।१०।३६ ॥

अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे “अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते ॥ " इत्यादि। कोमलैः सुकुमारैः। नृत्तशालिनी सुषुप्त्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेत्युच्यते ॥ ५।१०।३६ ॥

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ।

महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ५।१०।३७ ॥

काचिद्वीणामिति । महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलनालदलं पद्मजालकम् । पोतं यानपात्रम् । वीणां परिष्वज्य प्रसुप्ता काचित् नद्यां प्लवमाना यदृच्छया पोतसंयुक्ता नलिनीव प्रकाशत इत्यर्थः ॥ ५।१०।३७ ॥

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ।

प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ५।१०।३८ ॥

पटहं चारु सर्वाङ्गी पीड्य शेते शुभस्तनी ।

चिरस्य रमणं लब्ध्वा परिष्वज्येन भामिनी ॥ ५।१०।३९ ॥

मड्डुकेन वाद्यविशेषेण ॥ ५।१०।३८,३९ ॥

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ।

रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ ५।१०।४० ॥

काचिद्वंशमिति । वंशं वेणुम् ॥ ५।१०।४० ॥

विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ।

निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ ५।१०।४१ ॥

अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः ।

मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ५।१०।४२ ॥

विपञ्चीमिति । विपञ्ची सप्ततन्त्री । षट्तन्त्री वीणा ॥ ५।१०।४१,४२ ॥

भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी ।

पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ५।१०।४३ ॥

भुजेति । पणवेन मर्दलेन ॥ ५।१०।४३ ॥

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ।

प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥ ५।१०।४४ ॥

डिण्डिममिति । यथा पूर्वा तथैवासक्तडिण्डिमा अन्या तं डिण्डिमं परिगृह्य परिष्वज्य प्रसुप्ता । कथमिव? तरुणं वत्समुपगुह्येव । डिण्डिमः पणवभेदः । यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावलम्ब्य तथैव आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा तरुणं रमणमुपगुह्य वत्सं पुत्रं परिगृह्येव प्रसुप्ता । यद्वा डिण्डिमं परिगृह्य वादनार्थं परिगृह्य तथैव वादनकाल एव आसक्तडिण्डिमा अन्या तरुणं वत्समुपगुह्येव प्रसुप्ता ॥ ५।१०।४४ ॥

काचिदाडम्बरं नारी भुजसंयोगपीडितम् ।

कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ५।१०।४५ ॥

काचिदिति । आडम्बरं तूर्यभेदम् । भुजसंभोगपीडितं भुजपरिणाहपीडितम् । भुजपरिश्लेषपीडितं वा ॥ ५।१०।४५ ॥

कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ।

वसन्ते पुष्पशबला मानेव परिमार्जिता ॥ ५।१०।४६ ॥

पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ ।

उपगुह्याबला सुप्ता निद्राबलपराजिता ॥ ५।१०।४७ ॥

अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ।

अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ५।१०।४८ ॥

कलशीमिति । अपविघ्य पर्यस्य । अनेन सलिलसम्बन्धः सूच्यते । परिमार्जिता सलिललवसंमार्जिता । अपविद्धकलशनिर्गलितगन्धोदकसिक्ता काचित् वसन्ते म्लानिपरिहाराय सलिललवसमुक्षिता मालेव बभावित्यर्थः । पुष्पशबलेत्यनेन कलशस्थजलस्य कुड्कुमादिरससिक्तत्वमुच्यते, सर्वाभरणभूषितत्वं वा । इयं च रावणस्य करकधारिणीति गम्यते ॥ ५।१०।४६४८ ॥

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ।

निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ५।१०।४९ ॥

तासामेकान्तविन्यस्ते शयानां शयने शुभे ।

ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥ ५।१०।५० ॥

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् ।

विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम् ॥ ५।१०।५१ ॥

आतोद्यानि “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ “इत्यमरः ॥ ५।१०।४९५१ ॥

गौरीं कनकवर्णाङ्गीमिष्टामन्तः पुरेश्वरीम् ।

कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५।१०।५२ ॥

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।

तर्कयामास सीतेति रूपयौवनसम्पदा ॥ ५।१०।५३ ॥

किमिव गौरीमित्यत्राह कनकवर्णाङ्गीमिति । इष्टाम्, रावणस्येति शेषः ॥ ५।१०।५२,५३ ॥

हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ५।१०।५४ ॥

हर्षेणेत्यर्धम् । हर्षेण युक्तः ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५।१०।५४ ॥

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ।

स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ ५।१०।५५ ॥

इति श्रीसुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ ५।१० ॥

तदेवोपपादयति आस्फोटयामासेति । चिक्रीड, ननर्तेतियावत् । स्वां प्रकृतिं स्वासाधारणं चापल्पम् । अस्मिन्सर्गे सार्धचतुष्पञ्चाशच्छ्लोकाः ॥ ५।१०।५५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे दशमः सर्गः ॥ ५।१० ॥