स लम्बसिखरे लम्बे लम्बतोयदसन्निभे ।
सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः ॥ ५।३।१ ॥
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ ५।३।२ ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ५।३।३ ॥
स लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायम् । धैर्यमिति यावत् । विवेश प्राप ॥ ५।३।१३ ॥
सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ५।३।४ ॥
भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५।३।५ ॥
मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ५।३।६ ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ५।३।७ ॥
विटपावतीम् अलकाम् । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्ताम् ॥ ५।३।४७ ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ ५।३।८ ॥
विस्मयाविष्टहृदयः, अभूदिति शेषः ॥ ५।३।८ ॥
जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ।
वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ५।३।९ ॥
पुनर्हर्षहेतूनाह जाम्बूनदमयैरित्यादिना । जाम्बूनदमयैर्द्वारैरित्यादौ सहयोगे तृतीया । वज्रस्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति सम्बध्यते । राजतामलपाण्डुरैः अवयवैः ॥ ५।३।९ ॥
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।
चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ ५।३।१० ॥
क्रौञ्चबर्हिणसंघुष्टैराजहंसनिषेवितैः ।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ५।३।११ ॥
स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । सञ्जवनं चतुश्शालम् ॥ ५।३।१०,११ ॥
वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ ५।३।१२ ॥
तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ ५।३।१३ ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ ५।३।१४ ॥
वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वोकसरा शक्रस्य पूर्वस्यां दिशि वै पुरी” इति पुराणवचनात् ॥ ५।३।१२१४ ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ ५।३।१५ ॥
प्रसिद्धेयमिति । इयं लङ्का विदिता भवेत् ॥ ५।३।१५ ॥
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ ५।३।१६ ॥
समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः ॥ ५।३।१७ ॥
विवस्वत इति । गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषाभिमित्युक्तिश्चिन्ताप्राकारविशेषः ॥ ५।३।१६,१७ ॥
तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ ५।३।१८ ॥
तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः ।
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ ५।३।१९ ॥
अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ ४।३।२० ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ ४।३।२१ ॥
पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ ५।३।२२ ॥
कस्त्वं केन च कार्येण इह़ प्राप्तो वनालय ।
कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ ५।३।२३ ॥
तां रात्नेत्यत्र ददर्शेत्यपकृष्यते । न त्वेकं वाक्यं श्लोकद्वयम्, तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ॥ ५।३।१८२३ ॥
न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ ५।३।२४ ॥
अथ तामब्रवीद्वीरो हनूमानग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ ५।३।२५ ॥
का त्वं विरूपनयना पुरद्वारे ऽवतिष्ठसि ।
किमर्थं चापि मां रुद्ध्वा निर्भिर्त्सयसि दारुणा ॥ ५।३।२६ ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ ५।३।२७ ॥
अहं हाक्षसराजस्य रावणस्य महात्मनः ।
आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ ५।३।२८ ॥
न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ ५।३।२९ ॥
अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ ४।३।३० ॥
लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
यत्नवान् स हरिश्श्रेष्ठः स्थितः शैल इवापरः ॥ ५।३।३१ ॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।
आबभाषे ऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ ५।३।३२ ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।
इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ५।३।३३ ॥
नेति । अभिगुप्ता समावृतेत्यर्थः । अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ ५।३।२४३३ ॥
वनान्युपवनानीह लंकायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ५।३।३४ ॥
उपवनानि गृहोद्यानानि । काननानि शून्यारण्यानि ॥ ५।३।३४ ॥
तस्य तद्वचनं श्रुत्वा लंङ्का सा कामरूपिणी ।
भूय एव पुर्नवाक्यं बभाषे परुषाक्षरम् ॥ ५।३।३५ ॥
भूयः अतिशयेन परुषाक्षरमित्यन्वयः ॥ ५।३।३५ ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ ५।३।३६ ॥
मामिति । शक्यमित्येतदव्ययम् । तदाह कालिदासः “शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ " इति। पुरीरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण्यं वा ॥ ५।३।३६ ॥
ततः स कपिशार्दूलस्तामुवाच निशाचराम् ।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ५।३।३७ ॥
तत इति । यास्ये यास्यामि । इत्युवाचेति सम्बन्धः ॥ ५।३।३७ ॥
ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ५।३।३८ ॥
वेगिता साञ्जातवेगा ॥ ५।३।३८ ॥
ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।
ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ ५।३।३९ ॥
ततः संवर्तयामास वामहस्तस्य सो ऽङ्गुलीः ।
मुष्टिना ऽभिजघानैनां हनूमान् क्रोधमूर्च्छितः ॥ ५।३।४० ॥
स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः ॥ ५।३।४१ ॥
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ।
पपात सहसा भूमौ विकृताननदर्शना ॥ ५।३।४२ ॥
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ।
कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ ५।३।४३ ॥
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ।
उवाचागर्वितं वाक्यं हनुमान्तं प्लवङ्गमम् ॥ ५।३।४४ ॥
संवर्तयामास सङ्कोचयामास ॥ ५।३।३९४४ ॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।
समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ५।३।४५ ॥
प्रसीदेति । समये स्त्रीवधवर्जनव्यवस्थायाम् । सत्त्ववन्तः धैर्यवन्तः ॥ ५।३।४५ ॥
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ।
निर्जिता ऽहं त्वया वीर विक्रमेण महाबल ॥ ५।३।४६ ॥
इदं तु तथ्यं वै ब्रुवन्त्या मे हरीश्वर ।
स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ ५।३।४७ ॥
अहं त्वित्यर्धं भिन्नं वाक्यम्, एकवाक्यत्वे ऽहंशब्दस्य पुनरुक्तिः ॥ ५।३।४६,४७ ॥
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ।
तदा त्वया हि विज्ञेयं रक्षसां भयमगतम् ॥ ५।३।४८ ॥
स हि मे समयस्सौम्य प्राप्तो ऽद्य तव दर्शनात् ।
स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ ५।३।४९ ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ।
राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५।३।५० ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५।३।५१ ॥
वरदानस्वरूपमाह– यदेति । अत्र रावणस्य दिग्विजये नन्दिकेश्वरादिभिर्लङ्कायाः कृते विनाशशापे दत्ते सा ब्रह्माणं गत्वा प्रार्थयामास । विनाशो मे मा भूदिति । स च तस्यै वरमदात्, तव सद्यो विनाशो न भविष्यति यदा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो भविष्यतीति कथोन्नीयते ॥ ५।३।४८५१ ॥
प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् ।
यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ ५।३।५२ ॥
इत्यार्षे श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः ॥ ५।३ ॥
प्रविश्येति शापो नन्दिकेश्वरादिकृतः । यदृच्छयेत्यस्य गत इति सम्बन्धः । यदृच्छाया ऽत्र प्राप्तस्त्वमित्यर्थः ॥ ५।३।५२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ ५।३ ॥