००९ रावणान्तःपुरवर्णनम्

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् ।

ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः ॥ ५।९।१ ॥

तस्येत्यादि । आलयवरिष्ठस्य पुष्पकस्य ॥ ५।९।१ ॥

अर्द्धयोजनविस्तीर्णमायतं योजनं हि तत् ।

भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ॥ ५।९।२ ॥

तद्भवनं कियत्प्रमाणमित्यत्राह अर्द्धयोजनेति ॥ ५।९।२ ॥

मार्गमाणस्तु वैदेहीं सातामायतलोचनाम् ।

सर्वतः परिचक्राम हनुमानरिनूदनः ॥ ५।९।३ ॥

सर्वतः पुष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद् वक्ष्यमाणत्वात् ॥ ५।९।३ ॥

उत्तमं राक्षसावासं हनुमानवलोकयन् ।

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ ५।९।४ ॥

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ।

परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ५।९।५ ॥

उत्तममिति । राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानम् ॥ ५।९।४,५ ॥

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् ।

आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ५।९।६ ॥

राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरूपादानमपूर्वविशेषणविवक्षया ॥ ५।९।६ ॥

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् ।

वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ५।९।७ ॥

या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने ।

सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥ ५।९।८ ॥

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।

तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ ५।९।९ ॥

नक्रः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ५।९।७९ ॥

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।

बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः ॥ ५।९।१० ॥

तस्य हर्म्यस्येत्यादि । पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ ५।९।१० ॥

ब्रह्मणो ऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा ।

विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ।

परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ५।९।११।

ब्रह्मणो ऽर्थ इत्यादि । ब्रह्मणो ऽर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददर्शेति पूर्वेण सम्बन्धः ॥ ५।९।११ ॥

कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ ५।९।१२ ॥

ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः ।

सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ ५।९।१३ ॥

मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् ।

कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम् ॥ ५।९।१४ ॥

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा ।

हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ ५।९।१५ ॥

कुबेरमित्यादि । ईहामृगसमायुक्तैः वृकप्रतिकृतियुक्तैः । कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णम्, हिरण्यं रजतम् । “कृताकृतं हेम रूप्यं हिरण्यमभिधीयते ।” इति रजतस्यापि हिरण्यत्वाभिधानात् ॥ ५।९।१२१५ ॥

जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि ।

इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ ५।९।१६ ॥

विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।

निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ ५।९।१७ ॥

चन्दनेन च रक्तेन तपनीयनिभेन च ।

सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥ ५।९।१८ ॥

कूटागारैर्वराकारैर्विविधैः समलङ्कृतम् ।

विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ ५।९।१९ ॥

जालवातायनैः जालानि । तिर्यगूर्ध्वविन्यस्तफलकघटितानि, वातायनानि केवलानि रन्ध्राणि । अर्थवैशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीलाः सिंहलद्वीपोद्भवनीरत्नानि । महाधनैः महामूल्यैः । निस्तुलाभिः सुवृत्ताभिः । तलेन, निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमम् । एतदन्ते लेभे तद्राक्षसेश्वर इति संबध्यते । अन्यथा कूटागारैरित्यनेन पुनरुक्तिः स्यात् ॥ ५।९।१६१९ ॥

तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् ।

दिव्यं संमूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम् ॥ ५।९।२० ॥

स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ।

इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ ५।९।२१ ॥

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।

रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ ५।९।२२ ॥

जिघ्रत् । अजिघ्रत् ॥ ५।९।२०२२ ॥

मणिसोपानविकृतां हेमजालविभूषिताम् ।

स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ ५।९।२३ ॥

दन्तान्तरितरूपिकां दन्तैः व्यवहितरूपिकाम् । अन्तरान्तरा कृतदन्तफलकामिति यावत् ॥ ५।९।२३ ॥

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि ।

विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ॥ ५।९।२४ ॥

सुबहुस्तम्भभूषिताम् अवान्तरबहुस्तम्भभूषिताम् । सुबहुस्तम्भभूषितैरिति पाठे सुबहुस्तम्भैः स्तम्भदार्ढ्यकारिपट्टैरलङ्कृतामित्यर्थः ॥ ५।९।२४ ॥

समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः ।

स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव ॥ ५।९।२५ ॥

अत्युच्चैः अत्यन्तोन्नतैः । दिवम् आकाशम् ॥ ५।९।२५ ॥

महत्या कुथया ऽ ऽस्तीर्णां पृथिवीलक्षणाङ्कया ।

पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ॥ ५।९।२६ ॥

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ।

परार्घ्यास्तरणोपेतां रक्षोधिपनिषेविताम् ॥ ५।९।२७ ॥

कुथया आस्तरणेन । पृथिवीलक्षणाङ्कया सरित्समुद्रगिरिवनादिभिः पृथिवीलक्षणैरङ्कितया ॥ ५।९।२६२७ ॥

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् ।

चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ ५।९।२८ ॥

कल्माषीं शबलवर्णाम्, वसिष्ठधेनुमिव सर्वकामप्रदत्वेन कल्माषीसादृश्यम् ॥ ५।९।२८ ॥

मनस्संह्लादजननीं वर्णस्यापि प्रसाधिनीम् ।

तां शोकनाशिनीं दिव्यां श्रियः स़ञ्जननीमिव ॥ ५।९।२९ ॥

वर्णस्यापि प्रसाधिनीम् वर्णोत्कर्षकरीमित्यर्थः । तां शोकनाशिनीमिति । ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थः । तां प्रति प्रस्थितः ददर्शेति वा संबन्धः ॥ ५।९।२९ ॥

इन्द्रियाणीन्द्रियार्थैस्तु पञ्च प़ञ्चभिरुत्तमैः ।

तर्पयामास मातेव तदा रावणपालिता ॥ ५।९।३० ॥

इन्द्रियाणीति, हनुमत इति शेषः ॥ ५।९।३० ॥

स्वर्गो ऽयं देवलोको ऽयमिन्द्रस्येयं पुरी भवेत् ।

सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ ५।९।३१ ॥

स्वर्गो ऽयमिति । सामान्यतः स्वर्गो ऽयम् । तत्रापि देवलोकः त्रयस्त्रिंशद्देवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरोत्कर्षः ॥ ५।९।३१ ॥

प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान् ।

धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥ ५।९।३२ ॥

प्रध्यायत इति । प्रध्यायत इव निश्चलतया प्रकृष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन द्यूतेन ॥ ५।९।३२ ॥

दीपानां च प्रकाशेन तेजसा रावणस्य च ।

अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ५।९।३३ ॥

प्रदीप्ता शाला दग्धेति अभ्यमन्यत ॥ ५।९।३३ ॥

ततो ऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् ।

सहस्रं वरनारीणां नानावेषविभूषितम् ॥ ५।९।३४ ॥

परिवृत्ते ऽर्धरात्रे तु पाननिद्रावशं गतम् ।

क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥ ५।९।३५ ॥

तत इत्यादि । कुथासीनं कुथशयितम् । नानावर्णाम्बरस्रजमिति हलन्तस्य स्रक्छब्दस्य भागुरिमतेन टाबन्तात्वादजन्तत्वोपपत्तिः ॥ ५।९।३४,३५ ॥

तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् ।

निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ५।९।३६ ॥

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः ।

अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ५।९।३७ ॥

तदिति । निःशब्दान्तरभूषणं निःशब्दविशेषाणि भूषणानि यस्य । “अथान्तरं रन्ध्रेप्यपरव्यवधानयोः । अवकाशावसरयोरवसानविनार्थयोः । विशेषमध्यतादर्थ्येषु” इति दर्पणः । अतिनिद्रापरवशत्वेन निश्चलाङ्गतया निःशब्दभूषणमित्यर्थः ॥ ५।९।३६,३७ ॥

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।

पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ५।९।३८ ॥

प्रबुद्धानीति । अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कुचितपत्राणि पद्मानीव बभुः ॥ ५।९।३८ ॥

इमानि मुखपद्मानि नियतं मत्तषट्पदाः ।

अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ ५।९।३९ ॥

इति चामयन्त श्रीमानुपपत्त्या महाकपिः ।

मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ५।९।४० ॥

सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता ।

शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ५।९।४१ ॥

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ।

यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ ५।९।४२ ॥

याश्च्यवन्ते ऽम्बरात्ताराः पुण्यशेषसमावृताः ।

इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा ॥ ५।९।४३ ॥

इमानीति । प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनः पुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदम् । अनुदात्तत्वेन आत्मनेपदत्वत् । नियतं नूनम् । उपपत्त्या युक्त्या । उपपत्तिमेवाह मेन इति । तानि मुखानि । गुणतः सौरभादिगुणैः । सलिलोद्भवैः पद्मैः ॥ ५।९।३९४३ ॥

