००१ हनुमता सागरोल्लङ्घनम्

॥ श्रीमते रामानुजाय नमः ॥

तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः ।

अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमान् शठारिर्गुरुः ॥ १ ॥

श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः । व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ॥ २ ॥

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ।

इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ ५।१।१ ॥

उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते, वक्ष्यति हि तत् “ब्रह्मा स्वयंभूः” इत्यादिना ॥ यद्वा पूर्वस्मिन् काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तम् । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते–तत इत्यादि । ततः जाम्बवत्प्रोत्साहनानन्तरम् । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतीयाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशे ऽपि पदन्यासान्वेषणसमर्थो ऽयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरम् । शत्रुकर्शनः"गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ।" इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि “महाजनो येन गतस्स पन्थाः” इत्युक्तसदाचारे, स्थित इति शेषः । रावयति असत्प्रलापान्कारयतीति रावणः अविवेकः, तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च “स्त्रीप्रायमितरत्सर्वम्” इति ह्युक्तम् । पदं स्थानं संसारमण्डलमन्वेष्टुम्, सात्त्विकसंभाषणादिचिह्नं वा । तथोक्तम् “विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । सम्भाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः” इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुम् इयेष । “पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः । अत्रैकादशसहस्रश्लोका गताः । द्वादशसहस्रस्यादिमो ऽयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं तदवलोकनीयं विद्वद्भिः ॥ ५।१।१ ॥

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ।

समुदग्रशीरोग्रीवो गवां पतिरिवा ऽ ऽबभौ ॥ ५।१।२ ॥

दुष्करमिति । निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्रशिरोग्रीवः समुन्नतशिरोग्रीवः गवां पतिः वृषभः ॥ ५।१।२ ॥

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।

धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥ ५।१।३ ॥

अथेति । शाद्वलानां सलिलकल्पत्वं वैडूर्यवर्णतया ॥ ५।१।३ ॥

द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।

मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ॥ ५।१।४ ॥

द्विजानिति । केसरीव बभाविति शेषः ॥ ५।१।४ ॥

नीललोहितमाञ्जिष्ठपत्रवर्णैस्सितासितैः ।

स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ ५।१।५ ॥

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।

यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ ५।१।६ ॥

स तस्य गिरिवर्यस्य तले नागवरायुते ।

तिष्ठते कपिवरस्तस्य ह्रदे नाग इवाबभौ ॥ ५।१।७ ॥

नीलेति, अत्र यच्छब्दो ऽध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवर्णैः पत्रश्यामैः । “पलाशो हरितो हरित्” इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ॥ ५।१।५७ ॥

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।

भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ५।१।८ ॥

स सूर्यायेति । स्वयम्भुवे चतुर्मुखाय । भूतेभ्यः देवयोनिभ्यः ॥ ५।१।८ ॥

अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये ।

ततो ऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ५।१।९ ॥

अञ्जलिमिति । आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखः सन् आत्मयोनये पवनाय अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्निति पाठस्त्वयुक्तः, शतृप्रत्ययेन प्राङ्मुखत्वविशेष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयेरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सत्तो दक्षिणदिग्गमनोद्योगो युज्यते ॥ ५।१।९ ॥

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।

ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ ५।१।१० ॥

प्लवङ्गेति ॥ रामवृद्ध्यर्थं रामप्रयोजनार्थम् ॥ ५।१।१० ॥

निष्प्रमाणशरीरस्सन् लिलङ्घयिषुरर्णवम् ।

बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ५।१।११ ॥

निष्प्रमाणशरीरः निर्मर्यादशरीरः ॥ बाहुभ्यामित्युक्तिर्वानरस्य चतुर्भिः सञ्चारात् ॥ ५।१।११ ॥

स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।

तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ ५।१।१२ ॥

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।

सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥ ५।१।१३ ॥

तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ।

सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ ५।१।१४ ॥

स चचालेति । चापीत्येकमव्ययमप्यर्थकम् । अशातयत् अगच्छत् । स्वर्थे णिच् ॥ ५।१।१२१४ ॥

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।

रीतिर्निर्वर्तयामास कगाञ्चनाञ्जनराजतीः ॥ ५।१।१५ ॥

पीड्यमान । रीतीः रेखाः काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ ५।१।१५ ॥

मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ।

मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ ५।१।१६ ॥

मुमोचेति । समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया, पार्श्वज्वाला हि न धूमनिवर्तिका ॥ ५।१।१६ ॥

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।

गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ॥ ५।१।१७ ॥

गिरिणेति । विकृतैः विकृतिमद्भिः, दैन्यव्यञ्जकैरित्यर्थः ॥ ५।१।१७ ॥

स महासत्त्वसन्नादश्शैलपीडानिमित्तजः ।

पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ ५।१।१८ ॥

स इति । सत्त्वसन्नादः भूतसन्नादः ॥ ५।१।१८ ॥

शिरोभिः पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ।

वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ ५।१।१९ ॥

शिरोभिरिति ॥ स्वस्तिकं नाम फणोपरि दृश्यमानार्धचन्द्रकम् । ददंशुरिति । दंशनं कोपव्यापारः ॥ ५।१।१९ ॥

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।

जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ ५।१।२० ॥

ता इति । बिभिदुः भिन्नाः ॥ ५।१।२० ॥

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।

विषघ्नान्यपि नागानां न शकुश्शमितुं विषम् ॥ ५।१।२१ ॥

यानीति । अत्र तानीत्यध्याहार्यम् । शमितुं शमयितुम् ॥ ५।१।२१ ॥

भिद्यते ऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ ५।१।२२ ॥

भिद्यत इत्यर्धमेकम् । उत्पेतुरित्यनुषज्यते ॥ ५।१।२२ ॥

त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ।

पानभूमिगतं हित्वा हैममासवभाजनम् ।

पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ ५।१।२३ ॥

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।

आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ ५।१।२४ ॥

त्रस्ता इत्यादिसार्दश्लोकद्वमेकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ॥ ५।१।२३,२४ ॥

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।

रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ ५।१।२५ ॥

कृतेति । कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ ५।१।२५ ॥

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।

विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ ५।१।२६ ॥

हारेति । पारिहार्यं वलयम् । तस्थुः तस्थुश्च ॥ ५।१।२६ ॥

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।

सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ॥ ५।१।२७ ॥

दर्शयन्तः प्रयोजयन्तः । महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनश्लोके विद्याधराणामेवोपादानात् ॥ ५।१।२७ ॥

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मानम् ।

चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे ॥ ५।१।२८ ॥

एष पर्वतसङ्काशो हनूमान् मारुतात्मजः ।

तितीर्षति महावेगस्समुद्रं मकरालयम् ॥ ५।१।२९ ॥

रामार्थं वानरार्थं च चिकार्षन् कर्म दुष्करम् ।

समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ ५।१।३० ॥

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।

तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ५।१।३१ ॥

दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।

ननाद सुमहानादं सुमहानिव तोयदः ॥ ५।१।३२ ॥

समुद्रं तितीर्षतीत्युक्तम् । तस्य प्रयोजनकथनायोक्तमनुवदति रामार्थमिति ॥ ५।१।३०३२ ॥

आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम् ।

उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ ५।१।३३ ॥

तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।

ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ५।१।३४ ॥

आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ॥ ५।१।३३३४ ॥

बाहू संस्तम्भयामास महापरिघसन्निभौ ।

ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ५।१।३५ ॥

लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ॥ ५।१।३५ ॥

संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम् ।

तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ५।१।३६ ॥

संहृत्येति । संहृत्य संकोच्य ॥ ५।१।३६ ॥

मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः ।

रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ५।१।३७ ॥

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।

निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।

वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ५।१।३८ ॥

यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः ।

गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ५।१।३९ ॥

मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ॥ ५।१।३७३९ ॥

नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।

अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ५।१।४० ॥

नहीति । हिशब्दः पादपूरणे ॥ ५।१।४० ॥

यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।

बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ५।१।४१ ॥

सर्वथा कृकार्यो ऽहमेष्यामि सह सीतया ।

आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ५।१।४२ ॥

एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ॥ ५।१।४३ ॥

उत्पपाताथ वेगेन वेगवानविचारयन् ।

सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ५।१।४४ ॥

यदीति । अकृतश्रमः अप्राप्तश्रमः । पाक्षप्तराजावमित्यत्र टजभाव आर्षः । आनयिष्यामि आनेष्यामि ॥ ५।१।४१४४ ॥

