०६४ वानरैः सागरतीरगमनम्

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः ।

सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ॥ ४।६४।१ ॥

एवं प्रक्षिप्ताः पञ्च सर्गाः गताः ॥ एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह आख्याता इति । समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ॥ ४।६४।१ ॥

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।

हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ ४।६४।२ ॥

हरयः सम्पातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणः सन्तः रावणक्षयं रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं, तन्मार्गभूतं सागरम् आजग्मुरिति सम्बन्धः ॥ ४।६४।२ ॥

अभिक्रम्य तु तं देशं ददृशुर्भीमाविक्रमाः ।

कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ४।६४।३ ॥

कृत्स्नस्य लोकस्य प्रतिबिम्बमिव प्रतिनिधिमिव । इदं तटविशेषणम्, सर्वलोकस्थसमस्तवस्तुसम्पूर्णमित्यर्थः । “प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥ " इत्यमरः ॥ ४।६४।३ ॥

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।

सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ ४।६४।४ ॥

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।

व्यत्यस्तैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ ४।६४।५ ॥

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।

क्कचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ४।६४।६ ॥

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।

रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ४।६४।७ ॥

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।

विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ ४।६४।८ ॥

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।

आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ ४।६४।९ ॥

सन्निवेशं स्थानम् ॥ ४।६४।४९ ॥

तान् विषादेन महता विषण्णान् वानरर्षभान् ।

उवाच मतिमान् काले वालिसूनुर्महाबलः ॥ ४।६४।१० ॥

न विषादे मनः कार्यं विषादो दोषवत्तमः ।

विषादो हन्ति पुरुषं बालं क्रुद्ध इवरोगः ॥ ४।६४।११ ॥

विषादेन विषादकारणेन ॥ ४।६४।१०,११ ॥

विषादो यं प्रसहते विक्रमे पर्युपस्थिते ।

तेजसा तस्य हीनस्य पुरुषार्थे न सिध्यति ॥ ४।६४।१२ ॥

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।

हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ ४।६४।१३ ॥

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।

वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ ४।६४।१४ ॥

को ऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।

अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ ४।६४।१५ ॥

ततस्तान् हरिवृद्धांश्च तञ्च सैन्यमरिन्दमः ।

अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदवब्रवीत् ॥ ४।६४।१६ ॥

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।

कः करिष्यति सुग्रीवं स्तयसन्धमरिन्दमम् ॥ ४।६४।१७ ॥

को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः ।

इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ॥ ४।६४।१८ ॥

कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि च ।

इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ ४।६४।१९ ॥

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।

अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ ४।६४।२० ॥

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।

स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ ४।६४।२१ ॥

अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।

स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ ४।६४।२२ ॥

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।

सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ ४।६४।२३ ॥

विषादो यं ( विषादो ऽयं ) प्रसहते अभिभवति । सिद्ध्यतीत्यनन्तरम् इतिकरणं बोध्यम् ॥ ४।६४।१२२३ ॥

व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।

नहि वो गमने सङ्गः कदाचित्कस्यत्क्वचित् ।

ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ ४।६४।२४ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥

सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ॥ ४।६४।२४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