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ।

प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ५।९।४४ ॥

ताराणामिति । प्रभा कान्तिः । वर्णः रूपम् । प्रसादः प्रसन्नता ॥ ५।९।४४ ॥

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ।

पानव्यायामकालेषु निद्रापहृतचेतसः ॥ ५।९।४५ ॥

व्यावृत्तेति । पानव्यायामकालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ५।९।४५ ॥

व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः ।

पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥ ५।९।४६ ॥

व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्भ्रान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ५।९।४६ ॥

मुक्ताहारावृताश्चान्याः काश्चिद्विस्रस्तवाससः ।

व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ ५।९।४७ ॥

सुकुण्डलधराश्चान्याविच्छिन्नमृदुतस्रजः ।

गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ५।९।४८ ॥

मुक्ताहारावृताः मुक्ताहारैरावृताः, छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः । किशोर्यः प्रथमवयस्का वडवाः । वाहिताः मार्गश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ५।९।४७,४८ ॥

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः ।

हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ५।९।४९ ॥

अपरासां च वैडुर्याः कादम्बा इव पक्षिणः ।

हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५।९।५० ॥

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।

आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ५।९।५१ ॥

चन्द्रांशुकिरणाभाः अंशुः सूर्यः । “अथांशुः स्यान्मयूखे सवितर्यपि” इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥ ५।९।४९५१ ॥

किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः ।

भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५।९।५२ ॥

अथासां नदीसमाधिं दर्शयति । किङ्किणीति । किङ्किणीजालसङ्कोशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात् संकोशशब्दो मुकुलवाचीत्यवगम्यते । भावाः श्रृङ्गारचेष्टाः त एव ग्राहाः नक्राः यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थानवत्त्वाद्भावग्राहा इत्युक्तम् । यशस्तीराः यशःशब्देन यशोहेतुभूता पर्यन्तप्रसृतप्रभोच्यते सैव तीरं यासां ताः ॥ ५।९।५२ ॥

मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः ।

बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ५।९।५३ ॥

मृदुष्विति । संस्थिताः लग्नाः भूषणराजयः । भ्रमराणीव भ्रमरा इव । व्यत्यय आर्षः । कामुका इव बभूवुः ।“भ्रमरः कामुके भृङ्गे” इति दर्पणः । केचित्तु भूषणानीति पाठं कल्पयित्वा भूषणराजयः भूषणविमर्दकृतरेखाः । विस्रस्तभूषणानामपि कासांचिद्भूषणानीव बभूवुरित्यर्थ इत्याहुः ॥ ५।९।५३ ॥

अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ।

उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ ५।९।५४ ॥

अंश्विति । मुखमारुतकम्पिताः अंशुकान्ताः सूक्ष्मवस्त्रदशाः । उपर्युपरि वक्त्राणां वक्त्राण्युपर्युपरि । “धिगुपर्यादिषु त्रिषु । द्वितीया ऽ ऽम्रेडितान्तेषु” इति द्वितीयाभाव आर्षः । व्याधूयन्त इति श्यन्नार्षः । धूनातेः क्र्यादित्वात् ॥ ५।९।५४ ॥

ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः ।

ननावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५।९।५५ ॥

ता इति । विधेयत्वात् स्त्रीलिङ्गता । नानावर्णसुवर्णानां नानाविधशोभनवर्णानाम् ॥ ५।९।५५ ॥

ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम् ।

मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ ५।९।५६ ॥

शर्करासवगन्धैश्च प्रकृत्या सुरभिः सुखः ।

तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५।९।५७ ॥

रावणाननशङ्काश्च काश्चिद्रावणयोषितः ।

मूखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः ॥ ५।९।५८ ॥

ववल्गुरिति । उपधानपरिसरे घनमणिखचिततया लम्बमानानि कुण्डलानि मन्दं मन्दं चेलुरित्यर्थः ॥ ५।९।५६५८ ॥

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।

अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५।९।५९ ॥

अत्यर्थमिति । रावणे अत्यर्थं सक्तमनसः अस्वतन्त्राः पाननिद्रापरवशाः ताः सपत्नीभिराघ्रातमुखाः वरस्त्रियः तदा मुखाघ्राणसमये सपत्नीनां प्रियमेवाचरन् रावणो ऽजिघ्रदिति बुद्ध्या स्वयमप्यजिघ्रन्नित्यर्थः । अथवा कथं सपत्न्योपि सह स्वन्तीत्याशङ्क्याह अत्यर्थमिति ॥ ५।९।५९ ॥

