०५७ अङ्गदेन स्वकष्टनिरूपणम्

शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ ४।५७।१ ॥

अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥ ४।५७।१ ॥

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।

चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥ ४।५७।२ ॥

सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ।

कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ ४।५७।३ ॥

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ।

अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा ॥ ४।५७।४ ॥

रौद्राम् आत्मत्यागाध्यवसायरूपत्वेन क्रूराम् ॥ ४।५७।२४ ॥

बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ।

ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ ॥ ४।५७।५ ॥

सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।

लोके विश्रुतकर्मा ऽभूद्राजा वाली पिता मम ॥ ४।५७।६ ॥

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४।५७।७ ॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।

पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ४।५७।८ ॥

बभूवेत्यादि । आर्यः पितामहः । आत्मजौ औरसौ । ओघबलौ ओघसङ्ख्याकपुरुषबलौ । औघसङ्ख्या च पूर्वोक्ता ॥ ४।५७।५८ ॥

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ।

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ ४।५७।९ ॥

रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।

परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ ४।५७।१० ॥

एवं गृध्रो हतस्तेन रावणेन बलीयसा ।

संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ४।५७।११ ॥

ततो मम पितृव्येण सुग्रीवेण महात्मना ।

चकार राघवः सख्यं सो ऽवधीत्पितरं मम ॥ ४।५७।१२ ॥

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ ४।५७।१३ ॥

रामस्य तु पितुर्मित्रमिति कथनात् मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ॥ ४।५७।९१३ ॥

निहत्य वालिनं रामस्ततस्तमभिषेचयत् ।

स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ ४।५७।१४ ॥

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।

एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः ॥ ४।५७।१५ ॥

वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ।

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ ४।५७।१६ ॥

अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं बिलम् ।

मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ।

व्यीततस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ ४।५७।१७ ॥

निहत्येति । अभिषेचयत् अभ्यषेचयत् ॥ ४।५७।१४१७ ॥

ते वयं कपिराजस्य सर्वे वचनकारिणः ।

कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ ४।५७।१८ ॥

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।

गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ ४।५७।१९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

संस्थां व्यवस्थाम् ॥ ४।५७।१८,१९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