स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
विक्रमेण महातेजा हनूमान् कपिसत्तमः ।
अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ॥ ५।४।१ ॥
स निर्जित्येत्यादि । अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ॥ ५।४।१ ॥
प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः ।
चक्रे ऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥ ५।४।२ ॥
प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः ।
स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ ५।४।३ ॥
ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ ५।४।४ ॥
प्रविश्येति । चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रम् । अनेन प्रथमं सव्यं पादं लङ्कायं कृतवानित्यर्थः सिद्धः । तदाह बहस्पतिः" प्रयाणकाले च गृहप्रवेशं विवाहकाले ऽपि च दक्षिणाङ्घ्रिम् । कृत्वा ऽग्रतः शत्रुपुरप्रवेशे वामं निदध्याच्चरणं नृपालः" । इति । ५।४।२४ ॥
हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः ।
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।
गृहमेघैः पूरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ५।४।५ ॥
हसितेति । तूर्यघोषपुरस्सरैः हसितोत्कृष्टनिनदैः हसितानामुत्कृष्टस्वरैः युक्तेत्यर्थः । वज्राङ्कुशनिकाशैः वज्रमङ्कुशो यस्य सः वज्राङ्कुशः ऐरावतः तत्तुल्यैः तद्वच्छुभ्रैरित्यर्थः । वज्राङ्कुशतुल्यसंस्थानैर्वा । वज्रजालविभूषितैः वज्रो रत्नविशेषः । गृहमेघैः गृहश्रेष्ठैः । “उपमितं व्याघ्रादिभिः” इत्युपमितसमासः ॥ ५।४।५ ॥
प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभै ॥ ५।४।६ ॥
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ।
[गृहमुख्यः पुरी रम्या बभासे द्यौरिवाम्बुदैः] ५।४।७ ॥
तां चित्रमाल्याभरणां कपिराजहितङ्करः ।
राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ॥ ५।४।८ ॥
भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ ५।४।९ ॥
प्रजच्वालेत्यादि । पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेशषाभ्यां संस्थितैः । वर्द्धमानगृहैः वर्द्धमाननाम्ना संस्थानेन संस्थितैः गृहैः । तल्लक्षणानि वराहमिहिरसंहितायां व्यक्तानि विस्तभयान्न लिख्यन्ते ॥ ५।४।६९ ॥
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ ५।४।१० ॥
शुश्रावेति । त्रिस्थानस्वरभूषितं त्रिस्थानस्वरभूषितं त्रिस्थानेषु उरःकण्ठशिरस्सु भवैः स्वरैर्भूषितम् । ते च मन्द्रमध्यताराः ॥ ५।४।१० ॥
शुश्राव काञ्चीनिनदं नूपुराणां च निस्वनम् ।
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ।
अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ ५।४।११ ॥
सोपाननिनदांश्च मणिहेमकृतानां सोपानानां नूपुरादिताडनेन ये निनदाः संभवन्ति तान् । आस्फोटितनिनादान् व्यत्यस्तकरतलाभ्यां भुजाग्रास्फालनशब्दान् । क्ष्वेलितान् सिंहनादान् ॥ ५।४।११ ॥
शुश्राव जपतां तत्र मन्त्रान् रक्षो गृहेषु वै ॥ ५।४।१२ ॥
मन्त्रान् ऋग्वेदादीन् ॥ ५।४।१२ ॥
स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ।
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ॥ ५।४।१३ ॥
स्वाध्यायनिरतान् ब्रह्मभागपाठनिरतान् ॥ ५।४।१३ ॥
राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ॥ ५।४।१४ ॥
राजमार्गमिति । मध्यमे गुल्मे नगरमध्यस्थितसैन्यसमाजे । चरान् स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन् ॥ ५।४।१४ ॥
दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः ।
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ ५।४।१५ ॥
दीक्षितानित्यादि । गोजिनाम्बरधारिणः वृषभचर्मरूपवस्त्रधारिणः । दर्भमुष्टिप्रहरणान् “यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः"इति स्मरणादिति भावः । अग्निकुण्डायुधान् जयार्थं होमशीलान् ॥ ५।४।१५ ॥
कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।
एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ॥ ५।४।१६ ॥