बाहूनुपनिधायान्याः पारिहार्यविभूषितान् ।

अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ५।९।६० ॥

पारिहार्यो वलयः । अंशुकानि च, उपनिधायेत्यनुषज्यते ॥ ५।९।६० ॥

अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम् ।

अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥ ५।९।६१ ॥

ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः ।

परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ ५।९।६२ ॥

अन्या वक्षसि चान्यस्या इत्यादिश्लोकद्वये शिश्यिर इत्येतद्वचनविपरिणामेन यथायोगं सम्बध्यते उपनिधायेति च ॥ ५।९।६१,६२ ॥

अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ।

मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ५।९।६३ ॥

मालेव पुष्पमालेव । मत्तषट्पदस्थानीयाः कशाः ॥ ५।९।६३ ॥

लतानां माधवे मासि फुल्लानां वायुसेवनात् ।

अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ५।९।६४ ॥

व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् ।

आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ५।९।६५ ॥

लतानामित्यादिश्लोकद्वमेकान्वयम् । तत् रावणस्य स्त्रीवनं लतानां वनमिवासीदिति संबन्धः । विशेषणान्युभयत्र योज्यानि । वायुसेवनाद्धेतोः अन्योन्यमालाग्रथितम् अन्योन्यमालारूपेण ग्रथितं सुखमुखमारुतसेवनादन्योन्यमालाग्रथितमिति स्त्रीपक्षे । संसक्तकुसुमोच्चयम् अन्योन्यसंसक्तनीवीकम् संसक्तकुसुमसमूहं चेत्यर्थः । व्यतिवेष्टितसुस्कन्धम् अन्योन्यपरिवेष्टितांसम् अन्योन्यपरिवेष्टितप्रकाण्डं च । अन्योन्यं भ्रमरैश्चिकुरैरागुलम्, भ्रमरैः भृङ्गैराकुलं च । “भ्रमरश्चिकुरे भृङ्गे” इति विश्वः ॥ ५।९।६४।६५ ॥

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ।

विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ५।९।६६ ॥

उचितेषु स्थानेषु स्थितानामपि भूषणाङ्गाम्बरस्रजां साधारण्यादेकतामापन्नानामिति भावः । विवेकः सुव्यक्तमाधातुं न शक्यः । अन्योन्यसंग्रथितत्वेन सुप्तत्वात् । इमा अस्या भूषणाङ्गाम्बरस्रजः इमा अपरस्या इति विवेकः कर्तुं न शक्य इत्यर्थः ॥ ५।९।६६ ॥

रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ।

ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव ॥ ५।९।६७ ॥

रावण इति । सुखसंविष्टे सुखसुप्ते । काञ्चनाः काञ्चनदीपस्तम्भस्था दीपाः अनिमिषास्सन्तः प्रैक्षन्त इव । अनेन रावणस्य जाग्रद्दशायां दीपैरपि ताः स्त्रियो निश्चलं द्रष्टुमशक्या इति गम्यते ॥ ५।९।६७ ॥

राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः ।

राक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥ ५।९।६८ ॥

अथ सीतयैकया अकाम्यत्वं वक्तुं सर्वस्त्रीकाम्यत्वमाह राजर्षीत्यादिना श्लोकत्रयेण । तस्य कामवशंगताः तं प्रति यः कामः तस्य वशंगताः । तं कामयित्वा स्वयमेवागतास्ताः न तु तेन कामयित्वा हृता इत्यर्थःे ॥ ५।९।६८ ॥

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।

समदा मदनेनैव मोहिताः काश्चिदागताः ॥ ५।९।६९ ॥

हृताश्च काश्चन श्रूयन्ते, तत्र कथमित्यत्राह युद्धेति । तासु हृतासु तासां संबन्धिभिस्सह युद्धं भविष्यतीति युद्धं कामयित्वा ऽनेन हृताः नतु ताः कामयित्वा हृताः ॥ ५।९।६९ ॥