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।

संहृत्य विटपान् सर्वान् समुत्पेतुस्समन्ततः ॥ ५।१।४५ ॥

समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान् संहृत्य आदाय, समुत्पेतुरित्यर्थः ॥ ५।१।४५ ॥

स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।

उद्वहन्नूरुवेगेन जगाम विमले ऽम्बरे ॥ ५।१।४६ ॥

उरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।

प्रस्थितं दार्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ५।१।४७ ॥

संग्रहणोक्तं विवृणोति स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः ॥ ५।१।४६,४७ ॥

तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः ।

अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ५।१।४८ ॥

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।

हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ ५।१।४९ ॥

तमिति । तमूरुवेगेति पाठः । ऊरुवेगेन उन्मथिताः सालाः सावृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः ।सैन्याः सेनायां समवेताः पुरुषाः । “सेनायां समवेता ये सैन्यास्ते नैनिकाश्च ते” इत्यमरः ॥ ५।१।४८,४९ ॥

सारवन्तो ऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।

भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५।१।५० ॥

सारवन्तः स्तिरांशवन्तः । “सारो बले स्थिरांशे च " इत्यमरः ॥ ५।१।५० ॥

स नानाकुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः ।

शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ ५।१।५१ ॥

स नानाकुसुमैरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ॥ ५।१।५१ ॥

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।

अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ५।१।५२ ॥

विमुक्ता इति ॥ अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः । सुहृत्पक्षे सलिल सामीप्ये सप्तमी । “उदकान्तात् स्निग्धो बन्धुव्रजेत्” इत्युक्तेः ॥ ५।१।५२ ॥

लघुत्वेनोपन्नं तद्विचित्रं सागरे ऽपतत् ।

द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५।१।५३ ॥

लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ॥ ५।१।५३ ॥

ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ ५।१।५४ ॥

तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशं प्रबभौ स महार्णवः ॥ ५।१।५४ ॥

पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।

बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥ ५।१।५५ ॥

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ।

ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५।१।५६ ॥

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।

पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५।१।५७ ॥

पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ॥ ५।१।५५५७ ॥

पिबन्निव बभौ चापि सोर्मिजालं महर्णवम् ।

पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५।१।५८ ॥

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।

नयने विप्रकाशेते पर्वतस्ताविवानलौ ॥ ५।१।५९ ॥

पिबन्निवेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमम्बरं च । ततो ऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ॥ ५।१।५८,५९ ॥

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।

चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ॥ ५।१।६० ॥

पिङ्गे पिङ्गलवर्णे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ॥ ५।१।६० ॥

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।

सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥ ५।१।६१ ॥

मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ॥ ५।१।६१ ॥

लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।

अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ ५।१।६२ ॥

लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रो ऽनिलात्मजः ।

व्यरोचतमाहाप्राज्ञः परिवेषीव भास्करः ॥ ५।१।६३ ॥

लाङ्गूलमिति । समाविद्धम् उन्नतीकृतम् ॥ ५।१।६२६३ ॥

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।

महता दारितेनेव गिरिर्गैरिकधातुना ॥ ५।१।६४ ॥

स्फिग्देशेन वालमूलप्रदेशेन ॥ ५।१।६४ ॥

तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।

कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ५।१।६५ ॥

गर्जति अगर्जत् ॥ ५।१।६५ ॥

खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ।

दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ५।१।६६ ॥

खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ॥ ५।१।६६ ॥

पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः ।

प्रवृद्ध इव मातङ्गः कक्ष्यया बद्ध्यमानया ॥ ५।१।६७ ॥

पतदिति । पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव, कक्ष्यायां बद्ध्यमानायां हि मातङ्गो दीर्घो भवति ॥ ५।१।६७ ॥

उपरिष्टाच्छरीरेण च्छायया चावगाढया ।

सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ५।१।६८ ॥

उपरिष्टादिति । नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चेर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ५।१।६८ ॥

यं यं देशं सुमुद्रस्य जगाम स महाकपिः ।

स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ५।१।६९ ॥

यं यमिति । सोन्माद इव समुद्धर्ष इव, समुद्धतजल इत्यर्थः ॥ ५।१।६९ ॥

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।

अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ५।१।७० ॥

कपिवातश्च बलवान् मेघवातश्च निःसृतः ।

सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ५।१।७१ ॥

सागरस्येति । शैलवर्ष्मणां शैलतुल्यानाम् । “वर्ष्म देहप्रमाणयोः” इति सज्जनः ॥ ५।१।७०,७१ ॥

