०६३ सम्पातिना नूतनपक्षप्राप्तिः

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः ।

मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स स्वमाश्रमम् ॥ ४।६३।१ ॥

कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः ।

अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ ४।६३।२ ॥

एतैरित्यादि ॥ ४।६३।१,२ ॥

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।

देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर्वचः ॥ ४।६३।३ ॥

अद्य त्विति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् । अतः साग्रं वर्षशतं गतमित्येतदष्टवर्षसहस्रोपलक्षणम् ॥ ४।६३।३ ॥

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।

मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ॥ ४।६३।४ ॥

उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।

बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ।

सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ॥ ४।६३।५ ॥

बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ।

पुत्रः सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥ ४।६३।६ ॥

तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ।

न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ॥ ४।६३।७ ॥

तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह ।

उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ॥ ४।६३।८ ॥

वितर्कैः विविधविचारैः ॥ ४।६३।४८ ॥

स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ।

प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ॥ ४।६३।९ ॥

ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ।

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ॥ ४।६३।१० ॥

यौवने वर्तमानस्य ममासीद्यः पराक्रमः ।

तमेवाद्यानुगच्छामि बलं पौरुषमेव च ॥ ४।६३।११ ॥

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ।

पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ॥ ४।६३।१२ ॥

इत्युक्त्वा स हरीन् सर्वान् सम्पातिः पतगोत्तमः ।

उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ॥ ४।६३।१३ ॥

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ।

बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ ४।६३।१४ ॥

अरुणच्छदैः अरुणबहिष्पत्रैः ॥ ४।६३।९१४ ॥

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।

अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ ४।६३।१५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥

अथेति । अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ॥ ४।६३।१५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