०५६ सम्पातिना वानरमुखात् जटायुमृत्युश्रवणम्

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले ।

हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ ४।५६।१ ॥

अथ सम्पातिसंवनादः षट्पञ्चाशे उपविष्टा इत्यादि । उपचक्रमे प्राप्तुमुपक्रान्तः ॥ ४।५६।१ ॥

सम्पातिर्नाम नाम्ना तु चिरञ्चीवी विहङ्गमः ।

भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ॥ ४।५६।२ ॥

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।

उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ४।५६।३ ॥

सम्पातिरित्यादिश्लोकद्वयमेकान्वयम् ॥ ४।५६।२,३ ॥

विधिः किल नरं लोके विधानेनानुवर्तते ।

याथा ऽयं विहितो भक्ष्याश्चिरान्मह्यामुपागतः ॥ ४।५६।४ ॥

विधिः दैवम् । विधानेन योगक्षेमसम्पादनेन । यथा यस्मात्कारणात् ॥ ४।५६।४ ॥

परं पराणां भक्षिष्ये वानराणां मृतं मृतम् ।

उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ॥ ४।५६।५ ॥

पराणां वानराणां मध्ये मृतं परं वानरं भक्षिष्य इत्येवं वच उवाचेत्यन्वयः ॥ ४।५६।५ ॥

तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ।

अङ्गदः परमायस्तो हमुमन्तमथाब्रवीत् ॥ ४।५६।६ ॥

पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।

इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ४।५६।७ ॥

परमायस्तः परमोद्विग्न इत्यर्थः ॥ ४।५६।६,७ ॥

रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।

हरिणामियमज्ञाता विपत्तिः सहसागता ॥ ४।५६।८ ॥

अज्ञाता अचिन्तिता ॥ ४।५६।८ ॥

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।

गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ४।५६।९ ॥

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।

प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ।

अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ॥ ४।५६।१० ॥

तेन तस्योपकारार्थं त्यजतात्मानमात्मना ।

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥ ४।५६।११ ॥

राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ।

कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ॥ ४।५६।१२ ॥

स्नेहकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां वद्धाः । अन्योन्यं प्रत्येकं प्रत्येकम् ॥ ४।५६।१०१२ ॥

स सुखी गृध्रराजस्तु रावणेन हतो रणे ।

मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥ ४।५६।१३ ॥

जटायुषो विनाशेन राज्ञो दशरथस्य च ।

हरणेन च वैदेह्याः संशयं हरयो गताः ॥ ४।५६।१४ ॥

परमां गतिं मुक्तिमित्यर्थः ॥ ४।५६।१३,१४ ॥

रामलक्ष्मणयोर्वास अरण्ये सह सीतया ।

राघवस्य च बाणेन वालिनश्च तथा वधः ॥ ४।५६।१५ ॥

रामकोपादशेषाणां राक्षसानां तथा वधः ।

कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ ४।५६।१६ ॥

रामलक्ष्मणयोरित्यादि । रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन कृतं हीति सम्बन्धः । इत्यङ्गदो ऽभ्रवीदिति सम्बन्धः ॥ ४।५६।१५,१६ ॥

तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ।

भृशचिलतमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट् ॥ ४।५६।१७ ॥

तदसुखमिति । समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं वानराणां दर्शन च । अस्य श्लोकस्यानन्तरं सर्गसमाप्तिर्भवितुमर्हति ॥ ४।५६।१७ ॥

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।

अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ ४।५६।१८ ॥

को ऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।

जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ ४।५६।१९ ॥

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।

नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ ४।५६।२० ॥

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ ४।५६।२१ ॥

अतिदीर्घस्य कालस्य तुष्टो ऽस्मि परिकीर्तनात् ।

तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ ४।५६।२२ ॥

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।

तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ ४।५६।२३ ॥

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।

सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ ४।५६।२४ ॥

तीक्ष्णतुण्डः तीक्ष्णमुखः । “वक्त्रास्ये वदनं तुण्डम्” इत्यमरः ॥ ४।५६।१८२४ ॥

इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ॥ ४।५६।२५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥

अत्र “कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । सखा दशरथः कथम्” इत्येवमनुवादात् पूर्वमिदमप्यङ्गदेनोक्तमिति ध्येयम् । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ॥ ४।५६।२५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