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।

पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ ५।१।७२ ॥

विकरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ॥ ५।१।७२ ॥

मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे ।

अतिक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ ५।१।७३ ॥

मेर्विति । अतिक्रामत् अत्यक्रामत् ॥ ५।१।७३ ॥

तस्य वेगसमुद्धूतं जलं सजलदं तदा ।

अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ ५।१।७४ ॥

तस्येति । तस्य हनूमतः । वेगेन ऊरुवातेन । समुद्धूतं समुत्तापतम् । सजलदं जलं जलदो जलं चोद्दूतमित्यर्थः ॥ ५।१।७४ ॥

तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।

वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ५।१।७५ ॥

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।

व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ५।१।७६ ॥

तिमीति । तिमयो महामत्स्याः, नक्राः ग्राहाः, झषाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ५।१।७५,७६ ॥

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।

छाया वानरसिंहस्य जले चारुतरा ऽभवत् ॥ ५।१।७७ ॥

दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्ध्येत । न हि बिम्बादधिकपरिमाणत्वं प्रतिबिम्बस्य सम्भवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया तथाप्रमाणा दृश्येतैव ॥ ५।१।७७ ॥

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।

तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ५।१।७८ ॥

शुशुभे स महातेजा महाकायो महाकपिः ।

वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ५।१।७९ ॥

श्वेतभ्रेति अभ्रघनः अभ्रमूर्तिः ॥ ५।१।७८,७९ ॥

येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।

तेन मार्गेण सहसा द्रोणाकृत इवार्णवः ॥ ५।१।८० ॥

येनेति । द्रोणी कटाहः ॥ ५।१।८० ॥

आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् ।

हनुमान् मेधजालानि प्रकर्षन् मारुतो यथा ॥ ५।१।८१ ॥

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।

कपिना ऽ ऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ५।१।८२ ॥

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।

प्रच्छन्नस्य प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ५।१।८३ ॥

प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।

ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ५।१।८४ ॥

आपात इति । आपाते मार्गे ॥ ५।१।८१८४ ॥

तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।

सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ५।१।८५ ॥

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।

जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ५।१।८६ ॥

ततापेति । रामकार्यं सीतान्वेषणम् तदेवार्थः प्रयोजनं सिद्धये लाभाय, तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ॥ ५।१।८५,८६ ॥

नागाश्चतुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।

प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ५।१।८७ ॥

नागा इति । रक्षांसि दिक्पालकरक्षस्सम्बन्धीनि ॥ ५।१।८७ ॥

तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।

इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ५।१।८८ ॥

तस्मिन्निति । मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ॥ ५।१।८८ ॥

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।

करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ५।१।८९ ॥

अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः ।

इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ ५।१।९० ॥

तथा मया विधातव्यं विश्रमेत यथा कपिः ।

शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ॥ ५।१।९१ ॥

साहाय्यमिति । सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छताम् ॥ ५।१।८९९१ ॥

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।

हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ५।१।९२ ॥

इतीति । हिरण्यनाभं हिरण्यश्रृङ्गम् नाभिशब्दो ह्यध्यक्षवाची, शृङ्गं च पर्वतस्याध्यक्षमेव । “नाभिरध्यक्षकस्तूर्योः"इति दर्पणः ॥ ५।१।९२ ॥

त्वमिहासुरसङ्घानां पातालतलवासिनाम् ।

देवराज्ञा गिरश्रेष्ठ परिघः सन्निवेशितः ॥ ५।१।९३ ॥

त्वमिति । परिघः अर्गलम् । “परिघो मुद्गरे ऽर्गले " इति दर्पणः ॥ ५।१।९३ ॥

त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ।

पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ५।१।९४ ॥

परिघत्वमेवाह त्वमेषामिति ॥ ५।१।९४ ॥

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्द्धितुम् ।

तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ ५।१।९५ ॥

स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।

हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ ५।१।९६ ॥

तिर्यगिति । शक्तिः अस्तीति शेषः ॥ ५।१।९५,९६ ॥

अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ५।१।९७ ॥

अस्येति । इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य पूज्यतमास्तव मत्सम्बन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ॥ ५।१।९७ ॥

कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।

कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ ५।१।९८ ॥

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।

अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ५।१।९९ ॥

कुर्विति । कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपम् उदारयेत् प्रेरयेत् उत्पादयेत् ॥ ५।१।९८,९९ ॥

चामीकरमहानाभ देवगन्धर्वसेवित ।

हनुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ॥

[स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्] ॥ ५।१।१०० ॥

चामीकरोति । चमीकरमहानाभ स्वर्णमयमहाशृङ्ग ॥ ५।१।१०० ॥

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।

श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ ५।१।१०१ ॥

काकुत्स्थस्येति । काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयाम् ॥ ५।१।१०१ ॥

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।

उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ ५।१।१०२ ॥

स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ।

यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ ५।१।१०३ ॥

स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ।

दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ ५।१।१०४ ॥

हिरण्यनाभ इति । निशम्य, वचनमिति शेषः ॥ ५।१।१०२१०४ ॥

शातकुम्भनिभैश्श्रृङ्गैस्सकिन्नरमहोरगैः ।

आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ ५।१।१०५ ॥

शातकुम्भेति । शातकुम्भनिभैः स्वर्णसदृशैः आदित्योदयसङ्काशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षितः शृङ्गाणि दर्शयामासेति योजना ॥ ५।१।१०५ ॥

तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य समुत्थितैः ।

आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ॥ ५।१।१०६ ॥

जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः ।

आद्त्यशतसङ्काशस्सो ऽभवद्गिरिसत्तमः ॥ ५।१।१०७ ॥

तप्तेति । शस्त्रसङ्काशं नीलमित्यर्थः । “शस्त्रमायुधलोहयोः” इति विश्वः ॥ ५।१।१०६,१०७ ॥

तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ।

मध्ये लवणतोयस्य विघ्नो ऽयमिति निश्चितः ॥ ५।१।१०८ ॥

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।

उरसा पातयामास जीमूतमिव मारुतः ॥ ५।१।१०९ ॥

तमिति । निश्चितः निश्चितवान् । कर्तरि निष्ठा ॥ ५।१।१०८,१०९ ॥

स तदा पातितस्तेन कपिना पर्वतोत्तमः ।

बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ ५।१।११० ॥

जहर्ष विसिष्मिये ॥ ५।१।११० ॥

तमाकाशगतं वीरमाकाशे समुपस्थितः ।

प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।

मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ॥ ५।१।१११ ॥

दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ।

निपत्य मम श्रृङ्गेषु विश्रमस्व यथासुखम् ॥ ५।१।११२ ॥

राघवस्य कुले जातैरुदधिः परिवर्द्धितः ।

स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ ५।१।११३ ॥

तमिति । प्रीतः प्रीतिद्योतकव्यापारः ॥ ५।१।१११११३ ॥

कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ।

सो ऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ ५।१।११४ ॥

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।

तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ ५।१।११५ ॥

कृते इति । कृते उपकारे त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी । त्वत्तः संमानमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमानमित्यर्थः ॥ ५।१।११४,११५ ॥

योजनानां शतं चापि कपिरेष समाप्लुतः ।

तव सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ॥ ५।१।११६ ॥

चोदनाप्रकारमाहयोजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वेणान्वयः ॥ ५।१।११६ ॥

तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ।

तदास्वाद्य हरि श्रेष्ठ विङन्तो ऽनुगमिष्यसि ॥ ५।१।११७ ॥

तदिति । तत्प्रसिद्धम् । कन्दः करहाटः । मूलं पादः । तत्तस्मात् ॥ ५।१।११७ ॥

अस्माकमपि सम्बन्धः कपिमुख्य त्वया ऽस्ति वै ।

प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ ५।१।११८।

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।

तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ ५।१।११९ ॥

अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता ॥

धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ ५।१।१२० ॥

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥

पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ ५।१।१२१ ॥

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।

तस्मात्त्वं पूजनीयो मे श्रृणु चाप्यत्र कारणम् ॥ ५।१।१२२ ॥

अस्माकमिति । प्रख्यात इति सम्बन्धविशेषणम् । महागुणानां परिग्रहां यस्मिन्स तथा ॥ ५।१।११८१२२ ॥

पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन् ।

ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ ५।१।१२३ ॥

ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ।

भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ ५।१।१२४ ॥

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।

पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशुः ॥ ५।१।१२५ ॥

स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।

ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ ५।१।१२६ ॥

संबन्धं विवृणोति पूर्वमित्यादिना । पक्षिणः पक्षवन्तः । हिः पादपूरणे ॥ ५।१।१२३१२६ ॥

अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।

गुप्तपक्षसमग्रश्च तव पित्रा ऽभिरक्षितः ॥ ५।१।१२७ ॥

ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः ।

त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ ५।१।१२८ ॥

तस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।

प्रीतिं प्रीतमानाः कर्तुं त्वमर्हसि महाकपे ॥ ५।१।१२९ ॥

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।

प्रीतिं च बहु मन्यस्व प्रीतो ऽस्मि तव दर्शनात् ॥ ५।१।१३० ॥

एवमुक्तः कपिश्रष्ठस्तं नगोत्तममब्रवीत् ॥ ५।१।१३१ ॥

अस्मिन्निति । समग्रः समग्रपक्षः, गुप्तसमग्रपक्षश्च यथा भवामि तथा अभिरक्षितो ऽस्मीत्यर्थः ॥ ५।१।१२७१३१ ॥

प्रीतो ऽस्मि कृतमातिथ्यं मन्युरेषो ऽपनीयताम् ।

त्वरिते कार्यकालो मे अहश्चाप्यतिवर्तते ।

प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ ५।१।१३२ ॥

प्रीतोस्मीति । कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः, मत्कृता पूजा गृहीतेति कोपो निरस्यतामित्यर्थः । कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते, अत्र विलम्बः क्रियते चेदिदमहो ऽतिवर्तते इत्यर्थः । इह समुद्रे

अन्तरे मध्ये मया न स्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥ ५।१।१३२ ॥

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।

जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ ५।१।१३३ ॥

स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।

पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ ५।१।१३४ ॥

इत्युक्त्वेति । प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ ५।१।१३३,१३४ ॥

अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ।

पितुः पन्थानमास्थाय जगाम विमले ऽम्बरे ॥ ५।१।१३५ ॥

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ।

वायुसूनुर्निरालम्बे जगाम विमले ऽम्परे ॥ ५।१।१३६ ॥

अथेति । हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रो ऽपि मूर्तिमत्तया तत्रादृश्यतेति सूचितम् ॥ ५।१।१३५,१३६ ॥

तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।

प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ ५।१।१३७ ॥

देवताश्चाभवन् हृष्टास्तत्रस्तास्तस्य कर्मणा ।

काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ ५।१।१३८ ॥

उवाच वचनं धीमान् परितोषात् सगद्गदम् ।

सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ ५।१।१३९ ॥

हिरण्यनाभ शैलेन्द्र परितुष्टो ऽस्मि ते भृशम् ।

अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ ५।१।१४० ॥

तद्द्वितीयमिति । द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपं कर्म । ५।१।१३७१४० ॥

साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।

क्रमतो योजनशतं निर्भयस्य भये सति ॥ ५।१।१४१ ॥

रामस्यैष ह दूत्येन याति दाशरथेर्हरिः ।

सत्क्रियां कुर्वतां तस्य तोषितो ऽस्मि दृढं त्वया ॥ ५।१।१४२ ॥

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।

देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ ५।१।१४३ ॥

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।

हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ ५।१।१४४ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ॥ ५।१।१४५ ॥

अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।

हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ ५।१।१४६ ॥

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।

दंष्ट्रा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम् ॥ ५।१।१४७ ॥

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।

त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ ५।१।१४८ ॥

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।

समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ ५।१।१४९ ॥

विकृतं च विरूपं च सर्वस्य च भयावहम् ।

प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ ५।१।१५० ॥

मम भक्ष्यः(क्षः) प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।

अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ ५।१।१५१ ॥

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।

प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ ५।१।१५२ ॥

रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ ५।१।१५३ ॥

साह्यमिति । भये सति समुद्रलङ्घने ऽस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः ॥

