०६७ हनुमता सागरोल्लङ्घननिश्चयः

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।

वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ ४।६७।१ ॥

सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः ।

विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥ ४।६७।२ ॥

प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।

त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ ४।६७।३ ॥

संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।

समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् ॥ ४।६७।४ ॥

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।

तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ४।६७।५ ॥

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।

मारुतस्यौरसः पुत्त्रस्तथा सम्प्रति जृम्भते ॥ ४।६७।६ ॥

तं दृष्ट्वेत्यादि । जृम्भमाणं वर्धमानम् ॥ ४।६७।१६ ॥

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।

अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ४।६७।७ ॥

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।

अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत् ॥ ४।६७।८ ॥

अशोभतेति । आदिप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभत । अम्बरीषं भ्राष्ट्रम् । “क्लीबे ऽम्बरीषं भ्राष्टो ना” इत्यमरः ॥ ४।६७।७,८ ॥

अरुजत्पर्वताग्राणि हुताशनसखो ऽनिलः ।

बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ४।६७।९ ॥

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।

मारुतस्यौरसः पुत्त्रः प्लवने नास्ति मत्समः ॥ ४।६७।१० ॥

अरुजदित्यादि । अनिलः गमनशीलः । “अन प्राणने” इत्यस्मादौणादिक इलप्रत्ययः । शीघ्रवेगस्य शीघ्राः वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । तत्साम्यमसहमानस्ततो ऽप्याधिक्यमाह शीघ्रगस्येति । यद्वा शीघ्रवेगस्य अत एव शीघ्रगस्य ॥ ४।६७।९,१० ॥

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।

मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ४।६७।११ ॥

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।

समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ ४।६७।१२ ॥

ममोरुजङ्घवेगेन भविष्यति समुत्थितः ।

समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ॥ ४।६७।१३ ॥

उत्सहेयमिति । विस्तीर्णमिति मेरुविशेषणम् । वानरसेनाभयनिवृत्यर्थं स्वोत्कर्षंमपि स्वयं निवेदयति ॥ ४।६७।१११३ ॥

पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।

वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ ४।६७।१४ ॥

पन्नगाशनं स्वोचिताहारलाभाय निरवधिकत्वरामसम्पन्नम् । यद्वा आहारग्रहणत्वरया सर्वेषां भयावहम् । पतन्तं न तु वर्तमानम् । आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति स्वपरिकरसम्पत्तिरुच्यते । वैनतेयं विनतापुत्रम् । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं तस्यापि प्राणदातुः पुत्रः । परिगन्तुं परितो गन्तुं प्रदक्षिणीकर्तुम् । सहस्रशः एकयत्नेन सहस्रशः परिगन्तुं शक्तः । आजानसिद्धसामर्थ्यो ऽस्मि ॥ ४।६७।१४ ॥

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।

अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ ४।६७।१५ ॥

उदयात् प्रस्थितम् उदयगिरेर्निर्गच्छन्तम् आदित्यं स्वस्थानात् प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्यानस्तमितं ज्वलन्तं रश्मिमालिनमादित्यमभिगन्तुं प्रत्युद्गन्तुं समुत्सहे । ज्वलन्तमित्यनेन मध्याह्न एवाभिगमनं सूच्यते ॥ ४।६७।१५ ॥

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।

प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ ४।६७।१६ ॥

ततः सूर्यप्रत्युद्गमनानन्तरम् । भूमिमसंस्पृश्य कुत्राप्यविश्रम्य भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुनरप्येकवारं सूर्यमभिगन्तुमुत्सह इत्यर्थः । शतयोजनस्थां लङ्कां गन्तुं किमुत? इति भावः ॥ ४।६७।१६ ॥

