०५४ हनुमता-अङ्गदोपदेशः

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।

अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ ४।५४।१ ॥

अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे तथेत्यादि । राज्यं हृतं मेने राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ॥ ४।५४।१ ॥

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।

चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ॥ ४।५४।२ ॥

अष्टाङ्गया “ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहा ऽपोहो ऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणः” इत्युक्ताष्टाङ्गयुक्तया । चतुर्बलसमन्वितं बाहुबलमनोबलोपायबलबन्धुबलयुक्तम् । चतुर्दशगुणम् “देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता ॥ अविसंवादिता शौर्यं शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममर्षत्वमचापलम् ॥ " इत्युक्तचतुर्दशगुणयुक्तम् ॥ ४।५४।२ ॥

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।

शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ४।५४।३ ॥

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।

शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥ ४।५४।४ ॥

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् ।

अभिसन्धातुमारेभे हनुमानङ्गदं ततः ॥ ४।५४।५ ॥

आपूर्यमाणमित्यादि । तारस्य शुश्रूषमाणम् । नटस्य शृणोतीतिवत्कारकशेषत्वात् षष्ठी । शुक्रस्येव पुरन्दरमिति पुरन्दरशब्दसन्निधानादत्र शुक्रशब्दो बृहस्पतिपरः । यद्वा कस्याञ्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानित्यवगम्यते । “गुरोरिव पुरन्दरम्” इति क्कचित्पाठः । अभिसन्धातुम् अनुकूलयितुम् ॥ ४।५४।३५ ॥

स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।

भेदयामास तान् सर्वान् वानरान्वाक्य सम्पदा ॥ ४।५४।६ ॥

स इति । चतुर्णां सामादीनाम् । तृतीयं भेदम् । “साम दानं च भेदश्च दण्डश्चेति यथाक्रमम् ।” इति क्रमनियमात् ॥ ४।५४।६ ॥

तेषु सर्वेषु भिन्नेषु ततो ऽभीषयदङ्गदम् ।

भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ ४।५४।७ ॥

कोपरूप उपायः कोपोपायः दण्डः तत्समन्वितैः ॥ ४।५४।७ ॥

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।

दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ४।५४।८ ॥

त्वमिति । पित्रा पितुः ॥ ४।५४।८ ॥

नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गवः ।

नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ॥ ४।५४।९ ॥

नित्यमिति । आज्ञाप्यम् आज्ञापनम् । भावे कृत्यप्रत्ययः । पुत्रदारान् विना पुत्रदारैर्विरहिताः । त्वयेति कर्तरि तृतीया । अस्य आज्ञाप्यमित्यनेन सम्बन्धः ॥ ४।५४।९ ॥

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।

यथा ऽयं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ॥ ४।५४।१० ॥

न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।

दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ४।५४।११ ॥

अयं जाम्बवान्नीलः सुहोत्रश्च एते त्वां यथा नानुयुञ्जैयुः नानुवर्तेरन् तथा ऽहमपि नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवादपकर्षितुं न शक्याः ॥ ४।५४।१०,११ ॥

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।

आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ ४।५४।१२ ॥

बलीयसः प्रबलस्य दुर्बलेन समं विगृह्य आसनमप्यवस्थानमपि कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मात् आत्मरक्षाकरः स्वक्षेमकाम इति यावत् । दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीत ॥ ४।५४।१२ ॥

यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ।

एतल्लक्ष्मणबाणानामीषत्कार्यं विदारेणे ॥ ४।५४।१३ ॥

स्वतो बलाभावे ऽपि दुर्गबलमस्तीत्याशङ्क्याह यां चेति । यामिमां गुहां धात्रीं रक्षिकां मन्यसे । एतद्बिलमिति ताराच्छ्रुतम्, एतत् ऋक्षबिलं विदारणे विषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाध्यमित्यर्थः ॥ ४।५४।१३ ॥

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।

लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्त्रपुटं यथा ॥ ४।५४।१४ ॥

स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्याशनिं वज्रं क्षिपतेन्द्रेण स्वल्पं कृतं द्वारमात्रं कृतम् । लक्ष्मणस्तु निशितैर्बाणैः पत्त्रपुटमिव भिन्द्याद्धि ॥ ४।५४।१४ ॥

लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः ।

वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥ ४।५४।१५ ॥

तद्विधाः तादृशाः, अपरिच्छिन्नवैभवा इति यावत् । गिरीणामपि दारणाः, बिलस्य किमुतेति भावः ॥ ४।५४।१५ ॥

अवस्थाने यदैव त्वमासिष्यसि परन्तप ।

तदेव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ ४।५४।१६ ॥

स्मरन्तः पत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।

खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ ४।५४।१७ ॥

स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।

तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ॥ ४।५४।१८ ॥

अवस्थाने बिले । यद्वा विगृह्यावस्थाने आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यदा ऽध्यवसिष्यसीत्यर्थः ॥ ४।५४।१६१८ ॥

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।

अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ ४।५४।१९ ॥

न चेति । लक्ष्मणसायकाः अपवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ॥ ४।५४।१९ ॥

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।

आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ ४।५४।२० ॥

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।

शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥ ४।५४।२१ ॥

प्रियकामश्च ते मासुस्तदर्थं चास्य जीवितम् ।

तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥ ४।५४।२२ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥

आनुपूर्व्यात् क्रमप्राप्तेः ॥ ४।५४।२०२२ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ॥ ५४ ॥