कूटमुद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । “कूटो ऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु । छले बाणान्तरे दम्भे भग्नशृङ्गवृषे तु ना ।” इति शब्दरत्नाकरे । मुद्गरः द्रुघणो घनः ।” इति वैजयन्ती ॥ ५।४।१६ ॥
करालान् भग्नवक्त्रांश्च विकटान् वामनांस्तथा ।
धन्विनः ख़ड्गिनश्चैव शतघ्नीमुसलायुधान् ॥ ५।४।१७ ॥
करालान् भीमान् । “करालो दन्तुरे तुङ्गे विशाले विकृते ऽपि च” इति भागुरिः । भग्नवक्त्रान् कुटिलवक्त्रान् । “आविद्धं कुटिलं भग्नम्” इत्यमरः । विकटान् विषमाङ्गान् । शतघ्नी शतशङ्कुः अयोगदा । “अयः कण्टकसञ्छन्ना शतघ्नी परिकीर्तिता” इति वैजयन्ती । मुसलम् आयसो ऽरत्निप्रमाणको दण्डः । “मुसलं त्वायसो दण्डो धार्यो ऽरत्निप्रमाणकः” इति शब्दरत्नाकरे ॥ ५।४।१७ ॥
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ।
नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ ५।४।१८ ॥
नातिगौरान्नातिकृष्णान्नातिकुब्जान्नवामनान् ।
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ।
ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ॥ ५।४।१९ ॥
परिघः दण्डविशेषः । नातिदीर्घातिहृस्वकानित्यत्र हकारोपरि ऋकारोच्चारणं वृत्तभङ्गपरिहाराय । एवं ध्वजिनः इति वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ ५।४।१८,१९ ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ॥ ५।४।२० ॥
शक्तीत्यादि । पट्टिशः तीक्ष्णधारो लोहदण्डः । “पट्टिशो यो दीर्घदणडस्तीक्ष्णधारः क्षुरोपमः” इति निघण्टुः ॥ ५।४।२० ॥
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ।
स्त्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ ५।४।२१ ॥
नानावेषसमायुक्तान् यथास्वैरगतान् बहून् ।
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ ५।४।२२ ॥
क्षेपणी क्षेपणीयः । वेषः अलङ्कारः । यथास्वैरगतान् यथेष्टचारिणः ॥ ५।४।२१,२२ ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।
रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ॥ ५।४।२३ ॥
शतेति । शतसहस्रमेव शतसाहस्रम् । स्वार्थे अण् । आरक्षं गुल्मम् । अन्तः पुराग्रतः अन्तर्नगराग्रतः रक्षोधिपतिनिर्दिष्टं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ ५।४।२३ ॥
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ।
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ ५।४।२४ ॥
पुण्डरीकावतंसाभिः परिघाभिरलङ्कृतम् ।
प्राकारावृतमत्यन्तं ददर्श स महाकपिः ॥ ५।४।२५ ॥
स तदेत्यादिश्लोकद्वमेकान्वयम् । सः कपिः तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददर्शेत्यन्वयः । क्रियाभेदात्तच्छब्दद्वयम् ॥ ५।४।२४,२५ ॥
त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ।
वाजिहेषितसंघुष्टं नादितं भूषणैस्तदा ॥ ५।४।२६ ॥
रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ।
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ ५।४।२७ ॥
भूषितं रुचिराद्वारं मत्तैश्च मृगपक्षिभिः ।
रक्षितं सुमहावीर्यैर्वासुधानैः सहस्रशः ।
राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥ ५।४।२८ ॥
त्रविविष्टपेत्यादि । यानैः शिबिकादिभिः । विमानैः व्योमयानैः । हयगजैरित्यत्र गजशब्दः द्विदन्तगजपरः । अत्र न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः । रक्षिभिर्यातुधानैर्गुप्तमिति सम्बन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात् ॥ ५।४।२६२८ ॥
सहोमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितानाम् ।
परार्घ्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ ५।४।२९ ॥
इत्यार्षे श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः ॥ ५।४ ॥
सहेमेति । हेम अन्यत्र जातं सुवर्णम् । जाम्बूनदं जम्बूनद्यां जातम् । चक्रवालं प्रकारमण्डलम् । रावणान्तःपुरं रावणान्तर्नगरम् ॥ ५।४।२९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामयणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥ ५।४ ॥