न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेव गुणेन लब्धाः ।

न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम् ॥ ५।९।७० ॥

न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता ।

भार्या ऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ५।९।७१ ॥

अमुमेवार्थं विवृणोति न तत्रेति । तत्र तासु काश्चिदपि प्रमदाः प्रसह्य वीर्येण न लब्धाः । किंतु स्वसंवादेनैवेत्यर्थः । वीर्योपपन्नेन रावणेन न लब्धाः अपि तु गुणेन लब्धाः । अन्यकामा च काचित्तत्र नास्ति । अन्यपूर्वा च न । अन्यत्रासक्ता च न काचिदित्यर्थः ॥ ५।९।७०,७१ ॥

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ।

इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ५।९।७२ ॥

बभूवेति । राघवधर्मपत्नी ईदृशी यदि स्वयंवरात्पूर्वमेवास्य धर्मपत्नी चेत् । अस्य सुजातं सुकृतम् । इयमसाध्वी बुद्धिः कापेयत्वप्रमादकृता न तु स्वयं तस्य बुद्धिरिति द्योतयितुं साधुबुद्धेरित्युक्तम् । एवं प्रमादोपस्थितबुद्ध्या पश्चात्तापो ऽभूदित्याह– पुनश्च सो ऽचिन्तयदार्तरूप इति । यद्वा इमाः राक्षसराजभार्याः यथा स्वभर्त्रा विशिष्टास्सकलभोगयुक्ताश्च तथा राघवधर्मपत्नी ईदृशी यदि स्वभर्त्रा भोगयुक्ता च यदि तदा ऽस्य रावणस्य सुजातं शोभनं जन्मेति साधुबुद्धेः परसमृद्धिपरस्य हरीश्वरस्य स्वयमाधिपत्यार्हस्य बुद्धिर्बभूव । अयं रावणः राघवधर्मपत्नीं यदि प्रत्यर्पयेत्तदा ऽस्य शोभनं जन्म स्यादिति बुद्धिर्जातेत्यर्थः ॥ ५।९।७२ ॥

पुनश्च सो ऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ।

अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ५।९।७३ ॥

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे नवमः सर्गः ॥ ५।९ ॥

किंच चिन्तान्तरमाह पुनश्चेति । अथः सः हनुमान् । सीता गुणतः पातिव्रत्यादिगुणतः ध्रुवं विशिष्टा हि । अस्याम् एतद्विषये महात्मा महाकुलप्रसूतोपि अयं लङ्केश्वरः । अनार्यकर्म अपहरणरूपं कर्म कृतवान् । कष्टमिति आर्त्तरूपः अत्यन्तमार्तः । “प्रशंसायां रूपम्(प्)” । पुनश्चाचिन्तयत् । वैदेह्याः दृढव्रतत्वापातिव्रत्यभङ्गो न भवेदेव अपि तु मिथ्यापावादमेवोत्पादितवानिति भृशं दुःखितस्सन् चिन्तितवानित्यर्थः । यद्वा बभूवेत्यादि । राक्षसराजपत्नीवत्सीता स्वभर्त्रा सङ्गता चेत्सीतापहरणं न कृतवांश्वेत्तदा ऽस्य सुजातमित्युक्तम् । तत्र निरतिशयसौन्दर्यादिशालिन्याः मैथिल्याः र(रा)क्षरीस्त्रीसाम्यं चिन्तयता मया हीनोपमा कृतेति पश्चात्तापयुक्तस्सन् अचिन्तयत् । हि यस्मात्सीता गुणतः विशिष्टा अतः आर्तस्वरूपस्सन् अचिन्तयत् मया हीनोपमैव कृतेत्यचिन्तयत् । अथ अथापि अस्यां सीतायाम् । अनार्यकर्म धर्षणरूपं कर्म कृतवान् । कष्टं सर्वमिदं लङ्कैश्वर्यं भ्रष्टं भविष्यतीत्यचिन्तयच्चेत्यर्थः । यद्वा राघणधर्मपत्नी यथा रावणेन बलादानीता तथा राक्षसराजभार्याः बलात्सुग्रीवेण बन्दीकृताश्चेदस्य हरीश्वरस्य सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणे ऽनुरक्ताः ईदृशी राघवधर्मपत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बूद्धिर्बभूव । ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अत एव वक्ष्यति अहो वीर्यमित्यादिना । एवं हठादुक्त्वा ऽनुशयितवानित्याह–पुनश्चेति । हि यस्मात् सीता गुणतः पातिव्रतेन विशिष्टा सर्वोत्कृष्टा अतः आर्तरूपः किं मया व्याहृतमित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् । अस्मिन्सर्गे त्रिसप्ततिश्लोकाः ॥ ५।९।७३ ॥

इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥ ५।९ ॥