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।

सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ ४।६७।१७ ॥

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ।

हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ ४।६७।१८ ॥

उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ॥ ४।६७।१७,१८ ॥

लतानां विविधं पुष्पं पादपानां च सर्वशः ।

अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ ४।६७।१९ ॥

लतानामिति । पुष्पमिति जात्येकवचनम् ॥ ४।६७।१९ ॥

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ॥ ४।६७।२० ॥

द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ।

महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ॥ ४।६७।२१ ॥

दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।

विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ।

सागरं क्षोभयिष्यामि प्लवमानः समाहितः ॥ ४।६७।२२ ॥

भविष्यतीति । स्वातेः पन्थाः परिपूर्णताराच्छायापथः ॥ ४।६७।२०२२ ॥

वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥ ४।६७।२३ ॥

ऋते सुपर्णराजानं मारुतं वा महाजवम् ।

न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ ४।६७।२४ ॥

निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।

सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ ४।६७।२५ ॥

भविष्यति हि मे रूपं प्लवमानस्य सागरे ।

विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव ॥ ४।६७।२६ ॥

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।

अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ ४।६७।२७ ॥

मारुतस्य समो वेगे गरुडस्य समोजवे ।

अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ ४।६७।२८ ॥

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।

विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ ४।६७।२९ ॥

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ॥ ४।६७।३० ॥

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।

तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ४।६७।३१ ॥

उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम् ।

वीरकेसरिणः पुत्र हनुमन् मारुतात्मज ॥ ४।६७।३२ ॥

ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः ।

तव कल्याणरुचयः कपिमुख्याः समागताः ॥ ४।६७।३३ ॥

मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ।

ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।

गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ ४।६७।३४ ॥

वैनतेयस्येति । मम या शक्तिः सा मारुतस्य वैनतेयस्य वेति सम्बन्धः ॥ ४।६७।२३३४ ॥

स्थास्यामश्चैकपादेन यावदागमनं तव ।

त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ।

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ ४।६७।३५ ॥

स्थास्यामश्चैकपादेन, तथा सत्वराः स्मेत्यर्थः ॥ ४।६७।३५ ॥

नेयं मम मही वेगं लङ्घने धारयिष्यति ।

एतानीह नगस्यास्य शिलासङ्कटशालिनः ।

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ ४।६७।३६ ॥

एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ।

नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु ॥ ४।६७।३७ ॥

एतानि मम निष्पेषं पादयोः प्लवतां वराः ।

प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ४।६७।३८ ॥

ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ।

आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ४।६७।३९ ॥

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।

लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥ ४।६७।४० ॥

नेयमित्यादि । शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “सङ्कटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः” इति विश्वः ॥ ४।६७।३६४० ॥

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।

मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ ४।६७।४१ ॥

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।

विचचार हिरश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४।६७।४२ ॥

पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ।

रराज सिंहाभिहतो महान्मत्त इव द्विपः ॥ ४।६७।४३ ॥

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ॥ ४।६७।४४ ॥

सलिलोत्पीडैः सलिलप्रवाहैः सङ्कुलम् ॥ ४।६७।४१४४ ॥

वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ।

नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ ४।६७।४५ ॥

उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।

त्यज्यमानमहासानुः सन्निलीनमहोरगः ॥ ४।६७।४६ ॥

पानसंसर्गकर्कशैः पानसंसर्गदृढैः । “कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्” इत्यमरः । पानप्रवृत्तौ दृढाभिनिवेशैरित्यर्थः ॥ ४।६७।४५,४६ ॥

चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ।

निःश्वसद्भिस्तदा ऽ ऽर्तैस्तु भजङ्गैरर्धनिस्सृतैः ॥ ४।६७।४७ ॥

सपताक इवाभाति स तदा धरणीधरः ॥ ४।६७।४८ ॥

उद्धातः समूहः ॥ ४।६७।४७,४८ ॥

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ।

सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ४।६७।४९ ॥

ऋषिभिरिति । सार्थहीनः, अभूदिति शेषः ॥ ४।६७।४९ ॥

स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।

मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ४।६७।५० ॥

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥

स इति । वेगसमाहितात्मा वेगविषये समर्पितमनाः । मनः समाधाय मनः समाहितं कृत्वा ॥ ४।६७।५० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥

इत्थं शठारिगुरुवर्यपदारविन्द

सेवारसाधिगतसर्वरहस्यबोधः ।

गोविन्धराजविबुधः प्रमुदे बुधानां

कैष्किन्धकाण्डविषयां विततान टीकाम् ॥

॥ इति किष्किन्धाकाण्डः समाप्तः ॥