०५८ सम्पातिना सीतान्वेषणसाहाय्यप्रतिज्ञा

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।

सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ ४।५८।१ ॥

अथ सम्पातिना सीतास्थानकथनमष्टपञ्चाशे इत्युक्त इत्यादि ॥ ४।५८।१ ॥

यवीयान् मम स भ्राता जटायुर्नाम वानराः ।

यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ ४।५८।२ ॥

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।

नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ४।५८।३ ॥

यवीयानिति । आख्यात भूते लोट् ॥ ४।५८।२,३ ॥

पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ।

आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४।५८।४ ॥

पुरेति, परस्परवेगातिशयख्यापनपरावित्यर्थः । आदित्यमुपयातौ सूर्यसमीपं गतौ स्वः ॥ ४।५८।४ ॥

आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम् ।

मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ ४।५८।५ ॥

आवृत्त्या मण्डलगत्या । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥ ४।५८।५ ॥

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरार्दितम् ।

पक्षाभ्यां छादयामास स्नेहात्परमविह्विलः ॥ ४।५८।६ ॥

निर्दग्धपक्षः पतितो विन्ध्ये ऽहं वानरर्षभाः ।

अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ ४।५८।७ ॥

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा ।

युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ४।५८।८ ॥

जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।

आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ४।५८।९ ॥

छादयामास आच्छादयम् ॥ ४।५८।६९ ॥

अदीर्घदर्शनं तं वै रावणं राक्षसाधिपम् ।

अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ ४।५८।१० ॥

ततो ऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।

आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन् ॥ ४।५८।११ ॥

निर्दग्धपक्षो गृध्रो ऽहं हीनवीर्यः प्लवङ्गमाः ।

वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ ४।५८।१२ ॥

अदीर्घदर्शनम् आगाम्यनर्थानवेक्षकम् ॥ ४।५८।१०१२ ॥

जानामि वारुणान् लोकान् विष्णोस्त्रैविक्रमानपि ।

महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ॥ ४।५८।१३ ॥

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।

जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ ४।५८।१४ ॥

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।

ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ ४।५८।१५ ॥

वारुणान् लोकान् अतलवितलादिलोकान् । त्रैविक्रमान् त्रिविक्रममितानुपरितनलोकानित्यर्थः । महासुरविमर्दान् देवासुरसङ्ग्रामान् ॥ ४।५८।१३१५ ॥

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।

भूषणान्यपविध्यन्ती ग्रात्राणि च विधून्वती ॥ ४।५८।१६ ॥

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।

असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ ४।५८।१७ ॥

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।

श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ ४।५८।१८ ॥

अपविध्यन्ती छेदयन्ती ॥ ४।५८।१६१८ ॥

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च ।

अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ ४।५८।१९ ॥

इतो द्वीपः समुद्रस्य सम्पूर्णे शतयोजने ।

तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥ ४।५८।२० ॥

जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ।

प्राकारेणार्कवर्णेन महता सुसमावृता ॥ ४।५८।२१ ॥

तस्यां वसति वैदेही दीना कौशेयवासिनी ।

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ ४।५८।२२ ॥

जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ।

लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ ४।५८।२३ ॥

सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् ।

आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥ ४।५८।२४ ॥

पुत्र इति । अध्यास्ते । “अधिशीङ्स्थासां कर्म” इति नगर्याः कर्मत्वम् ॥ ४।५८।१९२४ ॥

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ।

ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ ४।५८।२५ ॥

तत्रैवेति । विक्रमध्वम् “वेः पादविहरणे” इत्यात्मनेपदम् । ज्ञानेन दिव्यज्ञानेन ॥ ४।५८।२५ ॥

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।

द्वीतीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ ४।५८।२६ ॥

दूरस्थदर्शनं भवतः कुतो जातम्? तत्राह आद्य इत्यादिना । कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणम् । धान्यजीविनः पक्षिविशेषाः कुलिङ्गाः । “ये चान्ये धान्यजीविनः” इति वचनात् । बलिभोजानां काकानाम् ॥ ४।५८।२६ ॥

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ।

श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥ ४।५८।२७ ॥

भासा इति । भासाः जलवायसाः । “भासस्तु जलवायसः” इति निघण्टुः ।

श्येनविशेषा इत्यप्याहुः ॥ ४।५८।२७ ॥

बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।

षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ।

वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥ ४।५८।२८ ॥

बलेत्यदि । वैनतेयात् गरुडात् नः अस्माकं जन्म उत्पत्तिः । तेन तस्य या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्यकाण्डे “द्वौ पुत्रौ विनतायास्तु गरुडो ऽरुण एव च । तस्माज्जातो ऽहमरुणात्सम्पातिस्तु ममाग्रजः ॥ " इति वचनेन जटायुषोक्तेनेदं विरुद्धमिति चेत्? न “वैनतेयात्” इत्यस्य विनतापुत्रादरुणादित्यर्थ इत्यदोषात्। वैनतेयगतिरित्यत्र वैनतेययोररुणगरुडयोर्गतिरित्यर्थः। अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ ४।५८।२८ ॥

इहस्थो ऽहं प्रपश्यामि रावणं जानकीं तथा ।

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ॥ ४।५८।२९ ॥

तस्मादाहारवीर्येण निसर्गेण च वानराः ।

आयोजनशतत्साग्राद्वयं पश्याम नित्यशः ॥ ४।५८।३० ॥

न केवलं दिव्यज्ञानम्, दिव्यचक्षुरप्यस्तीत्याह इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तम् । आहारवीर्येण चक्षुष्याहारबलेनेत्यर्थः । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ॥ ४।५८।२९,३० ॥

अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ।

विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ ४।५८।३१ ॥

वृत्तिः भक्ष्यग्रहणम् । चरणयोधिनां कुक्कुटानाम् । पादमूले पादविकीर्णप्रदेशे । वृत्तिः जीवनम् ॥ ४।५८।३१ ॥

गर्हितं तु कृतं कर्म येन स्म पिशिताशिना ।

प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥ ४।५८।३२ ॥

गर्हितमिति । येन पिशिताशिना गर्हितं कर्म सीतापहरणरूपं कृतम् । मे भ्रातुर्हेतोः प्रतीकार्यं तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति शेषः । अयं श्लोकः चरणयोधिनामित्यनन्तरं निवेशनीय इत्याहुः ॥ ४।५८।३२ ॥

उपायो दृश्यतां कश्चिल्लङ्घने लवाणाम्भसः ।

अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ४।५८।३३ ॥

एवं प्रासङ्गिकं परिसमाप्य प्रकृतमाह उपाय इति । गमिष्यथेत्यत्र किष्किन्धामिति शेषः ॥ ४।५८।३३ ॥

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।

प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ४।५८।३४ ॥

समुद्रमिति । नेतुमिच्छामि, मामिति शेषः । भवद्भिरिति करणे तृतीया ॥ ४।५८।३४ ॥

ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ।

निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ॥ ४।५८।३५ ॥

पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् ।

बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ४।५८।३६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

तीरं देशम्, तीरप्रदेशमित्यर्थः । तं देशं सम्पात्यावासभूतं देशं पुनः प्रत्यानयित्वा प्रवृत्तिं वृत्तान्तम् उपलभ्य ते वानराः हृष्टाः बभूवुः ॥ ४।५८।३५,३६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ॥