५।१।१४११५३ ॥

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।

तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ ५।१।१५४ ॥

अन्येति । अन्यकार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ ५।१।१५४ ॥

तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।

कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ ५।१।१५५ ॥

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ ५।१।१५६ ॥

तस्या इति । विषयवासिनी रामराज्यवासिनी ॥ ५।१।१५५,१५६ ॥

एवमुक्ता हनुमता सुरसा कामरूपिणी ।

अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ ५।१।१५७ ॥

एवमिति । नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्षम् । अत्र इतिकरणं द्रष्टव्यम् । अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो ममेत्यस्यानन्तरं तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमानित्यादिश्लोका द्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च, शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रत्रिप्तश्लोकाः ः"तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सरसया क्रुद्धो वारपुङ्गवः । अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सरसां क्रुद्धो दशयोजनमायतः । दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् । चकार सुरसा चास्यं विशद्योजनमायत् । हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः । चकार सुरसा वक्त्रं चत्वारिशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः । चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनामायतम्” इति ॥ ५।१।१५७ ॥

[तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।

बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ १ ॥

प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम ।

वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ २ ॥

व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ।

एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ ३ ॥

अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे ।

इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ ५ ॥

दशयोजनविस्तारो बभूव हनुमांस्तदा ।

तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥ ५ ॥

चकार सुरसा चास्यं विंशद्योजनमायतम् ।

तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥ ६ ॥

हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः ।

चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ ७ ॥

बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः ।

चकार सुरसा वक्त्रं षष्टियोनमायतम् ॥ ८ ॥

तथैव हनुमान् वीरः सप्ततीयोजनोच्छ्रितः ।

चकार सुरसा वक्त्रमशीतीयोजनायतम् ॥ ९ ॥

हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ।

चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १० ॥ ]

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।

[दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ।]

सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ ५।१।१५८ ॥

सो ऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ ५।१।१५९ ॥

प्रकृतं विलिख्यते– तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठामात्रकः ॥ ५।१।१५८,१५९ ॥

प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते ।

गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ॥ ५।१।१६० ॥

तं दृष्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।

अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ ५।१।१६१ ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानयस्व वैदेहीं राघवेण महात्मना ॥ ५।१।१६२ ॥

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।

साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ ५।१।१६३ ॥

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।

जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ ५।१।१६४ ॥

प्रविष्टोस्मीति । दक्षस्यापत्यं दाक्षायणी, तत्त्वं च पूर्वं वरप्रदानकथनसमये तयैव कथितमित्यनुवादात् कल्प्यते ॥ ५।१।१६०१६४ ॥

सेविते वारिधाराभिः पतगैश्च निषेविते ।

चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ ५।१।१६५ ॥

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।

विमानैः संपतद्भिश्च विमलैः समलङ्कृते ॥ ५।१।१६६ ॥

वज्राशनिसमाघातैः पावकैरुपशेभिते ।

कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृतै ॥ ५।१।१६७ ॥

वहता हव्यमत्यर्थं सेविते चित्रभानुना ।

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ ५।१।१६८ ॥

महर्षिगणगन्धर्वनागयक्षसमाकुले ।

विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ ५।१।१६९ ॥

देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।

विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ ५।१।१७० ॥

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।

जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ ५।१।१७१ ॥

प्रदृश्यमानस्सर्वत्र हनुमान् मारुतात्मजः ।

भेजे ऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ ५।१।१७२ ॥

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।

मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ ५।१।१७३ ॥

आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुम् आकाशस्वरूपं वर्ण्यते–सेवित इत्यादिना श्लोकसप्तकेन । कैशिकाचार्यैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः । वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः । हव्यं वहता देवेभ्यो हव्यवाहनार्थं गतेन चित्रभानुना वह्निना । विश्वे विश्वगते, व्यापक इत्यर्थः । देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणम् ॥ ५।१।१६५१७३ ॥

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।

इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ ५।१।१७४ ॥

अद्येति । दीर्घस्य कालस्य दीर्घकाले गेत सति अद्य आशिता आशित्री भुक्तवती भविष्यामि ॥ ५।१।१७४ ॥

इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।

छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ ५।१।१७५ ॥

इतीति । समाक्षिपत् सम्यग्गृहीतवती ॥ ५।१।१७५ ॥

समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः ।

प्रतिलोमेन वातेन महानौरिव सागरे ॥ ५।१।१७६ ॥

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।

ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ ५।१।१७७ ॥

तदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।

कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ ५।१।१७८ ॥

समाक्षिप्त इति । पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकूलेन ॥ ५।१।१७६१७८ ॥

छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।

स तां बुद्ध्वा ऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः ।

व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ ५।१।१७९ ॥

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।

वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ॥ ५।१।१८० ॥

छायाग्राहीति । तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ॥ ५।१।१७९,१८० ॥

घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ ५।१।१८१ ॥

घनराजीवेति । समभिद्रवत् समभ्यद्रवत् ॥ ५।१।१८१ ॥

स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।

कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ ५।१।१८२ ॥

स ददर्शेति । कायमात्रं देहप्रमाणम् ॥ ५।१।१८२ ॥

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।

संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ ५।१।१८३ ॥

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।

ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ ५।१।१८४ ॥

स इति । मुहुस्संक्षिप्य संनिकर्षानुगुणं सङ्कुच्य ॥ ५।१।१८३,१८४ ॥

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।

उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ ५।१।१८५ ॥

तत इति । ततः तेन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ ५।१।१८५ ॥

तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य च ।

स कपिप्रवरो वेदाद्ववृधे पुनरात्मवान् ॥ ५।१।१८६ ॥

तामिति । दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ॥ ५।१।१८६ ॥

हृतहृत् सा हनुमता पपात विधुरा ऽम्भसि ।

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।

भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥ ५।१।१८७ ॥

हृतहृदिति । विधुरा आर्ता ॥ ५।१।१८७ ॥

भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।

साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ ५।१।१८८ ॥

यस्य त्वेतानि चत्वारि वानरेन्द्र चथा तव ।

धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ ५।१।१८९ ॥

भीममित्यादि । अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टिः आयतिक्षमसूक्ष्मेक्षणम् । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यम् । यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतम् । तान्येव चत्वार्याह धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति या दृष्टिर्नावसीदति या मतिर्नावसीदति यद्दाक्ष्यं नावसीदति एतानि चत्वारि यसय सन्ति तत्त्वया हतमिति यजना ॥ ५।१।१८८,१८९ ॥

स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः ।

जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ ५।१।१९० ॥

स इति। संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः, स च स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ ५।१।१९० ॥

प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ।

योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ ५।१।१९१ ॥

प्राप्तेति । प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ॥ ५।१।१९१ ॥

ददर्श च पतन्नेव विविधद्रुमभूषितम् ।

द्वीपं शाकामृगश्रेष्ठो मलयोपवनानिच ॥ ५।१।१९२ ॥

ददर्शेति । मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलयः तस्योपवनानि ॥ ५।१।१९२ ॥

सागरं सागरानूपं सागरावनूपजान् द्रुमान् ।

सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ ५।१।१९३ ॥

स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ।

निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ ५।१।१९४ ॥

सागरमिति । सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानाम् । आत्मानं स्वशरीरम् । मतिं चकार मेन इति यावत् ॥ ५।१।१९३,१९४ ॥

कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।

मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ ५।१।१९५ ॥

कथं मेन इत्यत्राहकायवृद्धिमिति ॥ ५।१।१९५ ॥

ततः शरीरं संत्रिप्य तन्महीधरसन्निभम् ।

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ ५।१।१९६ ॥

तत इति । पुनः प्रकृतमिमापेदे पुनर्निजाकारं प्राप्तवान् ॥ ५।१।१९६ ॥

तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ।

त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ ५।१।१९७ ॥

उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति–तद्रूपमिति ॥ ५।१।१९७ ॥

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।

परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ ५।१।१९८ ॥

स चार्विति । प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः, अभूदिति शेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ॥ ५।१।१९८ ॥

ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे ।

सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ ५।१।१९९ ॥

तत इति । लम्बस्य लम्बमानस्येव स्थितस्य, अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । “कूटस्त्वस्त्रियां पुञ्जपालयोः” इति दर्पणः । उद्दालकाः श्लेष्मातकाः ॥ ५।१।१९९ ॥

ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।

कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ॥ ५।१।२०० ॥

व्यथयन् मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति– ततस्त्विति । समुद्रतीरं तीरोपर्याकाशम् । विधूय रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ ५।१।२०० ॥

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।

निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ ५।१।२०१ ॥

॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः ॥ ५।१ ॥

अस्मिन् सर्गे सार्द्धैकाधिकद्विशतश्लोकाः ॥ ५।१।२०१ ॥

इति श्रीगोविराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प्रथमः सर्गः ॥ ५।१ ॥